SearchBrowseAboutContactDonate
Page Preview
Page 436
Loading...
Download File
Download File
Page Text
________________ शतकं - ८, वर्ग:-, उद्देशक:- ९ पुनरीदारिक शरीरस्यावश्यं प्रतिपत्तेरिति ॥ 'रयणप्पभे'त्यादि, 'देसबंधे जहन्नेणं दस वाससहस्साइं ति० समयऊणाइं' ति, कथं ?, त्रिसमय-विग्रहेण रत्नप्रभायां जघन्यस्थितिर्नारकः समुत्पन्नः तत्र च समयद्वयमनाहारकस्तृतीये चसमये सर्वबन्धकस्ततो देशबन्धको वैक्रियस्यतदेवमाद्यसमयत्रयन्यूनं वर्षसहस्रदशकं जघन्यतो देशबन्धः, ‘उक्कोसेणं सागरोवमं समयऊणं' ति, कथं?, अविग्रहेण रत्नप्रभायामुत्कृष्टस्थितिर्नारकः समुत्पन्नः, तत्र च प्रथमसमये सर्वबन्धको वैक्रियशरीरस्य ततः परं देशबन्धकस्तेन सर्वबन्धसमयेनोनं सागरोपममुत्कर्षतो देशबन्ध इति, एवं सर्वत्र सर्वबन्धः समयं देशबन्धश्च जघन्यो विग्रहसमयत्रयन्यूनोनिजनिजजघन्यस्थितिप्रमाणो वाच्यः, सर्वबन्धसमयन्यूनोत्कृष्टस्थितिप्रमाणश्चोत्कृष्टदेशबन्ध इति, एतदेवाह - ‘एवं जावे’त्यादि, पञ्चेन्द्रियतिर्यङ्गनुष्याणां वैक्रियसर्वबन्ध एकं समयं देशबन्धस्तु जघन्यत एकं समयमुत्कर्षेण त्वन्तर्मुहूर्तम् - एतदेवातिदेशेनाह-'पंचिंदिये त्यादि, यच्च । "अंतमुहुत्तं निरएसु होइ चत्तारि तिरियमणुएसु । देवेसु अद्धमासो उक्कोस विउव्वणाकालो ।” इति वचनसामध्यादन्तर्मुहूर्त्तचतुष्टयं तेषां देसबन्ध इत्युच्यते तन्मतान्तरमित्यवसेयमिति उक्त वैक्रियशरीरप्रयोगबन्धस्य कालः, अथ तस्यैवान्तरं निरूपयन्नाह - 'वेउव्विये' त्यादि, 'सव्वबंधंतरं जहन्नेणं एक्कं समयं 'ति, कथं?, औदारिकशरीरी वैक्रियं गतः प्रथमसमये सर्वबन्धको द्वितीये, देशबन्धको भूत्वा मृतो देवेषु नारकेषु वा वैक्रियशरीरिष्वविग्रहेणोत्पद्यमानः प्रथमसमये सर्वबन्धको द्वितीये देशबन्धको भूत्वा मृतो देवेषु नारकेषु वा वैक्रियशरीरिष्वविग्रहेणोत्पद्यमानः प्रथमसमये सर्वबन्धक इत्येवमेकः समयः सर्वबन्धान्तरमिति, 'उक्कोसेणं अनंतं कालं 'ति, कथं ?, औदारिकशरीरी वैक्रियं गतो वैक्रियशरीरिषु वा देवादिषु समुत्पन्नः सच प्रथमसमये सर्वबन्धको भूत्वा देशबन्धं च कृत्वा मृतः ततः परमनन्तं कालमौदारिकशरीरिषु वनस्पत्यादिषु स्थित्वा वैक्रियशरीर-वत्सूत्पन्नः, तत्र च प्रथमसमये सर्वबन्धको जातः, एवं च सर्वबन्धयोर्यथोक्तमन्तरं भवतीति, ‘एवं देसबंधंतरंपि त्ति, जघन्येनैकं समयमुत्कृष्टतोऽनन्तं कालमित्यर्थः, भावना चास्य पूर्वोक्तानुसारेणेति । 119 11 ४३३ 'वाउक्काइए’त्यादि ‘सव्वबंधंतरं जहन्त्रेणं अंतोमुहुत्तं ति, कथं ?, वायुरौदारिकशरीरी वैक्रियमापन्नः, तत्र च प्रथमसमये सर्वबन्धको भूत्वा मृतः पुनर्वायुरेव जातः, तस्य चापर्याप्तकस्य वैक्रियशक्तिर्नाविर्भवतीत्यन्तर्मुहूर्त्तमात्रेणासौ पर्याप्तको भूत्वा वैक्रियशरीरमारभते, तत्र चासौ प्रथमसमये सर्वबन्धको जात इत्येवं सर्वबन्धान्तरमन्तर्मुहूर्तमिति, 'उक्कोसेणं पलिओवमस्स असंखेज्जइभागं’ति, कथं ?, वायुरौदारिकशरीरी वैक्रियं गतः, तत्प्रथमसमये च सर्वबन्धकस्ततो देशबन्धको भूत्वा मृतस्ततः परमौदारिकशरीरिषु वायुषु पल्योपमासङ्ख्येयभागमतिवाह्यावश्यं वैक्रियं करोति, तत्र च प्रथमसमये सर्वबन्धकः, एवं च सर्वबन्धयोर्यथोक्तमन्तरं भवतीति, 'एवं देसबंधंतरंपि'त्ति, अस्य भावना प्रागिवेति । 5 28 Jain Education International For Private & Personal Use Only 1 www.jainelibrary.org
SR No.003309
Book TitleAgam Suttani Satikam Part 05 Bhagvati
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy