SearchBrowseAboutContactDonate
Page Preview
Page 427
Loading...
Download File
Download File
Page Text
________________ भगवती अङ्गसूत्रं ८/-/९/४२४ मध्यामाष्टाभ्योऽन्येषां सादिर्विपरिवर्त्तमानत्वात्, एतेन प्रथमभङ्ग उदाहृतः, अनादिसपर्यवसित इत्ययं तु द्वितीयो भङ्ग इह न संभवति, अनादिसंबद्धानामष्टानां जीवप्रदेशानामपरिवर्त्तमानत्वेन बन्धस्य सपर्यवसितत्वानुपपत्तेरिति । अथ तृतीयो भङ्ग उदाह्रियते- 'तत्थ णं जे से साइए' इत्यादि, सिद्धानां सादिरपर्यवसितो जीवप्रदेशबन्धः, शैलेश्यवस्थायां संस्थापितप्रदेशानां सिद्धत्वेऽपिचलनाभावादिति । अथ चतुर्थः भङ्ग भेदत आह- 'तत्थ णं जे से साइए' इत्यादि, 'आलावणबंधे 'त्ति आलाप्यते - आलीनं क्रियतएभिरित्यालापनानिरज्ज्वादीनि तैर्बन्धस्तृणादीनामालापनबन्धः 'अल्लियावणबंधे 'त्ति अल्लियावणं-द्रव्यस्य द्रव्यान्तरेण श्लेषादिनाऽऽलीनस्य यत्करणं तद्रूपो यो बन्धः स तथा 'सरीरबंधे' त्ति समुद्घाते सति यो विस्तारितसङ्कोचितजीवप्रदेशसम्बन्धविशेषवशात्तैजसादिशरीरप्रदेशानां सम्बन्धविशेषः स शरीरबन्धः, शरीरिबन्ध इत्यन्ये, तत्र शरीरिणः समुद्घाते विक्षिप्तजीवप्रदेशानां सङ्कोचने यो बन्धः स शरीरिबन्ध इति, 'सरीरप्पओगबंधे 'त्ति शरीरस्यऔदारिकादेर्यःप्रयोगेण-वीर्यान्तरायक्षयोपशमादिजनिव्यापारेण बन्धः तत्पुदलोपादानं शरीररूपस्य वा प्रयोगस्य यो बन्धः स शरीरप्रयोगबन्धः । ४२४ - 'तणभाराण व 'त्ति तृणभारास्तृणभारकास्तेषां 'वेत्ते 'त्यादि वेत्रलता - जलवंशकम्बा 'वाग' त्ति वल्कःवरत्रा-चर्म्ममयी रज्जुः-सनादिमयी वल्ली-त्रपुष्यादिका कुशा-निर्मूलदर्भा दर्भास्तु समूलाः, आदिशब्दाच्चीवरादिग्रहः, 'लेसणाबंधे 'त्ति श्लेषणा - श्लथद्रव्येण द्रव्ययोः सम्बन्धनं तद्रूपो यो बन्धः स तथा, ‘उच्चयबंधे' त्ति उच्चयः - ऊर्द्ध चयनं- राशीकरणं तद्रूपो बन्ध उच्चयबन्धः, 'समुच्चयबंधे 'त्ति सङ्गतः-उच्चयापेक्षया विशिष्टतर उच्चयः समुच्चयः स एव बन्धः समुच्चयबन्धः, 'साहणणाबंधे 'त्ति संहननं - अवयवानां सङ्घातनं तद्रूपो यो बन्धः स संहननबन्धः, दीर्घत्वादि चेह प्राकृतशैलीप्रभवमिति, 'कुट्टिमाणं' ति मनिभूमिकानां 'छुहाचिक्खिल्ले' त्यादौ 'सिलेस' त्ति श्लेषोवज्रलेपः 'लक्ख'त्ति जतु 'महुसित्य'त्ति मदनम्, आदिशब्दाद् गुग्गुलरालाखल्यादिग्रहः 'अवगररासीण व’त्ति कचवरराशीनाम् 'उच्चएणं' ति ऊर्ध्वं चयनेन 'अगडतलागनई' इत्यादि प्रायः प्राग् व्याख्यातमेव । 'देससाहणणाबंधे य'त्तिदेशेन देशस्य संहननलक्षणो बन्धः-सम्बन्धः शकटाङ्गादीनामिवेति देशसंहनन बन्धः, ‘सव्वसाहणणा बंधेय'त्ति सर्वेण संहनन लक्ष्णो बन्धः- सम्बन्धः क्षीरनीरादीनामिवेति सर्वंहननबन्धः ‘जन्नं सगडरहे 'त्यादि, शकटादीनि च पदानि प्राग् व्याख्यातान्यपि शिष्यहिताय पुनव्यार्खयायन्ते तत्र च 'सगड' त्ति गन्त्री 'रह' त्ति स्यन्दनः 'जाण' त्ति यानं लघुगन्त्री 'जुग्ग' त्ति युग्यं गोल्लविषयप्रसिद्धं द्विहस्तप्रमाणं वेदिकोपशोभितं जम्पानं 'गिल्लि' त्ति हस्तिन उपरिकोल्लरं यन्मानुषं गिलतीव 'थिल्लि'त्ति अड्डपल्लाणं 'सीय'त्ति शिबिका कूटाकारेणाच्छादितो जम्पानविशेषः 'संदमानिय'त्ति पुरुषप्रमाणो जम्पान विशेषः 'लोहि' त्ति मण्डकादिपचनभाजनं 'लोहकडाहे' ति भाजनविशेष एव 'कडुच्छयु 'त्ति परिवेषणभाजनम् आसनशयनस्तम्भाः प्रतीताः 'भंड' त्ति मृन्मयभाजनं 'मत्त' त्ति अमत्रं भाजनविशेषः 'उवगरण'त्ति नानाप्रकारं तदन्योपकरणमिति । 'पुव्यप्प ओगपञ्चइए य'त्ति पूर्वः प्राक्कालासेवितः प्रयोगो-जीवव्यापारो वेदनाकषायादिसमुद्घातरूपः प्रत्ययः-कारणं यत्र शरीरबन्धे स तथा स एव पूर्वप्रयोगप्रत्ययिकः, पञ्चुप्पन्नप For Private & Personal Use Only www.jainelibrary.org Jain Education International
SR No.003309
Book TitleAgam Suttani Satikam Part 05 Bhagvati
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy