SearchBrowseAboutContactDonate
Page Preview
Page 457
Loading...
Download File
Download File
Page Text
________________ ४५४ भगवती अङ्गसूत्रं ८/-/१०/४३७ सञ्ज्ञा जीवस्य ततस्तद्योगात् पुद्गल इति । एतदेव दर्शयन्नाह - 'से केणट्टेण "मित्यादि ॥ शतकं - ८ उद्देशकः- १० समाप्तः सद्भक्त्याहुतिना विवृद्धमहसा पार्श्वप्रसादाग्निना, तन्नामाक्षरमन्त्रजप्तिविधिना विघ्नेन्धनप्लोषितः । सम्पन्नेऽनधशान्तिकर्म्मकरणे क्षेमादहं नीतवान्, सिद्धि शिल्पिवदेतदष्टमशत- व्याख्यानसन्मन्दिरम् ॥ शतकं - ८ समाप्तम् मुनि दीपरत्नसागरेण संशोधिता सम्पादिता अभय देवसूरिविरचिता भगवती अङ्गसूत्रे अष्टमशतकस्य टीका परीसमाप्ता । शतकं ९ वृ. व्याख्यातमष्टमशतमथ नवरममारभ्यते, अस्य चायमभिसम्बन्धः - अष्टमशते विविधाः पदार्था उक्ताः, नवमेऽपित एव भङ्गयन्तरेणोच्यन्ते, इत्येवंसम्बन्धस्योद्देशकार्यः संसूचिकेयं गाथामू. (४३८) जंबुद्दीवे १ जोइस २ अंतरदीवा ३० असोच्च १ गंगेय ३२ । कुंडग्गामे ३३ पुरिसे ३४ नवमंमि सए चउत्तीसा ॥ वृ. 'जंबुद्दीवे' इत्यादि, तत्र 'जंबुद्दीवे' त्ति तत्र जम्बूद्वीपवक्तव्यताविषयः प्रथमोद्देशकः १, 'जोइस' त्ति ज्योतिष्कविषय द्वितीयः २, 'अंतरदीव' त्ति अन्तरद्वीपविषया अष्टाविंशतिरुद्देशकः ३०, ‘असोच्च’त्ति अश्रुत्वा धर्म लभेतेत्याद्यर्थः प्रतिपादनार्थः एकत्रिंशत्तमः ३१, 'गंगेय'त्ति गाङ्गेयाभिधानगारवक्तव्यतार्थो द्वात्रिंशत्तमः ३२, कुंडग्गामे' त्ति ब्राह्मणकुण्डग्रामविषययस्त्रिंशत्तमः ३३, 'पुरिसे' त्ति पुरुषः पुरुषं घ्नन्नित्यादिवक्तव्यतार्थःश्चतुस्त्रिंशत्तम ३४ इति ॥ -: शतकं - ९ उद्देशकः-१: मू. (४३९) तेणं कालेणं तेणं समएणं महिलानामं नगरी होत्था वन्नओ, माणभद्दे चेइए वन्नओ, सामी समोसढे परिसा निग्गया जाव भगवं गोयमे पज्जुवासमाणे एवं वयासी -कहिणं भंते! जंबुद्दीवे दीवे ? किंसंठिए णं भंते! जंबुद्दीवे दीवे । एवं जंबुद्दीव पन्नत्ती भाणियव्वा जाव एवामेव सपुव्वावरेणं जंबुद्दीवे २ चोद्दस सलिला सयसहस्सा छप्पन्नं च सहस्सा भवंतीतिमक्खाया। सेवं भंते! सेवं भंतेत्ति ॥ वृ. 'कहिणं भंते' इत्यादि, कस्मिन् देशे इत्यर्थः 'एवं जंबुद्दीवपन्नत्ती भाणियव्व' त्ति, सा चेयम्- 'केमहालए णं भंते! जंबुद्दीवे दीवे किमागारभावपडोयारे णं भंते! जंबुद्दीवे दीवे पन्नत्ते कस्मिन्नाकारभावे प्रत्यवतारो यस्य स तथा 'गोयमा ! अयन्नं जंबुद्दीवे दीवे सव्वदीवसमुद्दाणं सव्वब्धंतरए सव्वखुड्डाए वट्टे तिल्लपूयसंठाणसंठिए वट्टे रहचक्कवालसंठाणसंठिए वट्टे पुक्खरकन्नियासंठाणसंठिए वट्टे पडिपुन्नचंदसंठाणसंठिए पन्नत्ते एगं जोयणसयसहस्सं आयामविक्खंभेण 'मित्यादि, किमन्तेयं व्याख्या ? इत्याह- 'जावे' त्यादि । 'एवामेव'त्ति उक्तेनैव न्यायेन पूर्वापरसमुद्रगमनादिना 'सपुव्वावरेणं' ति सह पूर्वेण For Private & Personal Use Only www.jainelibrary.org Jain Education International
SR No.003309
Book TitleAgam Suttani Satikam Part 05 Bhagvati
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy