SearchBrowseAboutContactDonate
Page Preview
Page 429
Loading...
Download File
Download File
Page Text
________________ भगवती अङ्गसूत्रं ८/-/९/४२४ प्पओगनामाए' इत्ययं विशेषो दृश्यः, एकेन्द्रियीदारिकशरीरप्रयोबन्धस्येहाधिकृतत्वात्, एवमुत्तरत्रापि वाच्यमिति । 'देसबंधेऽवि सव्वबंधेऽवि 'त्ति तत्र यथाऽपूपः स्नेहभृततप्ततापिकायां प्रक्षिप्तः प्रथमसमये घृतादि गृह्णत्येव शेषेषु तु समयेषु गृह्णाति विसृजति च एवमयं जीवो यदा प्राक्तनं शरीरकं विहायान्यद्गृह्णति तदा प्रथमसमये उत्पत्तिस्थानगतान् शरीरप्रायोग्यपुद्लान् गृह्णात्येवेत्ययं सर्वबन्धः, ततो द्वितीयादिषु समयेषु तान् गृह्णाति विसृजति चेत्येवं देशबन्धः, ततश्चैवमौदारिकस्य देशबन्धोऽप्यस्तीति सर्वबन्धोऽप्यस्तीति । ४२६ 'सव्वबंधं एक्कं समयं ति अपूपध्ष्टान्तेनैव तत्सर्वबन्धकस्यैकसमयत्वादिति, 'देसबंधे'इत्यादि, तत्र यदा वायुर्मनुष्यादिर्वा वैक्रियं कृत्वा विहाय च पुनरौदारिकस्य समयमेकं सर्वबन्धं कृत्वा पुनस्तस्य देशबन्धं कुर्वन्नेकसमयानन्तरं म्रियते तदा जघन्यत एकं समयं देशबन्धोऽस्य भवतीति, 'उक्कोसेणं तिन्नि पलिओवमाई समयउणाई' ति, कथं ?, यस्मादौदारिकशरीरिणां त्रीनि पल्योपमान्युत्कर्षतः स्थितिः तेषु च प्रथमसमये सर्वबन्धक इति समयन्यूनानि त्रीनि पल्योपमान्युत्कर्षत औदारिकशरीरिणां देशबन्धकालो भवति । ‘एगिंदियओरालिए’त्यादि, 'देसबंधे जहन्त्रेणं एक्कं समयं 'ति, कथं?, वायुरौदारिकशरीरी वैक्रियं गतः पुनरौदारिकप्रतिपत्तौ सर्वबन्धको भूत्वा देशबन्धकश्चैकं समयं भूत्वा मृतः इत्येवमिति, ‘उक्कोसेणं बावीस’मित्यादि, एकेन्द्रियाणामुत्कर्षतो द्वाविंशतिर्वर्षसहस्रानि स्थितिस्तत्रासौ प्रथमसमये सर्वबन्धकः शेषकालं देशबन्ध इत्येवं समयोनानि द्वाविंशतिर्वर्षसहस्राण्येकेन्द्रियाणामुत्कर्षतो देशबन्धकाल इति । 119 || ‘पुढविक्काइए’त्यादि, ‘देसबंधे जहन्त्रेणं खुड्डागं भवग्गहणं तिसमयऊणं' ति, कथम् ?, औदारिकशरीरिणां क्षुल्लकभवग्रहणं जघन्यतो जीवितं, तच्च गाथाभिर्निरूप्यते“दोन्नि सयाइं नियमा छप्पन्नाइं पमाणओ होंति । आवलियपमाणेणं खुड्डागभवग्गहणमेयं ॥ पणसट्ठि सहस्साइं पंचेव सयाइं तह य छत्तीसा । खुड्डागभवग्गहणा हवंति अंतोमुहत्तेणं ॥ सत्तरस भवग्गहणा खुड्डागा हुंति आणुपाणंमि । तेरस चेव सयाइं पंचानउयाइं अंसाणं ॥ इहोक्तलक्षणस्य ६५५३६ मुहूर्त्तगतक्षुल्लकभवग्रहणराशेः सहस्रत्रयशतसप्तकत्रिसप्तिलक्षणेन ३७७३ मुहूर्त्तगतोच्छसराशिना भागे हृते यल्लभ्यते तदेकत्रोच्छसे क्षुल्लकभवग्रहणपरिमाणं भवति, तच्च सप्तदश, अवशिष्टस्तूक्तलक्षणोऽशराशिर्भवतिति, अयमभिप्रायः येषामंशानां त्रिभिः सहस्रैः सप्तभिश्च त्रिसप्तत्यधिकशतैः क्षुल्लकभवग्रहणं भवति तेषामंशानां पञ्चनवत्यधिकानि त्रयोदश शतानि अष्टादशस्यापि क्षुल्लकभवग्रहणस्य तत्र भवन्तीति, तत्र यः पृथिवीकायिकसिमयेन विग्रहेणागतः स तृतीयसमये सर्वबन्धकः शेषेषु देशबन्धको भूत्वा आक्षुल्लकभवग्रहणं मृतः, मृतश्च सन्नविग्रेहनागतो यदा तदा सर्वबन्धक एव भवतीति, एवं च ये ते विग्रहसमयायस्तैरूनं क्षुल्लकमित्युच्यते । Jain Education International ॥२॥ ॥३॥ For Private & Personal Use Only www.jainelibrary.org
SR No.003309
Book TitleAgam Suttani Satikam Part 05 Bhagvati
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy