SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ ५० भगवतीअङ्गसूत्रं १/-/२/२७ __ “कम्मवन्नलेस्साओ परिवन्नेयव्वाओ'त्ति कादीनि नारकापेक्षया विपर्ययेण वाच्यानि, तथाहि-नारकाये पूर्वोत्पन्नास्तेऽल्पकर्मकशुद्धतरवर्णशुभतरलेश्या उक्ताः असुरास्तुयेपूर्वोत्पन्नास्ते महाकर्माणोऽशुद्धवर्णा अशुभतरलेश्याश्चेति, कथम् ?, ये हि पूर्वोत्पन्ना असुरास्तेऽतिकन्दपदध्मातचित्तत्वान्नारकाननेकप्रकारया यातनया यातयन्तः प्रभूतमशुभं कर्म संचिन्वन्तीत्यतोऽभिधीयन्ते ते महाकर्माणः, अथवा ये बद्धायुषस्ते तिर्यगादिप्रायोग्यकर्मप्रकृतिबन्धनान्महाकाणः तथाऽशुभवर्णा अशुभलेश्याश्चते, पूर्वोत्पन्नानांहि क्षीणत्वात् शुभकर्मणःशुभवदियः-शुभोवर्णोलेश्याचह्नसतीति, पश्चादुत्पन्नास्त्वबद्धायुषोऽल्पकर्माणोबहुतरकर्मणामबन्धनाद् शुभकर्मणामक्षीणत्वाच्च शुभवर्णादयः स्युरिति। वेदनासूत्रं च यद्यपि नारकाणामिवासुरकुमाराणामपि तथाऽपि तद्भावनायां विशेषः, सचायम्-ये सज्ज्ञिभूतास्ते महावेदनाः, चारित्रविराधनाजन्यचित्तसन्तापात्, अथवा सज्ज्ञिभूताः सज्ञिपूर्वभवाः पर्याप्ता वा ते शुभवेदनामाश्रित्य महावेदना इतरे त्वल्पवेदना इति । एवं नागकुमारादयोऽपि ९ औचित्येन वाच्याः। 'पुढविक्काइया णं भंते ! आहारकम्मवन्नलेस्सा जहा नेरइयाणं'ति चत्वार्यपि सूत्राणि नारकसूत्राणीय पृथिवीकायिकाभिलापेनाधीयन्ति इत्यर्थः, केवलमाहारसूत्रे भावनैवं-पृथिवीकायिकानामागुलासङ्खयेयभागमात्रशरीरत्वेऽप्यल्पशरीरत्वम् इतरच्चेतआगमवचनादवसेयम् पुढवीकाइए पुढविक्काइयस्स ओगाहणठ्याए चउट्ठाणवडिए'त्ति, तेच महाशरीरा लोभाहारतो बहुतरान्पुद्गलानाहारयन्ति उच्छ्वासन्तिचअभीक्ष्णंमहाशरीरत्वादेव, अल्पशरीराणामल्पाहारोच्छसत्वमल्पशरीरत्वादेव, कादाचित्कत्वं च तयोः पर्याप्तकेतरावस्थापेक्षमवसेयम् । तथा कर्मादिसूत्रेषु पूर्वपश्चादुत्पन्नानां पृथिवीकायिकानां कर्मवर्णलेश्याविभागो नारकैः समएव, वेदनाक्रियोस्तुनानात्वमत एवाह-'असन्नित्ति मिथ्याष्टयोऽभनस्का वा 'असन्निभूय'त्ति असज्ञिभूताअसज्ञिनांयाजायते तामित्यर्थः, एतदेव व्यनक्ति- अनिदाए'त्तिअनिर्धारणया वेदनांवेदयन्ति, वेदनामनुभवन्तोऽपिन पूर्वोपात्ताशुभकर्मपरिणतिरियमिति मिथ्याईष्टत्वादवगच्छन्ति, विमनस्कत्वाद्वामत्तमूर्छितादिवदिति भावना। _ -'माईमिच्छदिहित्ति मायावन्तो हि तेषु प्रायेणोत्पद्यन्ते, यवाह॥१॥ "उम्मग्गदेसओ मग्गणासओ गूढहियय माइल्लो । सढसीलोय ससल्लो तिरियाउं बंधए जीवो॥ ततस्ते मायिन उच्यन्ते, अथवा मायेहानन्तानुबन्धिकषायोपलक्षणम् अतोऽनन्तानुबन्धिकषायोदयवन्तोऽत इव मिथ्यादृष्टयो-मिथ्यात्वोदयवृत्तय इति । 'ताणं नियइयाओ'त्ति तेषां पृथिवीकायिकानां नैयतिक्यो-नियता न तु त्रिप्रभृतय इति, पञ्चैवेत्यर्थः । “से तेणटेणं समयिरिय'त्ति निगमनं, 'जाव चउरिदिय'त्ति, इह महाशरीरत्वमितरच्च स्वस्वावगाहनाऽनुसारेणावसेयम्, आहारश्च द्वीन्द्रियादीनां प्रक्षेपलक्षणोऽपीति। _ 'पंचिंदियतिरिक्खजोणियाजहानेरइय'त्तिप्रतीतं,नवरमिह महाशरीराअभीक्ष्णमहारायन्ति उच्छ्वसन्तिचेति यदुच्यतेतत्सङ्ख्यातवर्षायुषोऽपेक्ष्येत्यसवेयं, तथैवदर्शनात, नासङ्ख्यातवर्षायुषः, तेषां प्रक्षेपाहारस्य षष्ठस्योपरि प्रतिपादितत्वात्, अल्पशरीराणां त्वाहारोच्छसयोः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003309
Book TitleAgam Suttani Satikam Part 05 Bhagvati
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy