SearchBrowseAboutContactDonate
Page Preview
Page 462
Loading...
Download File
Download File
Page Text
________________ शतकं-९, वर्गः-, उद्देशकः-३-३० परिक्खेवेणं सेणंएगाएपउमवरवेइयाएएगेणयवनसंडेणंसव्वओसमंतासंपरिक्खित्ते' इत्यादि, इहच वेदिकावनखण्डकल्पवृक्षमनुष्यमनुष्यीवर्णकोऽभिधीयते, तथा तन्मनुष्याणांचतुर्थःभक्तादाहार्थः उत्पद्यते, ते च पृथिवीरसपुष्पफलाहाराः, तत्पृथिवी च रसतः खण्डादितुल्या, ते च मनुष्या वृक्षगेहाः, तत्र च गेहाद्यभावः, तन्मनुष्याणां च स्थिति पल्योपमासङ्खयेयभागप्रमाणा, षण्मासावशेषा-युषश्चतेमिथुनकानिप्रसुवते, एकाशीतंचदिनानि तेऽपत्यमिथुनकानिपालयन्ति, उच्छ्वसितादिना च ते मृत्वा देवेषूद्यन्ते, इत्यादयश्चार्था अभिधीयन्ते इति। __ -वाचनान्तरे त्विदं दृश्यते-‘एवंजहाजीवाभिगमे उत्तरकुरुवत्तव्वयाए नेयव्वो, नाणत्तं अट्ठघणुसयाउस्सेहोचउसट्ठी पिट्ठकरंडयाअणुसज्जणा नस्थिति, तत्रायमर्थः-उत्रकुरुषुमनुष्याणां त्रीणि गव्यूतान्युत्सेध उक्त इह त्वष्टौ धनुःशतानि, तथा तेषु मनुष्याणां द्वे शते षट्पञ्चाशदधिके पृष्ठकरण्डकानामुक्ते इह तु चतुःषष्टिरिति, तथा- 'उत्तरकुराएणं भंते ! कुराए कइविहा मणुस्साअनुसज्जंति?,गोयमा! छव्विहा मनुस्साअनुसज्जंति, तंजहा-पम्हगंधा मियगंधाअममा तेयली सहा सनिंचारी'इत्येवं मनुष्याणामनुषञ्जनातत्रोक्ता इह तुसा नास्ति, तथाविधमनुष्याणां तत्राभावात्, एवं चेह त्रीणि नानात्वस्थानान्युक्तानि, सन्ति पुनरन्यान्यपि स्थित्यादीनि, किन्तु तान्यभियुक्तेन भवानीयानीति, अयं चेहैकोरुकद्वी-पोद्देशकस्तृतीयः। __ अथ प्रकृतवाचनामनुसृत्योच्यते-किमन्तमिदंजीवाभिगमसूत्रमिह वाच्यम् ? इत्याह'जावे त्यादि यावत् शुद्धदन्दद्वीपः' शुद्धदन्ताभिधानाष्टाविंशतितमान्तरद्वीपवक्तव्यतांयावत्, साऽपि कियबरं यावद्वाच्या ? इत्याह ___"देवलोकपरिग्गहे'त्यादि, देवलोकः परिग्रहो येषां ते देवलोकपरिग्रहाः देवगतिगामिनः इत्यर्थः, इह चैकैकस्मिन्नन्तरद्वीपे एकैक उद्देशकः, तत्र चैकोरुकद्वीपोद्देशकानन्तरमामासिकद्वीपोद्देशकः, तत्र चैवं सूत्रं 'कहिणं भंते! दाहिणिल्लाणंआभासियमणूसाणं आभासिए नामंदीवे पन्नत्ते?, गोयमा जंबुद्दीवे दीवे चुल्लहिमवंतस्स वासहरपव्वयस्स दाहिणपुरच्छिमिल्लाओ चरिमंताओ लवणसमुदं तिन्नि जोयणसयाइंओगाहित्ता एत्थ णं दाहिणिल्लाणं आभासियनामंदीवे पन्नत्ते' शेषमेकोरुकद्वीपवदिति चतुर्थः । एवं वैषाणिकद्वीपोद्देशकोऽपि नवरं दक्षिणापराच्चरमान्तादिति पञ्चमः ५। एवंलाङ्गलिकद्वीपोद्देशकोऽपि, नवरमुत्तरापराच्चरमान्तादितिषष्ठः६।एवं हयकर्णद्वीपोद्देशको नवरमेकोरुकस्योत्तरंपौरस्त्याच्चरमान्ताल्लवणसमुद्रं चत्वारि योजनशतान्यवगाह्य चतुर्योजनशतायामविष्कम्भोहयकर्णद्वीपो भवतीतिसप्तमः७।एवंगजकर्णद्वीपोद्देशकोऽपि, नवरंगजकर्णद्वीप आभासिकद्वीपस्य दक्षिणपौरस्त्याच्चरमान्ताल्लवणसमुद्रमवगाह्य चत्वारि योजनशतानि हयकर्णद्वीपसमो भवतीत्यष्टमः ८ । एवं गोकर्णद्वीपोद्देशकोऽपि, नवरमसौ वैषाणिकद्वीपस्य दक्षिणापराच्चरमान्तादित नवमः ९ । एवं शष्कुलीकर्णद्वीपोद्देशकोऽपि, नवरमसौ लालिकद्वीपस्योत्तरापराच्चरमान्तादिति दशमः १०। ___ -एवमादर्शमुखद्वीपमेण्ढमुखद्वीपायोमुखद्वीपगोमुखद्वीपा हयकर्णादीनां चतुर्णां क्रमेण पूर्वोत्तरपूर्वदक्षिणदक्षिणापरापरोत्तरेभ्यश्चरमान्तेभ्यः पञ्च योजनशतानि लवणोदधिमवगाह्य Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003309
Book TitleAgam Suttani Satikam Part 05 Bhagvati
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy