SearchBrowseAboutContactDonate
Page Preview
Page 448
Loading...
Download File
Download File
Page Text
________________ ४४५ शतकं-८, वर्गः-, उद्देशकः-९ सङ्ख्यातगुणा एव । एतदेवभाव्यते-निगोदजीवानां स्थितिकालोऽन्तर्मुहूर्तमानः, सच कल्पनया समयलक्षं, तत्र 'आयुर्बन्धाद्धया' आयुर्बन्धकालेनान्तर्मुहूर्तमानेनैव कल्पनया समयसहस्रलक्षणेन भाजिते सति यल्लब्धं कल्पनया शतरूपं एतावति भागे वर्तन्ते आयुर्बन्धकाः ‘सेसजीवाणं'ति शेषजीवानंतदबन्धकानामित्यर्थः, तत्र किल लक्षापेक्षयाशतं सङ्घयेयतमो भागोऽतोबन्धकेभ्योऽन्धकाः सङ्घयेयगुणा भवन्तीति ।।२६-२७॥ एतदेव भाव्यते ।।२८॥ समाप्तोऽयं बन्धः॥ शतकं-८ उद्देशकः-९ समाप्त -शतकं-८ उद्देशकः-१०:वृ.अनन्तरोद्देशके बन्धादयोऽर्था उक्ताः, तांश्च श्रुतशीलसंपन्नाः पुरुषा विचारयन्तीति श्रुतादिसंपन्नपुरुषप्रभृतिपदार्थःविचारणार्थो दशम उद्देशकः, तस्य चेदमादिसूत्रम् मू. (४३०) रायगिहे नगरे जाव एवं वयासी-अन्नउत्थियाणं भंते ! एव माइक्खंति जाव एवं परूवेति-एवंखलु सील सेयं १ सुयं सेयं २ सुयं सेयं ३ सील सेयं ४, से कहमेयंभंते! एवं?, गोयमा! जन्नं ते अन्नउत्थिया एवमाइक्खंतिजावजे ते एवमाहंसुमिच्छा ते एवमाहंसु, अहं पुण गोयमा! एवमाइक्खामि जाव परुवेमि । एवं खलु मए चत्तारि पुरिसजाया पन्नत्ता, तंजहा-सीलसंपन्ने नामं एगे नो सुयसंपन्ने १ सुयसंपन्ने नामं एगे नो सीलसंपन्ने २ एगे सीलसंपन्नेवि सुयसंपन्नेवि ३ एगे नो सीलसंपन्ने नो सुयसंपन्ने ४ । तत्थ णंजे से पढमे पुरिसजाए से णं पुरिसे सीलवं असुयवं, उवरए अविनायधम्मे, एस णं गोयमा! मए पुरिसे देसाराहए पन्नत्ते । तत्थ णंजे से दोच्चे पुरिसजाए सेणं पुरिसे असीलवंसुयवं, अनुवरए विनायधम्मे, एसणं गोयमा! मए पुरिसे देसविराहए पन्नते। तत्थ णं जे से तच्चे पुरिसजाए से णं पुरिसे सीलवं सुयवं, उवरए विनायधम्मे, एस णं गोयमा ! मए पुरिसे सव्वाराहए पन्नत्ते।। तत्थणंजे से चउत्थे पुरिसजाए सेणंपुरिसे असीलवं असुतवं, अनुवरए अविन्नायधम्मे, एसणं गोयमा ? मए पुरिसे सव्वविराहए पन्नत्ते । वृ. 'रायगिहे' इत्यादि, तत्रच एवं खलु सील सेयं १ सुयं सेयं २ सुयंसेयं ३ सील सेयं४' इत्येतस्य चूर्ण्यनुसारेणव्याख्या-‘एवं' लोकसिद्धन्यायेन 'खलु निश्चयेन इहान्ययूथिकाः केचित् क्रियामात्रादेवामीष्टार्थःसिद्धिमिच्छन्ति न च किञ्चिदपि ज्ञानेन प्रयोजनं, निश्चेष्टत्वात्, घटादिकरणप्रवृत्तावाकाशादिपदार्थःवत्, पठयते च॥१॥ “क्रियैव फलदा पुंसां, न ज्ञानं फलदं मतम् । यतः स्त्रीभक्ष्यभोगज्ञो, न ज्ञानात्सुखितो भवेत् ॥" ॥१॥ तथा-“जहा खरो चंदणभारवाही, भारस्स भागी न हुचंदणस्स । एवं खुनाणी चरणेण हीणो, नाणस्स भागी नहु सोगईए॥" अतस्तेप्ररूपयन्ति-शीलं श्रेयः प्राणातिपातादिविरमणध्यानाध्ययनादिरूपा क्रियैव श्रेयः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003309
Book TitleAgam Suttani Satikam Part 05 Bhagvati
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size12 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy