________________
४१९
शतकं-८, वर्ग:-, उद्देशकः-८
ओभासइ अनोगाढं ओभासइ ?, गोयमा ! ओगाढं ओभासाइ नो अनोगाढ' मित्यादि 'तं भंते! कतिदिसिं ओभासेइ ?, गोयमा !' इत्येतदन्तमिति । 'उज्जोवेति' त्ति 'उद्घोतयतः' अत्यर्थं द्योतयतः 'तवंति’त्ति तापयतः उष्णंरश्मित्वात्तयोः 'भासंति' त्ति भासयतः शोभयत इत्यर्थः ।
उक्तमेवार्थं शिष्यहिताय प्रकारान्तरेणाह - 'जंबू' इत्यादि, 'किरिया कज्जइ' त्ति अवभासनादिका क्रि या भवतीत्यर्थः 'पुट्ठ' त्ति तेजसा स्पृष्टात्-स्पर्शनाद् या सा स्पृष्टा 'एगं जोयणसयं उड्ड तवंति’त्ति स्वस्वविमानस्योपरि योजनशतप्रमाणस्यैव तापक्षेत्रस्य भावात् 'अट्ठारस जोयणसयाई अहे तवंति 'त्ति, कथं ?, सूर्यादष्टासु योजनशतेषु भूतलं भूतलाच योजनसहेऽ- धोलोकग्रामा भवन्ति तांश्च यावदुदद्योतनादिति, 'सीयालीस 'मित्यादि, एतच्च सर्वोत्कृष्टदिवसे चक्षुस्पशपेिक्षयाऽवसेयमिति ।
अनन्तरं सूर्यवक्तव्यतोक्ता, अथ सामान्येन ज्योतिष्कवक्तव्यामाह- 'अंतोणं भंते ' इत्यादि, 'जहा जीवाभिगमे तहेव निरवसेसं 'ति तत्र चेदं सूत्रमेवं- ' कप्पोववन्नगा विमाणोववन्नगा चारोवव्वनगा चारट्टिइया गइरइया गइसमावन्नगा ?, गोयमा ! ते णं देवा नो उड्डोववन्नगा नो कप्पोववन्नगा विमाणोववन्नगा चारोववन्नगा' ज्योतिश्चक्रचरणोपलक्षितक्षेत्रोपपन्ना इत्यर्थः 'नो चारट्ठिइया’इह चारो-ज्योतिषामवस्थानक्षेत्रं 'नो' नैव चारे स्थितिर्येषां ते तषा अत एव 'गइरइया' अत एव ‘गइसमावन्नगा’इत्यादि, कियद्दूरमिदं वाच्यम् ? इत्याह
‘जाव उक्कोसेणं छम्मास’त्ति इदं चैवं द्रष्टव्यम्- 'इंदट्ठाणे णं भंते! केवइयं कालं विरहिए उवावएणं' गोयमा! जहन्त्रेणं एक्कं समयं उक्कोसेणं छम्मास' त्ति, 'जही जीवाभिगमे त्ति, इदमप्येवं तत्र - 'जं चंदिमसूरियगहगण नक्खत्तरातारारूवा ते णं भंते! देवा किं उड्डोववन्नगा ?' इत्यादि प्रश्नसूत्रम्, उत्तरं तु 'गोयमा ! ते णं देवा नो उड्डोववन्नगा नो कप्पोववन्नगा विमाणोववन्नगा नो चारोववन्नगा चारट्ठिइया नो गइरइया नो गइसमावन्नगे'त्यादीति ।
शतकं - ८ उद्देशकः-८ समाप्तः
-: शतकं - ८ उद्देशक:- ९:
वृ. अष्टमोद्देशके ज्योतिषां वक्तव्यतोक्ता, सा च वैश्रसिकीति वैसिकं प्रोयोगिकं च बन्धं प्रतिपिपादयिषुर्नवमोद्देशकमाह, तस्य चेदमादिसूत्रम्
मू. (४२२) कइविहे णं भंते! बंधे पन्नत्ते ?, गोयमा ! दुविहे बंधे पन्नत्ते, तंजहापयोगबंधे य वीससाबंधे य ॥
वृ. 'कइविहे ण' मित्यादि 'बंधे 'ति बन्धः - पुद्गलादिविषयः सम्बन्धः 'पओगबंधे य'त्ति जीवप्रयोगकृतः 'वीससाबंधे य'त्ति स्वभावसंपन्नः ।
मू. (४२३) वीससाबंधे णं भंते! किंतिविहे पन्नत्ते ?, गोयमा ! दुविहे पन्नत्ते, तंजहासाइयवीससाबंधे अनाइवीससाबंधे य । अनाइयवीससाबंधे णं भंते! कतिविहे पन्नत्ते ?, गोयमा तिविहे पन्नत्ते, तंजहा-धम्मत्थिकाय अन्नमन्न अनादीयवीससाबंधे अधम्मत्थिकायअन्नमन्नअनादीयवीससाबंधे आगासत्थिकाय अन्नमन्न अनादीयवीससाबंधे ।
धम्मत्थिकायअन्नमन्नअनादीयवीससाबंधे णं भंते! किं देसबंधे सव्वबंधे ?, गोयमा ! देसबंधे नो सव्वबंधे, एवं चेव अधम्मत्थिकायअन्मन्नअनादीयवीससाबंधेवि, एवमागासत्थिकाय
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org