SearchBrowseAboutContactDonate
Page Preview
Page 419
Loading...
Download File
Download File
Page Text
________________ ४१६ भगवतीअगसूत्रं ८/-1८/४२० अबंधगस्सणंभंते! अजोगिभवत्थकेवलिस्स कतिपरीसहापन्नत्ता?, गोयमा! एकारस परीसहा पन्नत्ता, नव पुण वेदेइ, जंसमयंसीयपरीसहं वेदेतिनोतंसमयं उसिणपरीसहं वेदेइजं समयं उसिणपरीसहं वेदेति नो तं समयं सीयपरीसहं वेदेइ, जं समयं चरियपरीसहं वेदेइ नो तं समयं सेज्जापरीसहं वेदेतिजं समयं सेजापरिसहं वेदेइ नो तं समयंचरियापरीसहं वेदेइ ॥ वृ. 'एगेअलाभपरीसहे समोयरतित्तिअलाभपरीषहएवान्तराये समवतरति, अन्तयारं चेह लाभान्तरायं, तदुदय एव लाभाभावात्, तदधिसहनंच चाारित्रमोहनीयक्षयोपशम इति ॥ अथ बन्धस्थानान्याश्रित्यपरीषहान् विचारयन्नाह- ‘सत्तविहे'त्यादि, सप्तविधबन्धकः-आयुर्वजशेषकर्मबन्धकः 'जंसमयंसीयपरीसह'मित्यादि, यत्रसमयेशीतपरीषहं वेदयतेनतत्रोष्णपरीसहं,शीतोष्णयोः परस्पकमत्यन्तविरोधेनैकदैकत्रासम्भवात्, अथ यद्यपि शीतोष्णयोरेकदैकत्रासम्भवस्तथाऽप्यात्यन्तिके शीते तताविधाग्निसन्निधौ युगपदेवैकस्य पुंस एकस्यां दिशि शीतमन्यस्यांचोष्णमित्येवंद्वयोरपिशीतोष्णपरीषहयोरस्तिसम्भवः, नैतदेवं, कालकृतशीतोष्णाश्रयत्वादधिकृतसूत्रस्यैवंविधव्यतिकरस्य वा प्रायेण तपस्विनामभावादिति। तथा 'जंसमयंचरियापरीसह मित्यादितत्रचर्या-ग्रामादिषुसंचरणनैषेधिकीच-ग्रामादिषु प्रतिपन्नमासकल्पादेः स्वाध्यायादिनिमित्तं शय्यातो विविक्त तरोपाश्रये गत्वा निषदनम्, एवं चानयोर्विहारावस्थानरूपत्वेन परस्परविरोधान्नैकदा सम्भवः, अथ नैषेधिकीवच्छय्याऽपिचर्यया सह विरुद्धेतिनतयोरेकदासम्भवस्ततैश्चकोनविंशतेरेव परीषहाणामुत्कर्षेणैकदा वेदनंप्राप्तमिति, नैवं,यतोग्रामादिगमनप्रवृत्तौयदा कश्चिदौत्सुक्यादनिवृत्ततत्परिणाम एव विश्रामभोजनाद्यर्थःमित्वरशय्यायांवर्ततेतदोभयमप्यविरुद्धमेव, तत्त्वतश्चर्यायाअसमाप्तत्वाआश्रयस्यचाश्रयणादिति, यद्येवं तर्हि कथं षविधबन्धकमाश्रित्य वक्ष्यति - 'जंसमयंचरियापरीसहंवेएतिनोतंसमयंसेज्जापरिसहं वेएइ'इत्यादीति?,अत्रोच्यते, षड्विधबन्धको मोहनीयस्या विद्यमानकल्पत्वात् सर्वत्रौत्सुक्याभावेन शय्याकाले शय्यायामेव वर्त्तते न तु बादररागवदौत्सुक्येन विहारपरिणामाविच्छेदाच्चर्यामपि, अतस्तदपेक्षया तयोः परस्परविरोधाधुगपदसम्भवः, ततश्च साध्वेव 'जं समयं चरिए त्यादीति। 'छविहबंधे'त्यादि, षविधबन्धकस्यायुर्मोहवर्जानांबन्धकस्य सूक्ष्मसम्परायस्येत्यर्थः, एतदेवाह-'सरागछउमत्थस्से'त्यादि, सूक्ष्मलोभाणूनांवेदनात्सरागोऽनुत्पन्नकेवलत्वाच्छद्मस्थस्ततः कर्मधारयोऽतस्तस्य 'चोद्दसपरीसह'त्तिअष्टानां मोहनीयसम्भवानांतस्य मोहाभावेनाभावात्द्वाविंशतः शेषाश्चतुर्दशपरीषहा इति, ननु सूक्ष्मसम्परायस्य चतुर्दशानामेवाभिधानान्मोहनीयसम्भवानामष्टानासम्भवा इत्युक्तं, ततश्च सामर्थ्यादनिवृत्तिबादरसंपरायस्य मोहनीयसम्भवानामष्टानामपि सम्भवः प्राप्तः, कथं चैतद् युज्यते? यतो दर्शनसप्तकोपशमे बादरकषायस्य दर्शनमोहनीयोदयाभावेन दर्शनपरीषहाभावासप्तानामेव सम्भवो नाष्टानां, अथ दर्शनमोहनीयसत्तापेक्षयाऽसावपीष्यत इत्य,ष्टावेव तर्हि उपशमकत्वे सूक्ष्मसम्परायस्यापिमोहनीयसत्तासद्भावात्कथं तदुत्थाःसर्वेऽपिपरीषहानभवन्ति इति, न्यायस्य समानत्वादिति, अत्रोच्यते, यस्माद्दर्शनसप्तकोपशमस्योपर्येव नपुंसकवेदाधुपशमकालेऽनिवृत्तिबादरसम्परायो भवति, न चावश्यकादिव्यतिरिक्तग्रन्थान्तरमतेन दर्शनत्रयस्य Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003309
Book TitleAgam Suttani Satikam Part 05 Bhagvati
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy