SearchBrowseAboutContactDonate
Page Preview
Page 494
Loading...
Download File
Download File
Page Text
________________ ४९ शतकं-९, वर्गः-, उद्देशकः-३३ ये नस्ते-नासिकारज्जू तयोः प्रग्रहेण-रश्मिनाऽवगृहीतकी-बद्धौ यौ तौ तथा। ततःकर्मधारयोऽतस्ताभ्यां रजतमयघण्टसूत्ररज्जुकवरकाञ्चननस्ताप्रग्रहावगृहीतकाभ्यां, नीलोत्पलैः-जलजविशेषैः कृतो-विहितः ‘आमेल'त्ति आपीड:-शेखरो ययोस्तौ तथा ताभ्यां नीलोत्पलकृतापीडकाभ्यां पवरगोणजुवाणएहिति प्रवरगोयुवाभ्यांनानामणिरलानांसत्कंयद् घण्टिकाप्रधानं जालं-जालकं तेन परिगतं-परिक्षिप्तं यत्तत्तथा, सुजातं-सुजातदारुमयं यद् युगं-यूपस्तत्सुजातयुगंतच्च यौकरज्जुकायुगंच-योत्क्राभिधानरज्जुकायुग्मं सुजातयुगयोक्ररज्जुकायुगेतेप्रशस्ते-अतिशुभे सुविरचिते-सुघटितेनिर्मिते-निवेशिते यत्र यत् सुजातयुगयोक्ररज्जुकायुगप्रशस्तसुविरचितनिर्मितम्। 'एव'मित्यादि, एवं स्वामिन्! तथेत्याज्ञयाइत्येवंब्रुवाणा इत्यर्थः 'विनयेन'अअलिकरणादिना। 'तए णं सा देवानंदा माहणी'त्यादि, इह च स्थाने वाचनान्तरे देवानन्दावर्णक एवं श्यते-'अंतो अंतेउरंसि ण्हाया' 'अन्तः' मध्येऽन्तःपुरस्य स्नाता, अनेन च कुलीनाः स्त्रियः प्रच्छन्नाः स्नान्तीति दर्शितं। 'कयबलिकम्मा' गृहदेवताः प्रतीत्य कयकोउयमंगलपायच्छित्ता' कृतानि कौतुकमङ्गलान्येव प्रायश्चित्तान्यवश्यंकार्यत्वात् यया सा तथा, तत्र कौतुकानिमषीतिलकादीनि मङ्गलानिसिद्धार्थक- दूर्वादीनि 'किञ्च'त्ति किञ्चान्यद् 'वरपादपत्तनेउरमणिमेहलाहारविरइयउचियकडगखुड्डयएगा- वलीकंठसुत्तउरत्थगेवेअसोणिसुत्तगणाणामणिरयणभूसणविराइयं गी' वराभ्यां पादपराप्तनुपुराभ्यां मणिमेखलया हारेणविरचितै रतितैर्वा उचितैः-युक्तैः कटकैश्च ‘खुड्डाग'त्ति अङ्गुलीयकैश्च एकावल्याच-विचित्रमणिकमय्याकण्ठसूत्रेणच-उरःस्थेनच रूढिगम्येन ग्रैवेयकेण चप्रतीतेन उरःस्थग्रैवेयकेण वा श्रोणिसूत्रकेण च-कटीसूत्रेण नानामणिरत्नानां भूषणैश्च विराजितमङ्ग-शरीरं यस्याः सा तथा। 'चीणंसुयवत्थपवरपरिहिया' चीनांशुकं नाम यद्वस्त्राणांमध्येप्रवर तत्परिहितं-निवसनीकृतंययासातथा 'दुगुल्लसुकुमालउत्तरिज्जा' दुकूलो-वृक्षविशेषस्तद्वल्काज्जातंदुकूलं-वस्त्रविशेषस्तत् सुकुमारमुत्तरीयम्-उपरिकायाच्छादनं यस्याः सा तथा_ 'सव्वोउयसुरभिकुसुमवरियसिरया' सङ्घर्तुकसुरभिकुसुमैर्वृत्ता-वेष्टिताः शिरोजायस्याः सा तथा वरचंदणवंदिया' वरचन्दनंवन्दितंललाटेनिवेशितंययासा तथा वराभरणभूसियंगीति व्यक्तं 'कालागुरुघूवघूविया' इत्यपि व्यक्तं 'सिरीसमाणवेसा' श्रीः-देवता तया समाननेपथ्या, इतः प्रकृतवाचनाऽनुश्रियते 'खुजाहिं'ति कुब्जिकाभिर्वक्रजङ्घाभिरित्यर्थः 'चिलाइयाहिं'ति चिलातदेशोत्पन्नाभिः, यावत्करणादिदं दृश्यं-'वामणियाहिं' ह्रस्वशरीराभिः ‘वडहियाहिं' मडहकोष्ठाभिः ‘बब्बरियाहिं पओसियाहं ईसिगणियाहिं वासगणियाहिं जोण्हियाहिं पल्हवियाहिं ल्हासियाहिं लउसियाहिं आरबीहिं दमिलाहिं सिंहलीहिं पुलिंदीहिं पक्कनीहिं बहलीहिं मुरुंडीहिं सबरीहिं पारसीहिं नाणादेसविदेसपरिपिंडियाहिं' नानादेशेभ्यो-बहुविधजनपदेभ्यो विदेशे-तद्देशापेक्षया देशान्तरे परिपिण्डिता यास्तास्तथा 'सदेसनेवत्थगहियवसाहिं' स्वदेशनेपथ्यमिव गृहीतो वेषो Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003309
Book TitleAgam Suttani Satikam Part 05 Bhagvati
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy