________________
शतकं ८, वर्ग:-, उद्देशकः-८
बृहति भागे उपशान्ते शेषे चानुपशान्ते एव स्यात्, नपुंसकवेदं चासौ तेन सहोपशमयितुमुपक्रमते, ततश्च नपुंसकवेदोपशमावसरेऽनिवृत्तिबादरसम्परायस्य सतो दर्शनमोहस्य प्रदेशत उदयोऽस्ति न तुसत्तैव, ततस्तव्प्रत्ययो दर्शनपरीषहस्तस्यास्तीति ततश्चाष्टावपि भवन्तीति, सूक्ष्मसम्परायस्य तु मोहसत्तायामपि न परीषहहेतुभूतः सूक्ष्मोऽपि मोहनीयोदयोऽस्तीति न मोहजन्यपरीषहसम्भवः,
आह च
|| 9 ||
"मोहनिमित्ता अट्ठवि बायररागे परीसहा किह नु । किह वा सुहुमसरागे न होंति उवसामए सव्वे ॥ -आचार्य आह
॥२॥
सत्तगपरओ चियजेण बायरो जं च सावसेसंमि । मग्गिल्लंभि पुरिल्ले लग्गइ तो दंसणस्सावि ॥ लब्भइ पएसकम्मं पडुच्च सुहुमोदओ तओ अट्ठ । तस्स भनिया न सुहुमे न तस्स सुहुमोदओऽवि जओ ।।
॥३॥
यच्च सूक्ष्मसम्परायस्य सूक्ष्मलोभकिट्टिकानामुदयो नासौ परीषहहेतुर्लोभहेतुकस्य परीषहस्यानभिधानात्, यदि च कोऽपि कथञ्चिदसौ स्यात्तदा तस्येहात्यन्ताल्पत्वेनाविवक्षेति
४१७
'एगविहबंधगस्स' त्ति वेदनीयबन्धकस्येत्यर्थः, कस्य तस्य ? इत्यत आह- 'वीयरागछउमत्थस्स' त्ति उपशान्तमोहस्य क्षीणमोहस्य चेत्यर्थः एवं चेवे' त्यादि चतुर्दश प्रज्ञप्ता द्वादश पुनर्वेदयतीत्यर्थः, शीतोष्णयोश्चर्याशय्ययोश्च पर्यायेण वेदनादिति ।
अनन्तरं परीषहा उक्तास्तेषु चोष्णपरीषहस्तद्धेतवश्च सूर्या इत्यतः सूर्यवक्तव्यतायां निरूपयन्नाह
मू. (४२१) जंबुद्दीवे णं भंते! दीवे सूरिया उग्गमणमुहुत्तंसि दूरे य मूले य दीसंति मज्झंतियमुहुत्तंसि मूले य दूरे य दीसंति अत्थमणमुहुत्तंसि दूरे य मूले य दीसंति ?, हंता गोयमा जंबुद्दीवे णं दीवे सूरिया उग्गमणमुहुत्तंसि दूरे य तं चैव जाव अत्थमणमुहुत्तंसि दूरे य भूले य दीसंति ।
जंबूद्दीवे णं भंते! दीवे सूरिया उग्गमण मुहुत्तंसि मज्झंसिय मुहुत्तंसिय अत्थमण मुहुत्तंसिय सव्वत्थ समा उच्चत्तेणं? हंता गोयमा ! जंबुद्दीवे णं दीवे सूरिया उग्गमण जाव उच्चत्तेणं
जइणं भंते! जंबुद्दीवे२ सूरिया उग्गमण मुहुत्तंसि य मज्झंतिय अत्थमणमुहुत्तंसि मूले जाव उच्चत्ते से केणं खाइ अट्टेणं भंते! एवं वुच्चइ जंबुद्दीवे णं दीवे सुरिया उग्गमणमुहुत्तंसि दूरे य मूले य दीसंति जाव अत्थमणमुहुत्तंसि दूरे य मूले य दीसंति ?, गोयमा लेसापडिधाएणं उग्गमणमुहुत्तंसि दूरे य मूले य दीसंति लेसाभितावेणं मज्झंतियमुहुत्तंसि मूले य दूरे य दीसंति लेस्सापिडघाएणं अत्थमणमुहुत्तंसि दूरे य मूले यदीसंति, से तेणट्टेणं गोयमा ! एवं बुच्चइ-जंबुद्दीवे णं दीवे सूरिया उगगमणमुहुत्तंसि दूरे य मूले य दीसन्ति जाव अत्थमण जाव दीसंति ।
जंबुद्दीवे णं भंते! दीवे सूरिया किं तीयं खेत्तं गच्छंति पडुप्पन्नं खेत्तं गच्छंति अनागयं खेत्तं गच्छंति ?, गोयमा ! नो तीयं खेत्तं गच्छंति पडुप्पन्नं खेत्तं गच्छंति नो अनागयं खेत्तं गच्छति,
5 27
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org