________________
भगवती अङ्गसूत्रं ९//३३/४६६
वृ. 'नो आढाइ 'त्ति नाद्रियते तत्रार्थे नादरवान् भवति 'नो परिजाणइ'त्ति न परिजानातीत्यर्थः भाविदोषत्वेनोपेक्षणीयत्वात्तस्येति । 'अरसेहि यत्ति हिङ्गवादिभिरसंस्कृतत्वादविद्यमानरसैः 'विरसेहिय'त्ति पुराणत्वाद्विगतरसैः 'अंतेहि य'त्ति अरसतया सर्वधान्यान्तवर्तितभिर्वल्लचणकादिभिः 'पंतेहि य'त्ति तैरेव भुक्तावशेषत्वेन पर्युथितत्वेन वा प्रकर्षेणान्तवर्तित्वात्प्रान्तैः 'लूहेहि य'त्ति रूक्षैः 'तुच्छेहि य'त्ति अल्पैः 'कालाइक्कंतेहि य' त्ति तृष्णावुभुक्षाकालाप्राप्तैः 'पमाणाइक्कतेहि य'त्ति वुभुक्षापिपासामात्रानुचितैः 'रोगायंके' त्ति रोगो-व्याधि स चासावातङ्कश्च कृच्छ्रजीवितकारीति रोगातङ्कः 'उज्जले' त्ति उज्ज्वलो -विपक्षलेशेनाप्यलङ्कितत्वात् 'तिउले' त्तित्रीनपि मनःप्रभृतिकानार्थान् तुलयति-जयतीति त्रितुलः, कचिद्विपुल इत्युच्यते, तत्र विपुलः सकलकायव्यापकत्वात् 'पगाढे'त्ति प्रकर्षवृत्ति 'कक्कसे' त्ति कर्कशद्रव्यमिव कर्कशोऽनिष्ट इत्यर्थः - 'कडुए 'त्ति कटुकं नागरादि तदिव यः स कटुकोऽनिष्ट एवेति 'चंडे' त्ति रौद्रः 'दुक्खे' त्ति दुःखहेतुः 'दुग्गे' ति कष्टसाध्य इत्यर्थः ‘तिव्वे'त्तितीव्रं - तिक्तं निम्बादिद्रव्यं तदिव तीव्रः, किमुक्तं भवति 'दुरहियासे 'त्ति दुरधिसह्यः 'दाहवक्कंतिए'त्ति दाहो व्युत्क्रान्तः - उत्पन्नो यस्यासौ दाहव्युत्क्रान्तः स एव दाहव्युक्रान्तिकः 'सेज्जासंथारगं' ति शय्यायै-शयनाय संस्तारकः शय्यासंस्तारकः ।
५२०
'बलियतरं' ति गाढतरं किं कडे कज्जइ' त्ति किं निष्पन्न उत निष्पाद्यते ?, अनेनातीतकाल - निर्देशेन वर्त्तमानकालनिर्देशेन च कृतकिर्विमाणयोर्भेद उक्तः, उत्तरेऽप्येवमेव, तदेवं संस्तारककर्तृसाधुभिरपि क्रियमाणस्याकृततोक्ता, ततश्चासौ स्वकीयवचनसंस्तारककर्तृसाधुवचनयोर्विमर्शात् प्ररूपितवान्-क्रियमाणं कृतं यदभ्युपगम्यते तन्न सङ्गच्छते, यतो येन क्रियमाणं कृतमित्यभ्युपगतं तेन विद्यमानस्य करणक्रिया प्रतिपन्ना, तथा च बहवो दोषाः, तथाहि - यत्कृतं तक्रियमाणं न भवति, विद्यमानत्वाच्चिरन्तनघटवत् ।
अथ कृतमपि क्रियते ततः क्रियतां नित्यं कृतत्वात् प्रथमसमय इवेति, न च क्रियासमाप्तिर्भवति सर्वदा क्रियमाणत्वादादिसमयवदिति, तथा यदि क्रियमाणं कृतं स्यात्तदा क्रियावैफल्यं स्याद् अकृतविषय एव तस्याः सफलत्वात्, तथा पूर्वमसदेव भवद्द्द्श्यते इत्यध्यक्षविरोधश्च, तथा घटादिकार्यनिष्पत्तौ दीर्घ क्रियाकलो ध्श्यते, यतो नारम्भकाल एव घटादिकार्यं दृश्यते नापि स्थासकादिकाले, किं तर्हि, तक्रियाऽवसाने, यतश्चैवं ततो न क्रियाकालेषु युक्तं कार्यं किन्तु क्रियाऽवसाने एवेति, आह च भाष्यकारः
119 11
॥२॥
॥३॥
॥४॥
Jain Education International
"जस्सेह कज्ज्रमाणं कयंति तेणेह विजमाणस्स । करणकिरिया पवन्ना तहा य बहुदोसपडिवत्ती ॥ कमिह न कजमाणं तब्भावाओ चिरंतनघडोव्व । अहवा कयंपि कीरइ कीरउ निच्च न य समत्ती ॥ किरियावेफल्लंपि य पुव्वमभूयं च दीसए हुतं । दीस दीहो य जओ किरियाकालो घडाईणं ॥ नारं चिदीसइन सिवादद्धाइ दीसइ तदंते । तो नहि किरियाकाले जुत्तं कज्जं तदंतंमि ॥ इति
For Private & Personal Use Only
www.jainelibrary.org