________________
भगवती अङ्गसूत्रं १/-/१/२३
यावज्जीवताऽ-वधिकत्वात्तस्य, किञ्चचारित्रिणः संसारे सर्वविरतस्य देशविरतस्य च देवेष्वेवोत्पादात् तत्र च विरतेरत्यन्तमभावात् मोक्षगतावपि चारित्रसंभवाभावात्, चारित्रं हि कर्मक्षपणायानुष्ठीयते मोक्षेच तस्याकिञ्चित्करत्वात् यावज्जीवमिति प्रतिज्ञासमाप्तेः तदन्यस्याश्चाग्रहणाद् अनुष्ठानरूपत्वात् चारित्रस्य शरीराभावे च तदयोगाद्, अत एवोच्यते- 'सिद्धे नोचरित्ती नोअचरित्ती' 'नो अचरित्ती' ति चाविरतेरभावादिति ।
४०
अनन्तरं चारित्रमुक्तं, तच्च द्विधा तपःसंयमभेदादिति, तयोर्निरूपणायातिदेशमाह- 'एवं तवे संजमे’त्ति प्रश्ननिर्वचनाभ्यां चारित्रवत्तपःसंयमौ वाच्यौ, चारित्ररूपत्वात्तयोरिति । ननु सत्यपि ज्ञानादेर्मोक्षहेतुत्वे दर्शन एव यतिव्यं, तस्यैव मोक्षहेतुत्वात्, यदाह
119 11
"भट्टेण चरित्ताओ सुठुयरं दंसणं गहेयव्वं ।
सिज्झंति चरणरहिया दंसणरहिया न सिज्झंति ॥
-इति यो मन्यते तं शिक्षयितुं प्रश्नयन्नाह
मू. (२४) असुंवडे णं भंते! अनगारे किं सिज्झइ बुज्झइ मुच्चइ परिनिव्वाइ सव्वदुक्खाणमंतं करेइ ?, गोयमा ! नो इणठ्ठे समट्टे । से केणट्टेणं जाव नो अंतं करेइ ?, गोयमा असंवुडे अनगारे आउयवज्जाओ सत्त कम्मपगगडीओ सिढिलबंधणबद्धाओ धणियबंधणबद्धाओ पकरेइ हस्सकालठिइयाओ दीहकालिट्ठियाओ पकरेइ मंदाणुभावो तिव्वाणुभावाओ पकरेइ अप्पपएसग्गाओ बहुपएसग्गाओ पकरेइ आउयं च णं कम्मं सियबंधइ सिय नो बंधइ अस्सायावेणिज्जं चणं स्मं भुजो भुज्जोउवचिणाइ अणाइयं चणं अणवदग्गं दीहमद्धं चाउरंतसंसारकंतारं अणुपरियट्टइ, से एएणट्टेणं गोयमा ! असंवुडे अनगारे नो सिज्झइ ५ ।
संवुडे णं भंते! अनगारे सिज्झइ ५ ?, हंता सिज्झइ जाव अंतं करेइ, से केणट्टेणं ?, गोयमा ! संवुडे अनगारे आउयवज्जाओ सत्त कम्मपगडीओ धणियबंधणबद्धाओ सिढिलबंधणबद्धाओ पकरेइ दीहकालठिईयाओ हस्सकालठ्ठिइयाओ पकरेइ तिव्वाणुभावाओ मंदाणुभावाओ पकरेइ बहुप्पएसग्गाओ अप्पपएसग्गाओ पकरेइ, आउयं च गं कम्मं न बंधइ, अस्सायावेयणिज्जं च णं कम्मं नो भुज्जो भुज्जो उवचिणाइ, अनाइयं च णं अनवदग्गं दीहमद्धं चाउरंतसंकसारकंतारं वीइवयइ, से एएणट्टेणं गोयमा ! एवं वुच्चइ-संवुडे अनगारे सिज्झइ जाव अंतं करेइ ॥
वृ. 'असंवुडे ण' मित्यादि व्यक्तं, नवरम् 'असंवुडेणं' ति 'असंवृतः' अनिरुत्थाश्रवद्वारः 'अनगारे' त्ति अविद्यमानगृहः, साधुरित्यर्थः 'सिज्झइ 'त्ति 'सिध्यति' अवाप्तचरमभवतया सिद्धिगमनयोग्यो भवति ‘बुज्झइ’त्ति स एव यदा समुत्पन्नकेवलज्ञानतया स्वपरपर्यायोपेतान्निखि-लान् जीवादिपदार्थान् जानाति तदा बुध्यत इति व्यपदिश्यते 'मुच्चइ' त्ति स एव संजातकेवलबोधो भवोपग्राहिकर्म्मभिः प्रतिसमयं विमुच्यमानो मुच्यत इत्युच्यते 'परिनिव्वाइ' त्ति स एव तेषां कर्मपुद्गलानामनुसमयं यथा यथा क्षयमाप्नोति तथा तथा शीतीभवन् परिनिर्वातीति प्रोच्यते 'सव्वदुक्खाणमंतं करेइ' त्ति स एव चरमभवायुषोऽन्तिमसमये क्षपिताशेषकर्मांशः सर्वदुःखानामन्तं करोतीति भण्यते इति प्रश्नः, उत्तरं तु कण्ठ्यं, नवरं 'नो इणट्टे समठ्ठे' त्ति 'नो' नैव 'इणट्टे' त्ति ‘अयम्’ अनन्तरोक्तत्वेन प्रत्यक्षः 'अर्थ' भवः 'समर्थ' बलवान्, वक्ष्यमाणदूषणमुद्गरप्रहारजर्जरितत्वात् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org