________________
शतकं-९, वर्गः-, उद्देशकः-३३
५२१ _ 'अत्थेगइया समणा निग्गंथा एयमटुंनो सद्दहति'त्तियेचन श्रद्दधति तेषांमतमिदं-नाकृतं अभूतमविद्यमानमित्यर्थः क्रियते अभावात् खपुष्पवत् यदि पुनरकृतमपि असदपीत्यर्थः क्रियते तदाखरविषाणमपिक्रियतामसत्त्वाविशेषात्, अपिचकृतकरणपक्षे नित्यक्रियादयोदोषाभणितास्ते चअसत्करणपक्षेऽपितुल्या वर्तन्ते, तथाहि-नात्यन्तमसत् क्रियतेऽसद्भावात् खरविषाणमिव, अथात्यन्तासदपिक्रियते तदा नित्यं तत्करणप्रसङ्गः, नचात्यन्तासतः करणे क्रियासमाप्तिर्भवति, तथाऽत्यन्तासतः करणे क्रियावेफल्यं च स्यादसत्वादेव खरविषाणवत्, अथ च अविद्यमानस्य करणाभ्युपगमे नित्यक्रियादयो दोषाः कष्टतरका भवन्ति, अत्यन्ताभावरूपत्वात् खरविषाण इवेति, विद्यमानपक्षेतु पर्यायविशेषणापर्ययणात् स्यादपि क्रियाव्यपदेशो यथाऽऽकाशं कुरु, तथाच नित्यक्रियादयो दोषान भवन्ति, नपुनरयं न्यायोऽत्यन्तासतिखरविषाणादावस्तोति, यच्चोक्तं
पूर्वमसदेवोत्पद्यमानं दृश्यत इति प्रत्यक्षविरोधः', तत्रोच्यते, यदि पूर्वमभूतं सद्भवश्यते तदा पूर्वमभूतंसद्भवत् कस्त्वयाखरविषाणमपिन दृश्यते, यत्रोक्तं-'दीर्घ क्रियाकालो दृश्यते, तत्रोच्यते', प्रतिसमयमुत्पन्नानां परस्परेणेषद्विलक्षणानांसुबह्वीनांस्थासकोसादीनामारम्भसमयेष्वेव निष्ठानुयायिनीनां कार्यकोटीनां दीर्घ क्रियाकालो यदि दृश्यते तदा किमत्र घटस्यायातं ? येनोच्यते-दृश्यते दीर्घश्च क्रियाकालो घटादीनामिति, यच्चोक्तं-'नारम्भएव दृश्यते' इत्यादि, तत्रोच्यते, कार्यान्तरारम्भे कार्यान्तरं कथं दृश्यतां पटारम्भे घटवत् ?, शिवकस्थासकादयश्च कार्यविशेषा घटस्वरूपा न भवन्ति, ततः शिवकादिकाले कतं घटो दृश्यतामिति ।
किंच-अन्त्यसमय एवघटः समारब्धः?, तत्रैवच यद्यसौ दृश्यते तदा को दोषः?,एवं च क्रियमाण एव कृतो भवति, क्रियमाणसमयस्य निरंशत्वात्, यदि च संप्रतिसमये क्रियाकालेऽप्यकृतंवस्तुतदाऽतिक्रान्तेकथं क्रियतां कथंचा एथति?, क्रियाया उभयोरपि विनष्टत्वानुत्पन्नवेनासत्त्वादसम्बध्यमानत्वात्, तस्मात् क्रियाकाल एव क्रियमाणं कृतमिति, आह च॥१॥ “थेराण मयं नाकयमभावओ कीरए खपुप्फंव ।
अहव अकयंपि कीरइ कीरउ तो खरविसाणंपि॥ ॥२॥ निचकिरियाइ दोसा नणु तुल्ला असइ कट्टतरया वा ।
पुव्वमभूयं न ते दीसइ किं खरविसाणंपि॥ ॥३॥ पइसमउप्पन्नाणं परोप्परविलक्खणाण सुबहूणं ।
दीहो किरियाकालो जइ दीसइ किं च कुंभस्स ।। ॥४॥ अन्नारंभे अन्नं किह दीसउ ? जह घडो पडारंभे ।
सिवगादओ न कुंभो किह दीसउ तदद्धाए। अंते च्चिय आरद्धो जइ दीसइ तंमिचेवको दोसो? ।
अकयं च संपइ गए किहु कीरउ किह व एसंमि? । -इत्यादि बहु वक्तव्यं तच्च विशेषावश्यकादवगन्तव्यमिति ।मू. (४६७) तएणं से जमालीअनगारे अन्नया कयाविताओरोगायंकाओ विप्पमुक्केहढे तुढे जाए अरोए बलियसरीरे सावत्थीओ नयरीओ कोट्ठयाओ चेइयाओ पडिनिक्खमइ २
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org