________________
४७
शतकं-१, वर्गः-, उद्देशकः-२ आरंभि०१ परि० २ माया०३ अप्पच्च०४ मिच्छदंसण० ५ सम्मामिच्छदिट्ठीणं पंच ६
वाणमंतरजोतिसवेमाणिया जहा असुरकुमारा, नवरं वेयणाए नाणत्तं-मायिमिच्छदिट्ठीउववनगा य अप्पवेदणतरा अमायिसम्मदिट्ठीउववन्नगा यमहावेयणतरागा भाणियव्वा, जोतिसवेमाणिया।
___ सलेस्साणंभंते! नेरइया सव्वे समाहारगा?, ओहियाणं सलेस्साणं सुक्कलेस्साणं, एएसि णं तिण्हं एक्को गमो, कण्हलेस्साणं नीललेस्साणंपिएको गमो नवरं वेदणाए मायिमिच्छदिट्ठीउववनगा य अमायिसम्मदिट्ठीउवव० भाणियव्वा । मणुस्सा किरियासु सरागवीयरागपमत्तापमत्तान भाणियव्वा । काउलेसाएविएसेव गमो, नवरं नेरइए जहाओहिएदंडएतहाभाणियव्वा, तेउलेस्सा पम्हलेस्सा जस्स अस्थि जहा ओहिओ दंडओ तहा भाणियव्वा नवरं मणुस्सा सरागा वीयरागा य न भाणियव्वा, गाहा
वृ. 'नेरइए' इत्यादि व्यक्तं, नवरं 'महासरीराय अप्पसरीराये'त्यादि, इहाल्पत्वं महत्त्वं चापेक्षिकं,तत्रजघन्यम् अल्पत्वमङ्गुलासङ्खयेयभागमात्रत्वम्, उत्कृष्टंतुमहत्वंपञ्चधनुःशतमानत्वम्, एतच्च भवधारणीयशरीरापेक्षया, उत्तरवैक्रियापेक्षयातुजघन्यमङ्गुलसङ्ख्यातभागमात्रत्वम्, इतरत्तु धनुःसहमानत्वमिति, एतेन च किं समशरीरा इत्यत्र प्रश्ने उत्तरमुक्तं, शरीरविषमताऽभिधाने सत्याहारोच्छसयोर्वैषम्यं सुखप्रतिपाद्यं भवतीति शरीरप्रश्नस्य द्वितीयस्थानोक्तस्यापि प्रथम निर्वचनमुक्तम्।
___ अथाहारोच्छसप्रश्नयोर्निर्वचनमाह-'तत्थ ण मित्यादि ये यतो महाशरीरास्ते तदपेक्षया बहुतरानपुद्गलानआहारयन्ति, महाशरीरत्वादे, दृश्यते हि लोके बृहच्छरीरो बह्वाशी स्वल्पशरीरश्वाल्पभोजी, हस्तिशशकवत्, बाहुल्यापेक्षंचेदमुच्यते, अन्यथा बृहच्छरीरोऽपिकश्चिदल्पमश्नाति अल्पशरीरोऽपिकश्चिभूरिभुङ्कते, तथाविधमनुष्यवत्, नपुनरेवमिह, बाहुल्यपक्षस्यैवाश्रयणात्, तेचनारका उपपातादिसāद्यानुभवादन्यत्रासद्वेद्योदयवर्तित्वेनैकान्तेन यथा महाशरीरा दुःखितास्तीव्राहारभिलाषाश्च भवन्तीति ‘बहुतराग पोग्गले परिणामेति'त्ति, आहारपुद्गलानुसारित्वापरिणामस्य बहुतरानित्युक्तं, परिणामश्चापृष्टोऽप्याहारकार्यमितिकृत्वोक्तः ।
तथा बहुतराए पोग्गलेउस्ससंति'त्तिउच्छ्वासतया गृह्णन्ति, निस्ससंति'त्तिनिःश्वासतया विमुञ्चन्ति, महाशरीरत्वादेव, श्यतेहिबृहच्छरीरस्तज्जातीयेतरापेक्षया बहूच्छसनिःश्वासइति, दुःखितोऽपितथैव, दुःखिताश्च नारका इतिबहुतरांस्तानुच्छसन्तीति।तथाऽऽहारस्यैव कालकृतं वैषम्यमाह-'अभिक्खणं आहारेति'त्ति, अभीक्ष्णं-पौनःपुन्येन यो यतो महाशरीरः स तदपेक्षया शीघ्रशीघ्रतराहारग्रहणइत्यर्थः, 'अभिक्खणंऊससंति अभिक्खणंनीससंति' एतेहिमहाशरीरत्वेन दुःखिततरत्वाद् ‘अभीक्ष्णम्' अनवरतमुच्छसादि कुर्वन्तीति।
तथा-'तत्थणंजेते'इत्यादि, येते, इह 'ये' इत्येतावतैवार्थसिद्धौ यत्ते इत्युच्यते तद्भाषामात्रमेवेति, ‘अप्पसरीरा अप्पतराए पोग्गले आहारेंति'त्ति, ये यतोऽल्पशरीरास्ते तदाहारणीय पुद्गलापेक्षयाऽल्पतरान् पुद्गलनाहारयन्ति, अल्पशरीरत्वादेव, आहच्च आहारेंति'त्ति कदाचिदाहारयन्ति कदाचिन्नाहारयन्ति, महाशरीराहारग्रहणान्तरालापेक्षया, बहुतरकालान्तरालतयेत्यर्थः, आहच्च ऊससंतिनीससंति'त्तिएतेह्यल्पशरीरत्वेनैवमहाशरीरापेक्षयाऽल्पतरदुःखत्वाद्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org