SearchBrowseAboutContactDonate
Page Preview
Page 439
Loading...
Download File
Download File
Page Text
________________ ४३६ भगवती अङ्गसूत्रं ८/-/९/४२५ 'अनंताओ उस्सप्पिणीओ ओस्सप्पिणीओ कालओ खेत्तओ अनंता लोग' त्ति, एतद्वयाख्यानं च प्राग्वत्। अथ तत्र पुद्गलपरावर्त्तपरिमाणं किं भवति ? इत्याह ‘अवहुंपोग्गलपरियट्टंदेसूणं’ति, 'अपार्धम्' अपगतार्द्धमर्द्धमात्रमित्यर्थः 'पुद्गलपरावर्त्त' प्रागुक्तस्वरूपम्, अपार्द्धमप्यर्द्धतः पूर्णं स्यादत आह-देशोनमिति । एवं देसबंधंतरंपि’त्ति जघन्येनान्तर्मुहूर्त्तमत्कर्षतः पुनरपार्द्ध पुद्गल - परावर्त्त देशोनं, भावना तु पूर्वोक्तानुसारेणेति । अथाहारक शरीरदेशबन्धकादीनामल्पत्वादिनिरूपणायाह- 'एएसि ण' मित्यादि, तत्र सर्वस्तोका आहारकस्य सर्वबन्धकास्तत्सर्वबन्धकालस्याल्पत्वात्, देशबन्धकाः सङ्ख्यातगुणा स्तद्देशबन्धकालस्य बहुत्वात्, असङ्ख्यातगुणास्तु ते न भवन्ति, यतो मनुष्या अपि सङ्ख्याताः किं पुनराहारकशरीरदेशबन्धकाः ?, अबन्धकास्त्वनन्तगुणाः, आहारकशरीरं हि मनुष्याणां तत्रापि संयतानां तेषामपि केषाञ्चिदेव कदाचिदेव च भवतीत, शेषकाले ते शेषसत्त्वाश्चाबन्धकाः, ततश्च सिद्धवनस्पत्यादिनामन्तगुणत्वादनन्तगुणास्त इति । अथ तैजसशरीरप्रयोगबन्धमधिकृत्याह मू. (४२६) तेयासरीरप्पयोगबंधे णं भंते! कतिविहे पन्नत्ते ?, गोयमा पंचविहे पन्नत्ते, तं जहा - एगिंदियतेयासरीरप्पयोगबंधे बेइंदिय० तेइंदिय० जाव पंचिंदियतेयासरीरप्पयोगबंधे। एगिंदियतेयासरीरप्पयोगबंधे णं भंते! कइविहे पन्नत्ते ? एवं एएणं अभिलावेणं भेदो जहा ओगाहणसंठाणे जाव पज्जत्तसव्वट्ठसिद्ध अनुत्तरोववाइयकप्पातीयवेमानियदेवपंचिंदियतेयासरीरप्पयोगबंधे य अपज्जत्तसव्वट्ठसिद्धअनुत्तरोववाइयजावबंधे य । तेयासरीरप्पयोगबंदे णं भंते! कस्स कम्मस्स उदएणं ?, गोयमा ! वीरियसजोगसद्दव्वयाए जाव आउयं च पडुच्च तेयासरीरप्पयोगनामाए कम्मस्स उदएणं तेयासरीरप्पयोगबंधे । तेयासरीरप्पयोगबंधे णं भंते! किं देसबंधे सव्वबंधे ?, गोयमा ! देसबंधे नो सव्वबंधे । तेयासरीरप्पयोगबंधे णं भंते! कालओ केवचिरं होइ ?, गोयमा ! दुविहे पन्नत्ते, तंजहाअनाइए वा अपज्जवसिए अनाइए वा सपज्जवसिए । तेयासरीरप्पयोगबंधंतरे णं भंते ! कालओ केवचिरं होइ ?, गोयमा ! अनाइयस्स अपज्जवसियस्स नत्थि अंतरं, अनाइयस्स सपज्जवसियस्स नत्थि अंतरं । एएसिणं भंते! जीवाणं तेयासरीरस्स देसबंधगाणं अबंधगाण य कयरे २ जाव विसेसाहिया वा ?, गोयमा ! सव्वत्थोवा जीवा तेयास रीरस्स अबंधगा देसबंधगा अनंतगुणा ४ । वृ. 'तेये' त्यादि, 'नो सव्वबंधे' त्ति तैजसरीरस्यानादित्वान्न सर्वबन्धोऽस्ति, तस्य प्रथमतः पुद्गलोपादानरूपत्वादिति । 'अनाइए वा अपज्जवसिए' इत्यादि, तत्रायं तैजसशरीबन्धोऽनादिरपर्यवसितोऽभव्यानां अनादि सपर्यवसितस्तु भव्यानामिति । अथ तैजसशरीरप्रयोगबन्धस्यैवान्तरनिरूपणायाह- 'तेये 'त्यादि, 'अनाइयस्से'त्यादि, यस्मात्संसारस्थो जीवस्तैजसशरीरबन्धेन द्वयरूपेणापि सदाऽ विनिर्मुक्त एव भवति तस्माद्यरूपस्याप्यस्य नास्त्यन्तरमिति । अथ तैजसशरीरदेशबन्धकाबन्धकानामल्पत्वादिनिरूपणाया'एएसी' त्यादि, तत्र सर्वस्तोकास्तैजसशरीरस्याबन्धकाः सिद्धानामेव तदबन्धकत्वात्, देशबन्धकास्त्वनन्तगुणास्तद्देश- बन्धकानां सकलसंसारिणां सिद्धेभ्योऽनन्तगुणत्वादिति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003309
Book TitleAgam Suttani Satikam Part 05 Bhagvati
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy