SearchBrowseAboutContactDonate
Page Preview
Page 453
Loading...
Download File
Download File
Page Text
________________ भगवती अङ्गसूत्रं ८/-/१०/४३३ यदा पुनस्तयोरेकः केवलतया स्थितो द्वितीयश्च द्रव्यान्तरेण सम्बद्धस्तदा द्रव्यं च द्रव्यदेशश्चति पञ्चमः, शेषविकल्पानां तु प्रतिषेधोऽसम्भवादिति । ४५० 'तिन्निभंते!' इत्यादि, त्रिषु प्रदेशेष्वष्टमविकल्पवर्जाः सप्त विकल्पाः संभवन्ति, तथाहियदा त्रयोऽपि त्रिप्रदेशिकस्कन्धतया परिणतास्तदा द्रव्यं १, यदा तु त्रिप्रदेशिकस्कन्धतापरिणता एव द्रव्यान्तरसम्बन्धमुपगतास्तदा द्रव्यदेशः २, यदा पुनस्त त्रयोऽपि भेदेन व्यवस्थिता द्वौ वा द्वयणुकीभूतावेकस्तु केवल एव स्थितस्तदा 'दव्वाई' ति ३, यदा तु ते त्रयोऽपि स्कन्धतामनागता एव द्वौ वा द्वणुकीभूतावेकस्तु केवल एवेत्येवं द्रव्यान्तरेण संबद्धास्तदा 'दव्वदेसा' इति ४, यदा तु तेषां कतया परिणतावेकश्च द्रव्यान्तरेण संबद्धः अथवैकः केवल एव स्थितो द्वौ तु द्वयणुकतया परिणभ्य द्रव्यान्तरेण संबद्धौ तदा 'दव्वं च दव्वदेसे य'त्ति ५, यदा तु तेषामेकः केवल एव स्थितो द्वौ च भेदेन द्रव्यान्तरेण संबद्धौ तदा 'दव्वं च दव्वदेसाय'त्ति ६, यदा पुनस्तेषां द्वौ भेदेन स्थितावेकश्च द्रव्यान्तरेण संबद्धास्तदा 'दव्वाइं च दव्वदेसे य'त्ति ७, अष्टमविकल्पस्तु न संभवति, उभयत्र त्रिषु प्रदेशेषु बहुवचनाभावात्, प्रदेशचतुष्टयादौ त्वष्टमोऽपि संभवति, उभयत्रापि बहुवचनसद्भावादिति मू. (४३४) केवतिया णं भंते! लोयागासपएसा पन्नत्ता ?, गोयमा ! असंखेज्जा लोयागासपएसा पन्नत्ता ॥ एगमेगस्स णं भंते! जीवस्स केवइया जीवपएसा पन्नत्ता ?, गोयमा ! जावतिया लोगागासपएसा एगमेगस्स णं जीवस्स एवतिया जीवपएसा पन्नत्ता । वृ. अनन्तरं परमाण्वादिवक्तव्यतोक्ता, परमाण्वादयश्च लोकाकाशप्रदेशावगाहिनो भवन्तीति तद्वक्तव्यतामाह - 'केवइया ण' मित्यादि, 'असंखेज'त्ति यस्मादसङ्क्षेययप्रदेशिको लोकास्तस्मात्तस्य प्रदेशा असङ्घयेया इति । प्रदेशाधिकारादेवेदमाह - 'एगमेगस्से' त्यादि, एकैकस्य जीवस्य तावन्तः प्रदेशा यावन्तो लोकाकाशस्य, कथं ?, यस्माज्जीवः केवलिसमुद्घातकाले सर्वं लोकाकाशं व्याप्यावतिष्ठति तस्माल्लोकाकाशप्रदेशप्रमाणास्त इति । जीवप्रदेशाश्च प्रायः कर्म्मप्रकृतिभिरनुगता इति तद्वक्तव्यतामभिधातुमाह मू. (४३५) कति णं भंते ! कम्मपगडीओ पन्नत्ताओ ?, गोयमा ! अट्ठ कम्मपगडीओ पन्नत्ताओ, तंजहा - नाणावरणिज्जं जाव अंतराइयं । नेरइयाणं भंते ! कइ कम्मपगडीओ पन्नत्ताओ ?, गोयमा ! अट्ट, एवं सव्वजीवाणं अट्ठकम्मपगडीओ ठावेयव्वाओ जाव वेमाणियाणं । नाणावरणिजस्स णं भंते! कम्मस्स केवतिया अविभागपलिच्छेदा पन्नत्ता ?, गोयमा ! अनंता अविभागपलिच्छेदा पन्नत्ता, नेरइयाणं भंते ! नाणावरणिजस्स कम्मस्स केवतिया अविभागपलिच्छेया पन्नत्ता ?, गोयमा ! अनंता अविभागपलिच्छेदा पन्नत्ता, एवं सव्वजीवाणं जाव वेमाणियाणं पुच्छा, गोयमा ! अनंता अविभागपलिच्छेदा पन्नत्ता, एवं जहा नाणावरणिज्जस्स अविभागपलिच्छेदा भणिया तहा अट्ठण्हवि कम्मपगडीणं भाणियव्वा जाव वेमाणियाणं । अंतराइयस्स । एगमेगस्स णं भंते! जीवस्स एगमेगे जीवपएसे नाणावरणिजस्स कम्मस्स केवइएहिं अविभागपलिच्छदेहिं आवेढिए परिवेढिए सिया ?, गोयमा ! सिया आवेढियपरिवेढिए Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003309
Book TitleAgam Suttani Satikam Part 05 Bhagvati
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy