________________
शतकं-९, वर्गः-, उद्देशकः-१
४५५ नदीवृन्देनापरंसपूर्वापरंतेन 'चोद्दस सलिला सहयसहस्सा छप्पन्नंचसहस्सा भवंतीतिमक्खाय'त्ति इह 'सलिलाशतसहस्राणि नदीलक्षाणि, एतत्सङ्ख्या चैवं-भरतैरावतयोगङ्गासिन्धरक्तारक्तवत्यः प्रत्येकं चतुर्दशभिर्नदीनां सहस्रैर्युक्ताः, तथा हैमवतैरण्यवतयोः रोहिद्रोहितांशा सुवर्णकूला रूप्यकूलाः प्रत्येकमष्टाविंशत्या हनैर्युक्ताः, तथा हरिवर्षरम्यकवर्षयोर्हरिहरिकान्तानरकान्तानारीकान्ताः प्रत्येकंषट्पञ्चाशता हफ्रेयुक्ताःसमुद्रमुपयान्ति, तथा महविदेहे शीताशीतोदेप्रत्येकं पञ्चभिर्लक्षैभत्रिंशताच सहनैर्युक्तेसमुद्रमुपयात इति, सर्वासांचमीलने सूत्रोक्तंप्रमाणं भवति
वाचनान्तरे पुनरिदं दृश्यते-'जहा जंबूद्दीवपन्नत्तीए तहा नेयव्वं जोइसविहूणंजाव॥१॥ खंडाजोयण वासा पव्वय कूडा य तित्थ सेढीओ।
विजयद्दहसलिलाउ य पिंडए होति संगहणी॥ति। तत्र 'जोइसविहूणं'ति जंबूद्वीपप्रज्ञप्त्यां ज्योतिष्कवक्तव्यताऽस्तिं तद्विहीनं समस्तं जम्बूद्वीपप्रज्ञप्तिसूत्रमस्योद्देशकस्य सूत्रंज्ञेयं, किंपर्यवसानंपुनस्तद् ? इत्याह-'जावखंडे'त्यादि, तत्र ‘खंडे'त्ति जम्बूद्वीपो भरतक्षेत्रप्रमाणानि खण्डानि कियन्ति स्यात् ?, उच्यते, नवत्यधिकं खण्डशतं, 'जोयण'त्ति जम्बूद्वीपः कियन्ति योजनप्रमाणानि खण्डानि स्यात् ?, उच्यते॥१॥ ‘सत्तेव य कोडिसया णउया छप्पन्नसयसहस्साइं।
चउनउइंच सहस्सा सयं दिवढंच साहीयं ।। इति, ॥२॥ गाउयमेगं पन्नरस धनुस्सया तह धनूणि पन्नरसा।
सर्द्वि च अंगुलाई जंबु दीवस्स गणियपयं ॥ गणितपदमित्येवंप्रकारस्य गणितस्य सज्ञा 'वास'त्ति जम्बूद्वीपे भरतहेमवतादीनि सप्त वर्षाणि क्षेत्राणीत्यर्थः, “पव्वय'त्ति जम्बूद्वीपे कियन्तः पर्वताः ?, उच्यन्ते, षड् वर्षधरपर्वता हिमवदादयःएको मन्दरः एकश्चित्रकूटः एक एव विचित्रकूटः, एतौचदेवकुरुषु, द्वौयमकपर्वतौ, एतौ चोत्तरकुरुषु, द्वेशतेकाञ्चनकानाम्, एतेच शीताशीतोदयोः पार्श्वतो, विंशति वक्षस्काराः, चतुस्त्रिंशद्दीर्घविजया पर्वताश्चत्वारो वर्तुलविजयाओः, एवं द्वेशते एकोनसप्तत्यधिके पर्वतानां भवत । 'कूड'त्ति कियन्तिपर्वकूटानि?,उच्यते, षट्पञ्चाशद्वर्षघरकूटानि पन्नवतिर्वक्षस्कारकूटानित्रीणि षडुत्तराणि विजयार्द्धकूटानांशतानिनवचमन्दरकूटानि, एवंचत्वारिसप्तषष्ट्यधिकानि कूटशतानि भवन्ति।
'तित्यत्तिजम्बूद्वीपे कियन्तितीर्थानि?,उच्यते, भरतादिषुचतुस्त्रिंशतिखण्डेषुमागधवरदामप्रभासाख्यानि त्रीणि त्रीणि तीर्थानि भवन्ति, एवं चैकं द्वयुत्तरं तीर्थःशतं भवतीति ।
'सेढीओ त्ति विद्याधरश्रेणयः आभियोगिकश्रेणयश्च कियन्त्यः?, उच्यते, अष्टषष्टि प्रत्येकमासां भवन्ति, विजयार्द्धपर्वतेषु प्रत्येकं द्वयोर्द्वयोर्भावात्, एवं च षट्त्रिंशदधिकं श्रेणिशतं भवतीति।
विजय'त्ति कियन्तिचक्रवर्तिविजेतव्यानि भूखण्डानि?,उच्यते, चतस्त्रिंशत्, एतावन्त एव राजघान्यादयोऽर्था इति ।
दह'त्ति क्रियन्तो महाहदाः?, उच्यते, पद्मादयः षड् दश च नीलवदादय उत्तरकुरुदेवकुरुमध्यवर्त्तिन इत्येवंषोडश । 'सलिल'त्तिनद्यस्तत्प्रमाणंचदर्शितमेव, पिंडएहोतिसंगहणि त्ति उद्देशकार्थानां पिण्डके-मीलके विषयभूते इयं सङ्ग्रहणीगाथा भवतीति ।
शतकं-९ उद्देशकः-१ समाप्तः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org