SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ शतकं-१, वर्ग:-, उद्देशकः-१ ३९ जीवा अधीताः। 'जीवा णं भंते ! किं आयारंभा परारंभेत्यादिना दण्डकेन तथा सलेश्या जीवा अपि वाच्याः, सलेश्यानामसंसारसमापन्नत्वस्यासम्भवेन संसारसमापनेत्यादिविशेषणवर्जितानां शेषाणां संयतादिविशेषणानां तेष्वपि युज्यमानत्वात्, तत्र चायं पाठक्रमः-‘सलेसा णं भंते ! जीवा किं आयारंभे'त्यादि तदेव सर्वं, नवरं-जीवस्थाने सलेश्या इति वाच्यमिति, अयमेको दण्डकः, कृष्णादिलेश्याभेदात्तदन्येषट्, तदेवमेतेसप्त, तत्र 'कण्हलेसस्से'त्यादि, कृष्णलेश्यस्यनीललेश्यस्य कापोतलेश्यस्यचजीवराशेर्दण्डको यथा औधिकजीवदण्डकस्तथाऽध्येतव्यः-प्रमत्ताप्रमत्तविशेषणवर्जः, कृष्णादिषु हि अप्रशस्तभावलेश्यासु संयतत्वं नास्ति, यच्चोच्यते-“पुव्वपडिवण्णओ पुण अन्नयरीए उ लेसाए"त्ति, तव्यलेश्यां प्रतीत्येति मन्तव्यं, ततस्तासु प्रमत्ताद्यभावः, तत्र सूत्रोच्चारणमेवम् “कण्हलेसाणं भंते ! जीवा किं आयारंभा परारंभा तदुभयारंभा अनारंभा ४?, गोयमा आयारंभाविजाव नो अनारंभा, से केणतुणं भंते! एव वुच्चइ?, गोयमा! अविरइं पडुच्च" एवं नीलकापोतलेश्यादण्डकावपीति, तथा तेजोलेश्यादेजीवराशेर्दण्डकाः ३यथाऔधिकाजीवास्तथा वाच्याः, नवरं तेषु सिद्धा न वाच्याः, सिद्धानामलेश्यत्वात्, तच्चैवम्-'तेउवेस्साणं भंते ! जीवा किंआयारंभा४?, गोयमा! अत्थेगइया आयारंभाविजाव नोअनारंभा, अत्थेगइया नोआयारंभा जावअनारंभा, से केणटेणंभंते! एवं वुच्चइ?, गोयमा! दुविहा तेउलेस्सा पन्नत्ता, तंजहासंजया च असंजया ये'त्यादि। भवहेतुभूतमारम्भं निरूप्य भवाभावहेतुभूतं ज्ञानादिधर्मकदम्बकं निरूपयन्नाह मू. (२३) इहभविए भंते! नाणेपरभविए नाणेतदुभयभविएनाणे?, गोयमा! इहभविएवि नाणे परभविएवि नाणे तदुभयभविएवि नाणे । दसणंपि एवमेव । इहभविए भंते ! चरित्ते परभविए चरित्ते तदुभयभविए चरित्ते?, गोयमा ! इहभविए चरिते नो परभविए चरिते नो तदुभयभविए चरित्ते। एवं तवे संजमे । वृ. 'इहभविए'इत्यादि व्यक्तं, नवरम्-इह भवे वर्तमानजन्मनि यद्वर्त्तते न तु भवान्तरे तदेहभविकं, काकुपाठाच्चेह प्रश्नताऽवसेया, तेन किमैहभविकं ज्ञानमुत ‘परभविए'त्ति परभवेवर्तमानानन्तरभाविन्यनुगामितया यद्वर्त्तते तत्पारभविकम्, आहोश्वित् 'तदुभयभविए'त्ति तदुभयरूपयोः-इहपरलक्षणयोर्भवयोर्यदनुगामितया वर्तते तत्तदुभयभविकम्, इदं चैवंनपारभविकाद्भिद्यत इति परतरभवेऽपि यदनुयाति तद्ग्राह्यम्, इहभवव्यतिरिक्तत्वेन परतरभवस्यापि परभवत्वात्, ह्रस्वतानिर्देशश्चेह सर्वत्र प्राकृतत्वादिति प्रश्नः, निर्वचनमपि सुगमं, नवरम् 'इहभविए'त्ति ऐहभविकं यदिहाधीतं नानन्तरभवेऽनुयाति, पारभविकं यदनन्तरभवेऽनुयाति, तदुभयभविकं तु यदिहाधीतं परभवे चानुवर्तत इति । ___ 'दसणंपि एवमेव'त्ति दर्शनमहि सम्यक्त्वमवसेयं, मोक्षमार्गाधिकारात्, यदाह “सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्गः" यत्रतुज्ञानदर्शनयोरेवग्रहणं स्यात्तत्र दर्शनं सामान्यावबोधरूपमवसेयमिति । एवमेवेति ज्ञानवत्प्रश्ननिर्वचनाभ्यांसमवसेयं, चारित्रसूत्रे निर्वचने विशेषः, तथाहि-चारित्रमैहभविकमेव, न हि चारित्रवानिह भूत्वा तेनैव चारित्रेण पुनश्चारित्री भवति, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003309
Book TitleAgam Suttani Satikam Part 05 Bhagvati
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy