SearchBrowseAboutContactDonate
Page Preview
Page 428
Loading...
Download File
Download File
Page Text
________________ ४२५ शतकं-८, वर्गः-, उद्देशकः-९ ओगपच्चइएय'त्तिप्रत्युत्पन्नः-अप्राप्तपूर्वो वर्तमान इत्यर्थः प्रयोगः-केवलिसमुद्घातलक्षणव्यापारः प्रत्ययो यत्र स तथा स एव प्रत्युत्पन्नप्रयोगप्रत्ययिकः। ‘नेरइयाईण'मित्यादि, 'तत्थ तत्थ'त्ति अनेन समुद्घातकरणक्षेत्राणां बाहुल्यमाह, 'तेसु तेसुत्तिअनेन समुद्घातकारणानां वेदनादीनां बाहुल्यमुक्तं समोहणमाणाणं'तिसमुध्धन्यमानानां समुद्घातं शरीराबहिर्जीवप्रदेशप्रक्षेपलक्षणंगच्छतां ‘जीवपएसाणं'तिइहजीवप्रदेशानामित्युक्तावपि शरीरबन्धाधिकारात्तात्स्थायत्तद्वयपदेश इति न्यायेन जीवप्रदेशाश्रिततैजसकार्मणशरीरप्रदेशानामिति द्रष्टव्यं, शरीरिबन्ध इत्यत्र तु पक्षे समुद्घातेन विक्षिप्य सङ्कोचितानामुपसर्जनीकृततैजसादिशरीरप्रदेशानां जीवप्रदेशानामेवेति ‘बंधे'त्ति रचनादिविशेषः, 'जन्नं केवले त्यादि, केवलिसमुद्घातेन दण्ड १ कपाट २ मथिकरणा३न्तरपूरण ४ लक्षणेन समुपहतस्य' विस्तारितजीवप्रदेशस्य 'ततः' समुद्घातात् 'प्रतिनिवर्तमानस्य' प्रदेशान् संहरतः, समुद्घातप्रतिनिवर्तमानत्वं च पञ्चमादिष्वनेकेषु समयेषु स्यादित्यतो विशेषमाह-'अंतरामंथे वट्टमाणस्स'त्ति निवर्तनक्रियाया अन्तरे-मध्येऽवस्थितस्य पञ्चमसमय इत्यर्थः, यद्यपि च षष्ठादिसमयेषुतैजसादिशरीरसङ्घातः समुत्पद्यते तथाऽप्यभूतपूर्वतया पञ्चमसमय एवासौ भवति शेषेषुतु भूतपूर्वतयैवेतिकृत्वा 'अंतरामंथेवट्टमाणस्से त्युक्तमिति, तेयाकम्माणंबंदे समुप्पज्जइत्तितैजसकार्मणयोः शरीरयोः 'बन्धः' सङ्घातः समुत्पद्यते 'किं कारणं' कुतो हेतोः?, उच्यते _ 'ताहे'त्ति तदा समुद्धातनिवृत्तिकाले 'से'त्ति तस्य केवलिनः 'प्रदेशाः' जीवप्रदेशाः ‘एगत्तीगय'त्ति एकत्वं गताः-संघातमापन्ना भवन्ति, तदनुवृत्याच तैजसादिशरीरप्रदेशानांबन्धः समुत्पद्यत इति प्रकृतम्, शरीरिबन्ध इत्यत्र तु पक्षे 'तेयाकम्माणं बंधे समुप्पज्जइ'त्ति तैजसकार्मणाश्रयभूतत्वात्तैजसकार्मणाः शरीरिप्रदेशास्तेषांवन्धः समुत्पद्यत इति व्याख्येयम्, ‘वीरियसजोगसद्दव्वयाए'त्ति वीर्य-वीर्यान्तरायक्षयादिकृता शक्ति योगाः-मनःप्रभृतयः सह योगैर्वर्तत इति सयोगः सन्ति-विद्यमानानि द्रव्यानि-तथाविधपुद्गल यस्य जीवस्यासौ सद्व्यः वीर्यप्रधानः सयोगो वीर्यसयोगः स चासौ सद्व्यश्चेति विग्रहस्तद्भावस्तत्ता तया वीर्यसयोगसद्व्यतया, सवीर्यतया सयोगतया सद्व्यतया जीवस्य, तथा ‘पमायपच्चय'त्ति प्रमादप्रत्ययात्' प्रमादलक्षणकारणात् तथा 'कम्मं च त्ति कर्म च एकेन्द्रियजात्यादिकमुदयवर्ति 'जोगं च त्ति 'योगं च' काययोगादिकं भवं च'त्ति ‘भवं च तिर्यग्भवादिकमनुभूयमानम् ‘आउयं च त्ति 'आयुष्कं च' तिर्यगायुष्काधुदयवर्ति पडुच्च'त्ति 'प्रतीत्य' आश्रित्य । 'ओरालिए'त्यादिऔदारिकशरीरप्रयोगसम्पादकं यन्नामतदौदारिकशरीरप्रयोगनामतस्य कर्मण उदयेनौदारिकशरीरप्रयोगबन्धो भवतीति शेषः, एतानि च वीर्यसयोगसद्व्यतादीनि पदान्यौदारिकशरीरप्रयोगनामकर्मोदयस्य विशेषणतया व्याख्येयानि, वीर्यसयोगसद्व्यतया हेतुभूतया यो विवक्षितकर्मोदयस्तेनेत्यादिना प्रकारेण, स्वतन्त्रानिवैतान्यौदारिकशरीरप्रयगबन्धस्य कारणानि, तत्र च पक्षे यदौदारिकशरीरप्रयोगबन्धः कस्य कर्मण उदयेन? इति पृष्टे यदन्यान्यपि कारणान्यभिधीयन्ते तद्विवक्षितकर्मोदयोऽभिहितान्येव सहकारिकारणान्यपेक्ष्येह कारणतयाऽवसेय इत्यस्यार्थःस्य ज्ञापनार्थःमिति ।। “एगिदिए'त्यादौ ‘एवं चेव'त्ति अनेनाधिकृतसूत्रस्य पूर्वसूत्रस-मताभिधानेऽपि ओरालियसरीरप्पओगनामाए' इत्यत्र पदे ‘एगिदियओरालियसरीर Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003309
Book TitleAgam Suttani Satikam Part 05 Bhagvati
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy