________________
४४४
भगवतीअङ्गसूत्रं ८/-/९/४२९ एवं च त्रयः सर्वबन्धकानां राशयः त्रय एव चाबन्धकानां, समयभेदेन राशिभेदादिति, एवंचते राशिप्रमाण-तस्तुल्य यद्यपि भवन्ति तथाऽपि सङ्ख्यातप्रमाणतोऽधिका अबन्धका भवन्ति ।। ४-५-६॥
तेचैवम्-ये एकसमयिका ऋजुगत्योत्पद्यमानका इत्यर्थः ते एकस्मिन्निगोदे-साधारणशरीरे लोकमध्यस्थितेषड्भ्यो दिग्भ्योऽनुश्रेण्याऽऽगच्छन्ति,येपनुर्द्विसमयिका एकवक्रगत्योत्पद्यमाना इत्यर्थः तेत्रिप्रतरिकाः-प्रतरत्रयादागच्छन्ति, विदिशोवक्रेणाऽऽगमनात्, प्रतरश्चवक्ष्यमाणस्वरूप, येपुनस्त्रिसमयिकाः-समयत्रयेण वक्रद्वयेनचोत्पद्यमानकस्ते शेषलोकात्प्रतरत्रयातिरिक्तलोकादागच्छन्तीति ॥७॥
प्रतरप्ररूपणायाह-लोकमध्यगतैकनिगोदमधिकृत्यतिर्यगायतश्चतसृषुदिक्षुप्रतरःकल्प्यते, असङ्खयेयप्रदेशबाहल्यो-विवक्षितनिगोदोत्पादकालोचितावगाहनाबाहल्यइत्यर्थःतन्मात्रबाहल्यावेव 'उद्दे'ति ऊ धोलोकान्तगतौ पूर्वापरायतो दक्षिणोत्तरायतश्चेति द्वौ प्रतराविति ॥ ८॥
अथाधिकृतमल्पबहुत्वमुच्यते-ये जीवास्त्रिप्रतरिका एकवक्रया गत्योत्पत्तिमन्तस्ते षदिग्भ्यः-ऋजुगत्या षड्भ्यो दिग्भ्यः सकाशाद्भवन्त्यसङ्ख्येयगुणाः, शेषाअपितेत्रिसमयिकाः शेषोलाकादागतास्तेऽप्यसख्येयगुणा भवन्ति, कुतः ?, क्षेत्रामङ्ख्यगनितत्वाद्, यतः षडदिक्क्षेत्रात्रिप्रतरमसङ्खयेयगुणं ततोऽपि शेषलोक इति ॥९॥
ततः किम् ? इत्याह-वक्रद्वयमाश्रित्येदं सूत्रमित्यर्थः ॥१०॥
प्रथम ऋजुगत्युत्पन्नसर्वबन्धकराशिसहंपरिकल्पितं, क्षेत्रस्याल्पत्वात्, द्विसमयोत्पन्नानां द्वौ राशी, एकोऽवन्धकानामन्यः सर्वबन्धकानां, तौ च प्रत्येकंलक्षमानौ, तत्क्षेत्रस्य बहुतरत्वात्, ये पुनस्त्रिभिःसमयैरुत्पद्यन्ते तेषांत्रयोराशयः, तत्र चाद्ययोः समययोरबन्धकौ द्वौराशी तृतीयस्तु सर्वबन्धको राशिः,तेचत्रयोऽपि प्रत्येकं कोटीमानास्तक्षेत्रस्य बहुतमत्वादिति, तदेवं राशित्रयेऽपि सर्वबन्धकाः सहस्रं लक्षंकोटीचेत्येवंसर्वस्तोकाः, अबन्धकास्तुलक्षंकोटीद्वयंचेत्येवं विशेषाधिकास्त इति ॥१२॥
अनेन च गाथाद्वयेनोद्वर्तनाभणनाद्विग्रह समय सम्भवः, अन्तर्मुहूत्तन्तेि परिवर्तनाभणनाच्चनिगोद-स्थितिसमयमानमुक्तं, ततश्च अयमर्थः-॥१३-१४॥
तेषामेव वैक्रियबन्धकानां सर्वबन्धकान् मुक्त्वा ये शेषास्ते सर्वे वैक्रियस्य देशबन्धका भवन्ति, तत्र च सर्वबन्धकान् मुक्त्वेलेन कथमित्यस्य निर्वचनमुक्तं, ये शेषा इत्यनेन तु के वेत्यस्येति, अबन्धकास्तु तस्यानन्ता भवन्ति, तेच के?,ते तद्वर्जा-वैक्रियसर्वदेशबन्धकवर्जाः शेषजीवास्ते चौदारिकादिबन्धकाः देवादयश्च वैग्रहिका इति ॥२१॥
'तद्वर्जा' आहारकबन्धवर्जा सर्वजीवा अबन्धका इत्याहारकाबन्धस्वरूपमुक्तं, ते च पूर्वेभ्योऽनन्तगुणा भवन्ति ।। २२-२४ ।।
सङ्ख्यातगुणा आयुष्काबन्धका इति यदुक्तं तत्र प्रश्नयनाह-एकोऽसङ्खयभागो निगोदजीवानांसर्वदोद्वर्तते, सच बद्धायुषामेव, तदन्येषामुद्वर्तनाऽभावात्, तेभ्यश्चयेशेषास्तेऽबद्धायुषः, ते च तदपेक्षयाऽसङ्ख्यातगुणा एवेत्येवमसङ्ख्यगुणा आयुष्काबन्धकाः स्युरिति ॥२५
अत्रोच्यते, निगोदजीवभवकालपेक्षयातेषामायुर्बन्धकालः सङ्ख्यातभागवृत्तिरित्यबन्धकाः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org