________________
५३२
भगवतीअङ्गसूत्रं १०/-/२/४७८ जीवेन परिगृहीतेऽपरिगृहीते उभयरूपे चोत्पत्तिरिति त्रिविधाऽपि योनिरिति ।
तथा-'कतिविहाणंभंते! जोणी पन्नत्ता?, गोयमा ! तिविहा जोणी पन्नत्ता, तंजहा संवुडजोणी वियडाजोणी संवुडवियडाजोणी'त्यादि, संवृत्तादियोनिप्रकरणार्थःसङ्ग्रहस्तु प्राय एवम्॥१॥ “एगिंदियनेरइया संवुडजोणी तहेव देवा य।
विगलिदिएसुवियडा संवुडवियडाय गब्भंमि॥" एकेन्द्रियाणां संवृतायोनिस्तथास्वभावत्वात्, नारकाणामपिसंवृतैव, यतो नरकनिष्कुटाः संवृतगवाक्षकल्पास्तेषु च जातास्ते वर्द्धमानमूर्तयस्तेभ्यः पतन्ति शीतेभ्यो निष्कुटेभ्य उष्णेषु नरकेषु उष्णेभ्यस्तु शीतेष्विति, देवानामपि संवृतैव यतो देवशयनीये दूष्यान्तरितोऽ. गुलासङ्ख्यातभागमात्रावगाहनो देव उत्पद्यत इति । तथा
'कतिविहाणंभंते! जोणी पन्नत्ता? गोयमा! तिविहा जोणी पन्नत्ता, तंजहा-कुम्मुन्नया संखावत्ता वंसीपत्ते'त्यादि, एतद्वक्तव्य- तासङ्ग्रहश्चैवं॥१॥ संखावत्ता जोणी इत्थीरयणस्स होति विनेया।
तीए पुण उप्पन्नो नियमा उ विणस्सइ गब्मो॥ ॥२॥ कुम्मुन्नयजोणीए तित्थयरा चक्किवासुदेवाय ।
रामावि यजायते सेसाए सेसगजणो उ॥ अनन्तरं योनिरुक्ता, योनिमतां च वेदना भवन्तीति तत्प्ररुपणायाह
मू. (४७९) कतिविहा णं भंते ! वेयणा पन्नत्ता?, गोयमा ! तिविहा वेयणा पन्नत्ता, तंजहा-सीया उसिणा सीओसिणा, एवं वेयणापयं निरवसेसंभाणियव्वं जाव नेरइयाणं भंते।
किंदुक्खं वेदणं वदेति सुहं वेयणं वेयंतिअदुक्खमसुहं वेयणं वेयंति?, गोयमा! दुक्खंपि वेयणं वेयंति सुहंपि वेयणं वेयंति अदुक्खमसुहंपि वेयणं वेयंति॥
वृ. 'कइविहा ण'मित्यादि, ‘एवं वेयणापयं भाणियव्वं ति वेदनापदं च प्रज्ञापनायां पञ्चत्रिंशत्तमं, तच्च लेशतो दर्श्यते-'नेरइयाणं भंते ! किं सीयं वेयणं वेयंति ३?, गोयमा ! सीयंपिवेयणं वेयंति एवंउसिणंपिनो सीओसिणं' एवमसुरादयो वैमानिकान्ताः ‘एवं चउब्विहा वेयणा दव्वओ खेत्तओ कालओ भावओ' तत्र पुद्गलद्रव्यसम्बन्धाद्रव्यवेदना नरकादिक्षेत्रसम्बन्धात्क्षेत्रवेदना नारकादिकालसम्बन्धात्कालवेदना शोकक्रोधादिभावसम्बन्धाद्भाववेदना, सर्वे संसारिणश्चतुर्विधामपि।
तथा 'तिविहावेयणा-सारीरामाणसासारीरमाणसा' समनस्कास्त्रिविधामपिअसज्ञिनस्तु शारीरीमेव, तथा 'तिविहा वेयणा साया असाया सायासाया' सर्वे संसारिण- स्त्रिविधामपि, तथा 'तिविहावेयणा-दुक्खासुहाअदुक्खमसुहा' सर्वे त्रिविधामपि, सातासातसुखदुःखयोश्चायं विशेषः-सातासाते अनुक्रमेणोदयप्राप्तानां वेदनीयकर्मपुद्गलानाम- नुभवरूपे, सुखदुःखे तु परीदीर्यमाणवेदनीयानुभवरूपे।। ____तथा 'दुविहावेयणा-अब्भुवगमिया उवक्कमिया' आभ्युपगमिकी यास्वयम्भुपगम्यवेद्यते यथा साधवः केशोल्लुञ्चनातापनादिभिर्वेदयन्ति औपक्रमिकी तु स्वयमुदीर्णस्योदीरणाकरणेन
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org