________________
४४६
भगवतीअङ्गसूत्रं ८/-/१०/४३० अतिशयेन प्रशस्यं श्लाध्यं पुरुषार्थःसाधकत्वात्, श्रेयं वा-समाश्रयणीयं पुरुषार्थःविशेषार्थिःना, अन्ये तु ज्ञानादेवेष्टार्थःसिद्धिमिच्छन्ति न क्रियातः, ज्ञानविकलस्य क्रियावतोऽपि फलसिद्धयदर्शनात्, अधीयते च॥१॥ "विज्ञप्तिः फलदा पुंसां, न क्रिया फलदा मता।
मिथ्याज्ञानात्प्रवृत्तस्य, फलासंवाददर्शनात् ॥" ॥१॥ तथा-पढमं नाणं तओ दया, एवं चिठ्ठइ सव्वसंजए।
अन्नाणी किं काही किंवा नाही छेयपावयं ॥" अतस्ते प्ररूपयन्ति-श्रुतं श्रेयः, श्रुतं-श्रुतज्ञानं तदेव श्रेयः-अतिप्रशस्यमाश्रयणीयं वा पुरुषार्थःसिद्धिहेतुत्वात्नतु शीलमिति, अन्येतुज्ञानक्रियाभ्यामन्योऽन्यनिरपेक्षाभ्यां फलमिच्छन्ति, ज्ञानं क्रियाविकलमेदोपसर्जनीभूतक्रियं वा फलदं क्रियाऽपि ज्ञानविकला उपसर्जनीभूतज्ञाना वा फलदेति भावः, भणन्ति च॥१॥ “किञ्चिद्वेदमयं पात्रं, किञ्चित्पात्रं तपोमयम् ।
___ आगमिष्यति तत्पात्रं, यत्पात्रं तारयिष्यति ॥" अतस्ते प्ररूपयन्ति-श्रुतं श्रेयः तथा शीलं श्रेयः ३, द्वयोरपि प्रत्येकं पुरुषस्य पवित्रतानिबन्धनत्वादिति, अन्ये तु व्याचक्षते-शीलं श्रेयस्तावन्मुख्यवृत्या तथा श्रुतं श्रेयः-श्रुतमपि श्रेयो गौणवृत्या तदुपकारित्वादित्यर्थः इत्येकीयं मतं, अन्यदीयमतं तु श्रुतं श्रेयस्तावत्तथा शीलमपि श्रेयो गौणवृत्या तदुपकारित्वादित्यर्थः, अयं चार्थः इह सूत्रे काकुपाठाल्लभ्यते, एतस्य च प्रथमव्याख्यानेऽन्ययूथिकमतस्य मिथ्यात्वं,पूर्वोक्तपक्षत्रयस्यापिफलसिद्धावनङ्गत्वात् समुदायपक्षस्यैव च फलसिद्धिकरणत्वात्, आह च॥१॥ ___ “नाणं पयासयं सोहओ तवो संजमो य गुत्तिकरो।
तिण्हंपि समाओगे मोक्खो जिनसासणे भनिओ।"
-तपःसंयमौ च शीलमेव, तथा॥१॥ “संजोगसिद्धीइ फलं वयंति, न हु एगचक्केण रहो पयाइ।
अंधो य पंगू य वणे समिच्चा, ते संपउत्ता नगरं पविठ्ठा ।" इति, द्वितीयव्याख्यानपक्षेऽपि मिथ्यात्वं, संयोगतः फलसिद्धेईष्टत्वाद्, एकैकस्य प्रधानेतरविवक्षयाऽसङ्गतत्वादिति, अहं पुनर्गौतम ! एवमाख्यामि यावारूपयामीत्यत्र श्रुतयुक्तं शीलं श्रेयः इत्येतावान् वाक्यशेषो दृश्यः, अथ कस्मादेवं?, अत्रोच्यते
‘एवं'मित्यादि, एवं वक्ष्यमाणन्यायेन-'पुरिसजाय'त्ति पुरुषप्रकाराः 'सीलवंअसुयवं'ति कोऽर्थः ?, ‘उवरए अविनायधम्मे'त्ति 'उपरतः' निवृत्तः स्ववुद्धया पापात् ‘अविज्ञातधर्मा' भावतोऽ-नधिगतश्रुतज्ञानो बालतपस्वीत्यर्थः, गीतार्थानिश्चिततपश्चरणनिरतोऽगीतार्थः इत्यन्ये, 'देसारा-हए'त्तिदेश-स्तोकमंशंमोक्षमार्गस्याराधयतीत्यर्थः सम्यग्बोधरहितत्वात् क्रियापरत्वाच्चेति, 'असीलवं सुयवं'ति, कोऽर्थः ? -'अणुवरए विनायधम्मे'त्ति पापादनिवृत्तो विज्ञातधर्मा चाविरतिसम्य-ग्दृष्टिरितिभावः।
'देसविराहए'त्ति देशं-स्तोकमंशं ज्ञानादित्रयरूपस्य मोक्षमार्गस्य तृतीयभागरूपंचारित्रं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org