SearchBrowseAboutContactDonate
Page Preview
Page 437
Loading...
Download File
Download File
Page Text
________________ ४३४ भगवतीअङ्गसूत्रं ८/-/९/४२५ "तिरिक्खे'त्यादि, 'सव्वबंधंतरंजहन्नेणंअंतोमुहुत्तं'ति, कथं?, पञ्चेन्द्रियतिर्यग्योनिको वैक्रियं गतः तत्र च प्रथमसयमे सर्वबन्धकस्ततः परं देशबन्धकोऽन्तर्मूहर्त्तमात्रं तत औदारिकस्यसर्वबन्धकोभूत्वा समयं देशबन्धको जातः पुनरपि श्रद्धेयमुत्पन्न वैक्रियं करोमीतिपुनर्वैक्रियं कुर्वतः प्रथमसमये सर्वबन्धः,एवं च सर्वबन्धयोर्यथोक्तमन्तरं भवतीति, 'उक्कोसेणं पुव्वकोडिपुसृत्तंति, कथं?, पूर्वकोट्यायुः पञ्चेन्द्रियतिर्यग्योनिको वैक्रियं गतः, तत्र चप्रथमसमये सर्वबन्धकरततो देशबन्धको भूत्वा कालान्तरे मृतस्तत्र पूर्वकोट्यायुः पञ्चेन्द्रियतिर्यक्ष्वेवोत्पन्नःपूर्वजन्मना सह सप्ताष्टौ वा वारान्, ततः सप्तमेऽष्टमेवा भवे वैक्रियं गतः, तत्र च प्रथमसमये सर्वबन्धं कृत्वा देशबन्धं करोतीति, एवं च सर्वबन्धयोरुत्कृष्टं यथोक्तमन्तरं भवतीति, ‘एवं देसबंधतंपि'त्ति, भावना चास्य सर्वबन्धान्तरोक्तभावनानुसारेण कर्त्तव्येति । वैक्रियशरीरबन्धान्तरमेव प्रकारान्तरेण चिन्तयन्नाह-'जीवस्से'त्यादि, सव्वबंधंतरंजहन्नेणं अंतोमुहुत्तं'ति, कथं?, वायुर्वैक्रियशरीरंप्रतिपन्नः, तत्र चप्रथमसमयेसर्वबन्धको भूत्वा मृतस्ततः पृथिवीकायिकेषूत्पन्नः तत्रापि क्षुल्लकभवग्रहणमात्र स्थित्वा पुनर्वायुतिः, तत्रापि कतिपयान् क्षुल्लकभवान् स्थित्वा वैक्रियंगतः, तत्र चप्रथमसमये सर्वबन्धकोजातस्ततश्चवैक्रियस्य सर्वबन्धयोरन्तरंबहवः क्षुल्लकभवास्तेच बहवोऽप्यन्तर्मुहूर्त, अन्तर्मुहूर्तेबहूनां क्षुल्लकभवानांप्रतिपादितत्वात्, ततश्च सर्वबन्धान्तरं यथोक्तं भवतीति, 'उक्कोसेणं अनंतं कालं वणस्सइकालो'त्ति, कथं ?, वायुर्वैक्रियशरीरीभवन्मृतो वनस्पत्यादिष्वनन्तं कालं स्थित्वा वैक्रियशरीरंपुनर्यदा लप्स्यते तदा यथोक्तमन्तरं भविष्यतीति, ‘एवं देसबंधंतरंपि'त्ति, भावना चास्य प्रागुक्तानुसारेणेति ॥ रत्नप्रभासूत्रे सव्वबंधंतर'मित्यादि, एतद्भाव्यते-रत्नप्रभानारको दशवर्षसहस्रस्थितिक उत्पत्तौ सर्वबन्धकः तत उद्धृतस्तु गर्भजपञ्चेन्द्रियेष्वन्तर्मुहूर्त स्थित्वा रत्नप्रभायां पुनरप्युत्पन्नः तत्र च प्रथमसमये सर्वबन्धक इत्येवं सूतॊक्तं जघन्यमन्तरं सर्वबन्धयोरिति, अयं च यदाऽपि प्रथमोत्पत्तौ त्रिसमयविग्रहेणोत्पद्यते तदापि न दश वर्षसहस्राणि त्रिसमयन्यूनानि भवन्ति, अन्तर्मुहूर्तस्यमध्यात्समयत्रयस्य तत्रप्रक्षेपात्, नच तप्रक्षेपेऽप्यन्तर्मुहूर्तस्यान्तर्मुहूर्त्तत्वव्याघातस्तस्यानेकभेदत्वादिति, 'उक्कोसेणं वणस्सइकालो त्ति, कथं?, रत्नप्रभानारक उत्पत्तौ सर्वबन्धकः ततउद्धृतश्चानन्तं कालं वनस्पत्यादिषुस्थित्वा पुनस्तत्रैवोत्पद्यमानः सर्वबन्धक इत्येवमुत्कृष्टमन्तरमिति, देसबंधंतरंजहन्नेणंअंतोमुहुत्तंति, कथं?, रत्नप्रभानारको देशबन्धकः सन् मृतोऽन्तमुहूर्तायुः पञ्चेन्द्रियतिर्यकतयोत्पद्य मृत्वा रत्नप्रभानारकतयोत्पन्नः, तत्रच द्वितीयसमये देशबन्धक इत्येवं जघन्यं देशबन्धान्तरमिति, 'उक्कोसेण'मित्यादि, भावना प्रागुक्तानुसारेणेति । शर्कराप्रभादिनारकाणांवैक्रियशरीरबन्धान्तरमतिदेशतः सङक्षेपार्थःमाह-एवंजावे'त्यादि, द्वितीयादिपृथिवीषुचजघन्या स्थिति क्रमेणैकंत्रीनि सप्तदश सप्तदश द्वाविंशतिश्च सागतोपमाणीति पंचिंदिए'त्यादौ ‘जहावाउकाइयाणं तिजघन्येनान्तर्मुहूर्तमुत्कृष्टतः पुनरनन्तं कालमित्यर्थः असुरकुमारदयस्तु सहस्रारान्ता देवा उत्पत्तिसमयेसर्वबन्धंकृत्वा स्वकीयांचजघन्यस्तितिमनुपाल्य पञ्चेन्द्रियतिर्यक्षु जघन्येनान्तर्मुहूत्र्तायुष्कत्वेन समुत्पद्य मृत्वा च तेष्वेव सर्वबन्धका जाताः, एवं च तेषां वैक्रियस्य जघन्यं सर्वबन्धान्तरंजघन्या तत्स्थितिरन्तर्मुहूर्ताधिका वक्तव्या, उत्कृष्टं त्वनन्तं कालं, यथा रत्नप्रभानारकाणामिति, एतद्दर्शनायाह Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003309
Book TitleAgam Suttani Satikam Part 05 Bhagvati
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy