SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ भगवती अङ्गसूत्रं १/-/२/२७ आहत्य-कदाचित्सान्तरमित्यर्थः उच्छ्वासादि कुर्वन्ति, यच्च नारकाः सन्ततमेवोच्छसादि कुर्वन्तीति प्रागुक्तं तन्महाशरीरापेक्षयेत्यवगन्तव्यमिति, अथवाऽपर्याप्तकालेऽल्पशरीराः सन्तो लोमाहारपेक्षया नाहारयन्ति उच्छ्वास अपर्याप्तकत्वेन च नोच्छ्वसन्ति, अन्यदा त्वाहारयन्ति उच्छ्वसन्ति चेत्यत आहत्याहारयन्ति आहत्योच्छसन्तीत्युक्तं, 'से तेणट्टेणं गोयमा ! एवं वुच्चइनेरइया सव्वे नो समाहारे' त्यादि निगमनमिति । समकर्मसूत्रे-‘पुव्वोववन्नगा य पच्छेववन्नगा य'त्ति 'पूर्वोत्पन्नाः ' प्रथमतरमुत्पन्नास्तदन्ये तु पश्चादुत्पन्नाः, तत्र पूर्वोत्पन्नानामायुषस्तदन्यकर्मणां च बहुतरवेदनादल्पकर्मत्वं, पश्चादुत्पन्नानां च नारकाणामायुष्कादीनामल्पतराणां वेदितत्वात् महाकर्म्मत्वम्, एतच्च सूत्रं समानस्थितिका ये नारकास्तानङ्गीकृत्य प्रणीतम्, अन्यथा हि रत्नप्रभायामुत्कृष्टस्थितेर्नारकस्य बहुन्यायुषि क्षयमुपगते पल्योपमावशेषे च तिष्ठति तस्यामेव रत्नप्रभायां दशवर्षसहस्रस्थितिर्नारकोऽन्यः कश्चिदुत्पन्न इतिकृत्वा प्रागुत्पन्नं पल्योपमायुष्कं नारकमपेक्ष्य किं वक्तुं शक्यं महाकर्मेति ? | एवं वर्णसूत्रे पूर्वोत्पन्नस्याल्पं कर्म ततस्तस्य विशुद्धो वर्ण, पश्चादुत्पन्नस्य च बहुकर्मत्वादविशुद्धतरो वर्ण इति ।। एवं लेश्यासूत्रेऽपि, इह च लेश्याशब्देन भावलेश्या ग्राह्याः,' बाह्यद्रव्यलेश्या तु वर्णद्वारेणैवोक्तेति । ४८ ‘समवेयण’त्ति ‘समवेदनाः’ समानपीडाः 'सन्निभूय'त्ति सञ्ज्ञा- सम्यग्दर्शनंतद्वन्तः सञ्ज्ञिनः सञ्ज्ञिनो भूताः सञ्ज्ञित्वं गताः सञ्ज्ञिभूताः, अथवाऽसञ्ज्ञिनः सञ्ज्ञिनो भूताः सञ्ज्ञिभूताः च्चिप्रत्यययोगात्, मिथ्यादर्शनमपहा सम्यग्दर्शनजन्मना समुत्पन्ना इतियावत् तेषां च पूर्वकृतकर्मविपाकमनुस्मरतामहो महद्दुखसङ्कटमिदमकस्मादस्माकमापतितं न कृतो भगव - दर्हत्प्रणीतः सकलदुःखक्षयकरो विषयविषमविषयपरिभोगविप्रलब्धचेतोभिर्द्धर्म इत्ययो महद्दुखं मानसमुपजायतेऽतो महावेदनास्ते, असञ्ज्ञिभूतास्तु मिथ्यादृष्टयः, ते तु स्वकृतकर्मफलमिदमित्येवमजानन्तोऽनुपतप्तमानसा अल्पवेदनाः स्युरित्येके, अन्ये त्वाहुः सञ्ज्ञिनः सञ्ज्ञिपञ्चेन्द्रियाः सन्तो भूता-नारकत्वं गताः सञ्ज्ञिभूताः, ते महावेदनाः, तीव्राशुभाध्यवसायेना - शुभतरकर्मबन्धनेन महानरकेषूत्पादात्, असञ्ज्ञिभूतास्त्वनुभूतपूर्वासञ्ज्ञिभवाः, ते पासञ्ज्ञित्वा देवात्यताशुभाध्यवसायाभावाद्रनप्रभायामनतितीव्रवेदननरकेषूत्पादादल्पवेदनाः, अथवा 'सञ्ज्ञिभूताः' पर्याप्त कीभूताः, असञ्ज्ञिनस्तु अपर्याप्तकाः, ते च क्रमेण महावेदना इतरे च भवन्तीति प्रतीयत एवेति । 'समकिरिय'त्ति, समाः- तुल्याः क्रियाः - कर्म्मनिबन्धनभूता आरम्भिक्यादिका येषां ते समक्रियाः, 'आरंभिय'त्ति आरम्भः पृथिव्याद्युपमर्द स प्रयोजनं कारणं यस्याः साऽऽरम्भिकी १, 'परिग्गहिय'त्ति, परिग्रहो-धर्मोपकरणवर्जवस्तुस्वीकारो धर्मोपकरणमूर्च्छ च स प्रयोजनं यस्याः सा पारिग्रहिकी २, 'मायावत्तिय'त्ति, माया-अनार्जवं उपलक्षणत्वात्क्रोधादिरपि च सा प्रत्ययःकारणं यस्याः सा मायाप्रत्यया ३, 'अप्पक्खाणकिरिय'त्ति अप्रत्याख्यानेन-निवृत्त्मावेन क्रिया-कर्मबन्धादिकरहणमप्रत्याख्यानक्रियेति ४ 'पंच किरियाओ कज्जुंति' त्ति क्रियन्ते, कर्मकर्तरि प्रयोगोऽयं तेन भवन्तीत्यर्थः, 'मिच्छदंसणवत्तिय'त्ति मिथ्यादर्शनं प्रत्ययो हेतुर्यस्याः सा मिथ्यादर्शनप्रत्यया, ननु मिथ्यात्वाविरतिकषाययोगाः कर्मबन्धहेतव इति प्रसिद्धि इह तु आरम्भादयस्तेऽभिहिता For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003309
Book TitleAgam Suttani Satikam Part 05 Bhagvati
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy