________________
भगवती अङ्गसूत्रं १/-/१/२२
नमारभन्ते आत्मना वा स्वयमारभन्त इत्यात्मारम्भाः, तथा परमारभनते परेण वाऽऽरम्भयतीति परारम्भाः, तदुभयम्-आत्मपररूपं, तदुभयेन वाऽऽरम्भन्त इति तदुभयारम्भाः, आत्मपरोभारम्भवर्जितास्त्वनारम्भा इति प्रश्नः, अत्रोत्तरं स्फुटमेव, नवरम् अस्तिशब्दस्याव्ययत्वेन बहुत्वार्थत्वाद् 'अस्ति' विद्यन्ते सन्तीत्यर्थः, अथवाऽस्ति अयं पक्षो यदुत 'एगइय'त्त एकका एके केचनेत्यर्थ जीवाः, आत्मारम्भा अपीत्यादावपिशब्द उत्तरपदापेक्षया समुच्चये, स चात्मारम्भत्वादिधर्माणा - मेकाश्रयताप्रतिपादनार्थ भिन्नाश्रयताप्रतिपादनार्थो वा एकाश्रयत्वं च कालभेदेनावगन्तव्यं, तथाहिकदाचिदात्मारम्भाः कदाचित्परारम्भाः कदाचित्तदुभयारम्भाः, अत एव नो अनारम्भाः, भिन्नाश्रयत्वं त्वेवम्-एके जीवा असंयता इत्यर्थः आत्मारम्भा वा परारम्भा वेत्यादि ।
अथैकस्वभावत्वाज्जीवानां भेदमसंभावयन्नाह 'से केणट्टेणं' ति अथ केन कारणेनेत्यर्थः, 'दुविहा पन्नत्त' त्ति मयाऽन्यैश्च केवलिभिः, अनेन समस्तसर्वविदां मताभेदमाह, मतभेदे तु विरोधिवचनतया तेषामसत्यवचनतापत्तिः, पाटलीपुत्रस्वरूपभिधायकविरुद्धवचनपुरुष- कदम्बकवदिति, प्रमत्तसंयतस्य हि शुभोऽशुभश्च योगः स्यात् संयतत्वात्प्रमादपरत्वाच्च इत्यत आह- 'सुभं जोगं पडुच्च' त्ति शुभयोगः-उपयुक्ततया प्रत्युपेक्षणादिकरण, अशुभयोगस्तु तदेवानुपयुक्ततया,
आह च
३८
॥ १ ॥
तथा "सव्वो पमत्तजोगो समणस्स उ होइ आरंभो” । त्ति अतः शुभाशुभौ योगावात्मा (ना) रम्भादिकारणमिति । 'अविरइं पडुच्च' त्ति, दहायं भावः यद्यप्यसंयतानां सूक्ष्मैकेन्द्रियादीनां नात्मारम्भकादित्वं साक्षादस्ति तथाऽप्यविरतिं प्रतीत्य तदस्ति तेषां न हि ते ततो निवृत्ताः, अतोऽसंयतानामविरतिस्तत्र कारणमिति, निवृत्तानां तु कथञ्चिदात्माधारम्भकत्वेऽप्यनारम्भकत्वं,
यदाह
-
“पुढवी आउक्काए तेऊवाऊवणस्सइतसाणं । पडिलेहणापमत्तो छण्हंपि विराहओ होइ ॥
119 11 “जा जयमाणस्स भवे विराहणा सुत्तविहिसमग्गस्स । साहो निजरफला अज्झत्थविसोहिजुत्तस्स ।।
‘से तेणट्टेणं’ति अथ तेन कारणेनेत्यर्थः । अथात्मारम्भकत्वादितवमेव नारकादिचतुर्विशतिदण्डकैर्निरूपयन्नाह - 'नेरइयाण' मित्यादि व्यक्तं, नवरं 'मणुस्से' त्यादौ अयमर्थ-मनुष्येषु संयतासंयतप्रमत्ताप्रन्तभेदाः पूर्वोक्ताः सन्ति ततस्ते यथा जीवास्तथाऽध्येतव्याः किन्तु संसारसमापन्नाः, इतरे च ते न वाच्याः, अभववर्तित्त्वादेव तेषामिति, एतदेवाह 'सिद्धविरहिए' इत्यादि व्यन्तरादयो यथा नारकास्तथाऽध्येयाः, असंयतत्व - साधर्म्यादिति ।
आत्मारम्भकत्वादिभिर्द्धर्मैर्जीवा निरूपिताः ते च सलेश्याश्चालेश्याश्च भवन्ति सलेश्यांस्तांस्तैरेव निरूपयन्नाह-‘सलेसा जहा ओहिय'त्ति, लेश्या-कृष्णादिद्रव्यसान्निध्यजनितो जीवपरिणामो, यदाह
119 11
“कृष्णादिद्रव्यसाचिव्यात्, परिणामो य आत्मनः । स्फटिकस्येव तत्रायं, लेश्याशब्द प्रयुज्यते ॥
तत्र 'सलेश्याः' लेश्यावन्तो जीवाः 'जहा ओहिय'त्ति यथा नारकादिविशेषणवर्जिता
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org