SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ शतकं-१, वर्गः-, उद्देशकः-२ ४९ इति कथं न विरोधः ?, उच्यते, आरम्भपरिग्रहशब्दाभ्यां योगपरिग्रहो, योगानां तद्रूपत्वात्, शेषपदैस्तुशेषबन्धहेतुपरिग्रहः प्रतीयत एवेति, तत्र सम्यग्दृष्टीनांचत स्रएव, मिथ्यात्वाभावात्, शेषाणां तु पञ्चापि, सम्यग्मिथ्यात्वस्य मिथ्यात्वेनैवेह विवक्षितत्वादिति । _ 'सव्वे समाउया' इत्यादिप्रश्नस्य निर्वचनचतुर्भङ्गया भावना क्रियते, निबद्धदशवर्षसहस्रप्रमाणायुषोयुगपच्चोत्पन्ना इति प्रथमभङ्गः १, तेष्वेव दशवर्षसहस्रस्थितिषुनरकेष्वेकेप्रथमतरमुत्पन्ना अपरेतुपश्चादिति द्वितीयः,२ अन्यैर्विषममायुर्निबद्धं कैश्चिद्दशवर्षसहस्रस्थितिषुकैश्चिच्चपञ्चदशवर्षसहस्रस्थितिषु उत्पत्ति पुनर्युगपदिति तृतीयः ३, केचित्सागरोपमस्थितयः केचित्तु दशवर्षसहलस्थितय इत्येवं विषमा युषोविषममेव चोत्पन्ना इति चतुर्थः ४, इह सङ्ग्रहगाथा॥१॥ "आहाराईसुसमा कम्मे वन्ने तहेव लेसाए। वियणाए किरियाए आउयउववत्तिचउभंगी॥ 'असुरुकुमाराणंभंते!' इत्यादिनाऽसुरकुमारप्रकरणमाहारदिपदनवकोपेतं सूचितं, तच्च नारकप्रकरणवन्नेयम्, एतदेवाह-'जहा नेरइया'इत्यादि, तत्राहारकसूत्रे नारकसूत्रसमानेऽपि भावना विशेषेण लिख्यते-असुरकुमाराणामल्पशरीरत्वं भवधारणीयशरीरापेक्षया जघन्यतोऽमुलासङ्ख्येयभागमान्त्वं, महाशरीरत्वंतूत्कर्षतः सप्तहस्तप्रमाणत्वम्, उत्तरवैक्रियापेक्षयात्वल्पशरीरत्वं जघन्यतोऽमुलासङ्खयेयभागमानत्वं, महशरीरत्वं तूत्कर्षतो योजनलक्षमानमिति, तत्रैते महाशरीराबहुतरान्पुद्गलानाहारयन्ति, मनोभक्षणालक्षणाहारापेक्षा, देवानांह्यसौस्यात्प्रधानश्च, प्रधानापेक्षयाचशास्त्रै निर्देशोवस्तूनां विधीयते, ततोऽल्पशरीरग्राह्याहारपुद्गलापेक्षयाबहुतरांस्ते तानाहारयन्तीत्यादि प्राग्वत्, अभिक्ष्णमाहारयन्ति अभीक्ष्णमुच्छसन्ति च इत्यत्र ये चतुथदिरुपर्याहारयन्ति स्तोकसप्तकादेचोपर्युच्छसन्ति तानाश्रित्याभीक्ष्णमित्यच्यते, उत्कर्षतो ये सातिरेकवर्षसहस्योपरि आहारयन्ति सातिरेकपक्षस्य चोपर्युच्छसन्ति तानङ्गीकृत्य एतेषामल्पकालीनाहारोच्छवासत्वेन पुनः पुनराहारयन्तीत्यादिव्यपदेशविषयत्वादिति, तथाऽल्पशरीरा अल्पतरान् पुद्गलानाहारयन्ति उच्छ्वासन्ति च अल्पशरीरत्वादेव, यत्पुनस्तेषां कादाचित्कत्वमाहारोच्छसयोस्तन्महाशरीराहारोच्छवासान्तरालापेक्षयाबहुतमान्तरालत्वात्, तत्र हि अन्तराले ते नाहारादि कर्वन्ति तदन्यत्र कर्वन्तीत्येवं विवक्षणादिति, महाशरीराणामप्याहारोच्छसयोरन्तारालमस्ति किन्तु तदल्पमित्यविवक्षणादेवाभीक्ष्णमित्युक्तं, सिद्धं च महाशरीराण तेषामाहारोच्छसयोरल्पान्तरत्वम् अल्पशरीराणां तु महान्तरत्वं । यथासौधर्मदेवानां सप्तहस्तमानतयामहाशरीराणांतयोरन्तरंक्रमेणवर्षसहस्रद्वयंपक्षद्वयं च, अनुत्तरसुराणां च हस्तमानतया अल्पशरीराणां त्रयशिंद्वर्षसहस्राणि त्रयस्त्रिंशदेव च पक्षा इति, एषांच महाशरीराणामभीक्ष्णाहारोच्छसाभिधानेनाल्पस्थितिकत्वमवसीते, इतरेषांतुविपर्ययो वैमानिकवदेवेति, अथवा लोमाहारापेक्षयाऽभीक्ष्णम्-अनुसमयमाहारयन्ति महाशरीराः पर्याप्तकावस्थायाम्, उच्छ्वासस्तुयथोक्तमानेनापिभवन् परिपूर्णभवापेक्षयापुनः पुनरित्युच्यते, अपर्याप्तकावस्थायां त्वल्पशरीरा लोमाहारतो नाहारयन्ति ओजाहारत् एवाहरणात् इति कदाचित्ते आहारयन्तीत्युच्यते,उच्छ्वासापर्याप्तकावस्थायांचनोच्छसन्त्यन्यदातूच्छवसन्तील्यतेआहत्योच्छवसन्तीति Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003309
Book TitleAgam Suttani Satikam Part 05 Bhagvati
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy