SearchBrowseAboutContactDonate
Page Preview
Page 438
Loading...
Download File
Download File
Page Text
________________ ४३५ शतकं -८, वर्ग:-, उद्देशक:- ९ 'असुरकुमारे' त्यादि, तत्र जघन्या स्थितिरसुरकुमारादीनां व्यन्तराणां च दश वर्षसहस्राणि ज्योतिष्काणां पल्योपमाष्टभागः सौधर्मादिषु तु 'पलियमहियं दो सार साहिया सत्तदस य चोद्दस य वर्षसहस्राणि ज्योतिष्काणां पल्योपमाष्टभागः सौधर्मादिषु तु 'पलियमहियं दो सार साहिया सत्तदस च चोद्दस य सतरस य' इत्यादि । आनतसूत्रे ‘सव्वबंधंतर'मित्यादि, एतस्य भावना आनतकल्पीयो देव उत्पत्तौ सर्वबन्धकः, स चाष्टादशसागरोपमानि तत्र स्थित्वा ततश्च्युतो वर्षपृथक्त्वं मनुष्येषु स्थित्वा पुनस्तत्रैवोत्पन्नः प्रथमसमये चासौ सर्वबन्धक इत्येवं सर्वबन्धान्तरं जघन्यमष्टादश सागरोपमानि वर्षपृथक्त्वं मनुष्येषु स्थित्वा पुनस्तत्रैवोत्पन्नः प्रथमसमये चासौ सर्वबन्धक इत्येवं सर्वबन्धान्तरं जघन्यमष्टादश सागरोपमानि वर्षपृथक्त्वाधिकानीति, उत्कृष्टं त्वनन्तं कालं कथं ?, स एव सतस्माच्युतोऽनन्तं कालं वनस्पत्यादिषु स्थित्वा पुनस्तत्रैवोत्पन्नः प्रथमसमये चासौ सर्वबन्धक इत्येवमिति, 'देसबंधंतरं जहन्त्रेणं वासुपुहुत्तं'ति, कथं?, स एव देशबन्धकः संश्रयतो वर्षपृथक्त्वं मनुष्यत्वमनुभूय पुनस्तत्रैव गतस्तस्य च सर्वबन्धानन्तरं देशबन्ध इत्येवं सूत्रोक्तमन्तरं भवति, इह च यद्यपि सर्वबन्धसमयाधिकं वर्षपृथक्त्वं भवति तथाऽप तस्य वर्षपृथक्त्वादनर्थान्तरत्वविवक्षया न भेदेन गणनमिति । एवं प्राणतारणाच्युतग्रैवेयकसूतराण्यपि ज्ञेयानि । अथ सनत्कुमारादिसहस्रारान्ता देवा जघन्यतो नवदिनायुष्केभ्यः आनताद्यच्युतान्तास्तु नवमासायुष्केभ्यः समुत्पद्यन्त इति जीवसमासेऽभिधीयते, ततश्च जघन्यं तत्सर्वबन्धान्तरं तत्तदधिकतज्जघन्यस्थितिरूपं प्राप्नोतीति, सत्यमेतत्, केवलं मतान्तरमेवेदमिति ॥ अनुत्तरविमानसूत्रेतु 'उक्कोसेण'मित्यादि, उत्कृष्टं सर्वबन्धान्तरं देशबन्धान्तरं च सङ्ख्यातानि सागरोपमानि यतो नान्तकालमनुत्तरविमानच्युतः 'संसरति, तानि च जीवसमासमतेन द्विसङ्ख्यानीति । अथ वैक्रियशरीरदेशबन्धकादीनामल्पत्वादिनिरूपणायाह- 'एएसी'त्यादि, तत्र सर्वस्तोका वैक्रियसर्वबन्धकास्तत्कालस्याल्पत्वात्, देशबन्धका असङ्ख्यातगुणास्तत्कालस्य तदपेक्षयाऽ सङ्ख्येयगुणत्वात्, अबन्धकास्त्वनन्तगुणाः सिद्धानां वनस्पत्यादीनां च तदपेक्षयाऽनन्तगुणत्वादिति अथाहारक शरीरप्रयोग बन्धमधिकृत्याह - 'आहारे' त्यादि, 'एगागारे' त्ति एकः प्रकारो नौदारियादिबन्धवदेकेन्द्रियाद्यनेकप्रकार इत्यर्थः, 'सव्वबंदे एक्कं समयं ति आद्यसमय एव सर्वबन्धभावात्, 'देसबंधे जहन्त्रेणं अंतोमुहुत्तं उक्कोसेणवि अंतोमुहुत्तं 'ति, कथं?, जघन्यत उत्कर्षतश्चान्तमुहूर्त्तमात्रमेवाहारकशरीरी भवति, परत औदारिकशरीरस्यावश्य ग्रहणात्, तत्र चान्तर्मुहूर्ते आद्यसमये सर्वबन्धः उत्तरकालं च देशबन्ध इति । 2 अथाहारकशरीरप्रयोगबन्धस्यैवान्तरनिरूपणायाह-‘आहारे' त्यादि, 'सव्वबंधंतरं जहन्नेणं अंतोमुहुत्तं 'ति, कथं ?, मनुष्य आहारकशरीरं प्रतिपन्नस्तत्प्रथमसमये च सर्वबन्धकस्ततोऽन्तमुहूर्त्तमात्रं स्थित्वौदारिकशरीरं गतस्तत्राप्यन्तर्मुहूर्त्त स्थितः पुनरपि च तस्य संशयादि आहारकशरीरकरणकारणमुत्पन्नं ततः पुनरप्याहारकशरीरं गृह्णाति तत्र च प्रथमसमये सर्वबन्धक एवेति एवं च सर्वबन्धान्तरमन्तर्मुहूर्तं द्वयोरप्यन्तर्मुहूर्तयोरेकत्वविक्षणादिति, 'उक्कोसेणं अनंतं कालं'ति, कथं ?, यतोऽनन्तकालादाहारकशरीरं पुनर्लभत इति, कालानन्त्यमेव विशेषेणाह Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003309
Book TitleAgam Suttani Satikam Part 05 Bhagvati
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy