________________
शतक-१, वर्ग:-, उद्देशकः-२ कादाचित्कत्वं वचनप्राणाण्यादिति, लोभाहारापेक्षया तु सर्वेषामप्यभीक्ष्णमितिघटतएव, अल्पशरीराणां तु यत्कादाचित्कत्वं तदपर्याप्तकत्वे लोमाहारोच्छसयोरभवनेन पर्याप्तकत्वे च तद्भावेनावसेयमिति।
तथा कर्मसूत्रेयत्पूर्वोत्पन्नानामल्पकर्मत्वमितरेषांतुमहाकर्मत्वंतदायुष्कादितद्भववेद्यकमपिक्षयाऽवसेयम्।तथा वर्णलेश्यासूत्रयोर्यत्पूर्वोत्पन्नानांशुभवर्णाद्युक्तं तत्तारुण्यात्पश्चादुत्पन्नानां चाशुभवर्णादि बाल्यादवसेयं, लोके तथैव दर्शनादिति । तथा ‘संजयासंजय'त्ति देसविरताः स्थूलात् प्राणातिपातादेर्निवृत्तत्वादितरस्माद-निवृत्तत्वाच्चेति ।
___ 'मणुस्सा जहा नेरइय'त्ति तथा वाच् इति गम्यं, 'नाणत्तंति नानात्वं भेदः पुनरयं, तत्र 'मणुस्सा णंभंते! सव्वे समाहारगा?' इत्यादि प्रश्नः, 'नो इणढे समढे' इत्याधुत्तरं जाव दुविहा मणुस्सा पन्नत्ता, तंजहा-महासरीरा य अप्पसरीरा य, तत्थ णं जे ते महासरीरा ते बहुतराए पोग्गले आहारेंति, एवं परिणामेंति ऊससंति नीससंति' ।
इहस्थानेनारकसूत्रे अभिक्खणंआहारेंती'त्यधीतम्, इहतु आहच्चे' त्यधीयते,महाशरीरा हि देवकुर्बादिमिथुनकाः, तेचकदाचिदेवाहारयन्ति कावलिकाहारेण, 'अठ्ठमभत्तस्स आहारो'त्ति वचनात्, अल्पशरीरास्त्वभीक्ष्णमल्पं च, बालानां तथैव दर्शनात् संमूर्छिममनुष्याणाम्पशरीराणाम नवरतमाहारसम्मवाच्च, यच्चेह पूर्वोत्पन्नानांशुद्धवर्णादि तत्तारुण्यात्संमूर्छिमापेक्षया वेति।
___'सरागसंजय'त्ति अक्षीणानुपशान्तकषायाः 'वीयरागसंजय'त्ति उपशान्तकषायाः क्षीणकषायाश्च, 'अकिरिय'त्ति वीतरागत्वेनारम्भादीनामभावादक्रियाः, “एगामायावत्तिय'त्ति अप्रमत्तसंयतानामेकैव मायाप्रत्यया 'किरिया कज्जइ'त्ति क्रियते-भवति कदाचिदुड्डाहारक्षण - प्रवृत्तानामक्षीणकषायत्त्वादिति, 'आरंभिय'त्ति प्रमत्तसंयतानां च ‘सर्व प्रमत्तयोग आरम्भ' इतिकृत्वा-ऽऽरम्भिकी स्यात्, अक्षीणकषायत्वाच्च मायाप्रत्ययेति । 'वाणमंतरजोइसवेमाणिया जहा असुरकुमार'त्ति, तत्र शरीरस्याल्पत्वमहत्त्वे स्वावगाह- नानुसारेणा वसेये।
तथा वेदनायामसुरकुमाराः सन्निभूयायअसन्निभूयाय, सन्निभूया महावेयणाअसन्निभूया अप्पवेयणा' इत्येवमधीताः, व्यन्तरा अपितथैवाध्येतव्याः, यतोऽसुरादिषु व्यन्तरान्तेषु देवेषु असज्ञिन उत्पद्यन्ते, यतोऽत्रैवोद्देशके वक्ष्यति-'असन्नी णं जहन्नेणं भवणवासीसु उक्कोसेणं वाणमंतरेसुत्ति,तेचासुरकुमारप्रकरणोक्तयुक्तेरल्पवेदना भवन्तीत्यवसेयं, यत्तुप्रागुक्तंसज्ञिनः सम्यग्दृष्टयोऽसज्ञिनस्तिवतरेइतितवृद्धव्याख्यानुसारेणैवेति, ज्योतिष्कवैमानिकेषुत्वसज्ञिनो नोत्पद्यन्तेऽतो वेदनापदे तेष्वधीयते 'दुविहा जोतिसिया मायिमिच्छदिट्ठी उववन्नगाये' त्यादि तत्र मायिमिथ्यादृष्टयोऽल्पवेदना इतिर च महावेदनाः शुभवेदनामाश्रित्येति, एतदेव दर्शयन्नानवरं 'वेयणाए'इत्यादि।
अथ चतुर्विंशतिदण्डकमेव लेश्याभेदविशेषणमाहारादिपदैनिरूपयन् दण्डकसप्तकमाह _ 'सलेस्साणं भंते ! नेरइया सव्वे समाहारग'त्ति अनेनाहारशरीरोच्छसकर्मवर्णलेश्यावेदनाक्रियोपपाताख्यपूर्वोक्तन वपदोपेतनारकादिचतुर्विशतिपददण्डको लेश्यापदविशेषितः सूचितः तदन्येचकृष्णलेश्यादिविशेषिताःपूर्वोक्तनवपदोपेता एवयथासम्भवनारकादिपदात्मकाः षड् दण्डकाः सूचिताः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org