________________
४०८
भगवतीअङ्गसूत्रं ८/-14/४१२
ज्ञानादीन् प्रति प्रत्यनीकः तेषां वितथप्ररूपणतो दूषणतो वा, यथा॥१॥ “पाययसुत्तनिबद्धं को वा जाणइ पणीय केणेयं ।
किंवा चरणेणं तु दाणेण विणा उ हवइत्ति॥" एतेचप्रत्यनीकाअपुनःकरणेनाभ्युत्थिताःशुद्धिमर्हन्तिशुद्धिश्चव्यवहारादितिव्यवहारप्ररूपणायाह
मू. (४१३) कइविहेणं भंते ! ववहारे पन्नते?, गोयमा! पंचविहे ववहारे पन्नत्तेतंजहाआगमे सुत्तंआणा धारणा जीए, जहा से तत्थ आगमे सिया आगमेणं ववहारं पट्ठवेजा, नो य से तत्थ आगमे सिया जहा से तत्थ सुते सिया सुएणं ववहारं पट्टवेज्जा, नो वा सेतत्थ सुएसिया जहा से तत्थ आणा सिया आणाए ववहारं पट्टवेजा, नो य से तत्थ आणा सिया जहा से तत्थ धारणा सिया धारणाएणं ववहारं पट्टवेज्जा, नो य से तत्थ धारणा सियाजहा से तत्थ जीए सिया जीएणं ववहारं पट्टवेजा, इच्चेएहिं पंचहिं ववहारं पट्टवेजा, तंजहा
आगमेणं सुएणं आणाए धारणाए जीएणं, जहा २ से आगमे सुए आणा धारणा जीए तहा २ ववहारं पट्टवेजा।
से किमाहुभंते!, आगमबलिया समणा निग्गंथा इच्छेतं पंचविहं ववहारंजया २ जहिं २ तहा २ तहिं २ अनिस्सिओवसितं सम्मंववहरमाणे समणे निग्गंथे आणाए आराहए भवइ।
वृ. 'कइविहेण मित्यादि, व्यवहरणं व्यवहारो-मुमुक्षुप्रवृत्तिनिवृत्तिरूपः इहतुतन्निबन्धनत्वात् ज्ञानविशेषोऽपि व्यवहारः, तत्रागम्यन्ते-परिच्छिद्यन्ते अर्था अनेनेत्यागमः-केवलमनः पर्यायावधिपूर्वचतुर्दशकदशकनवकरूपः, तथा श्रुतं शेषमाचारप्रकल्पादि, नवादिपूर्वाणांच श्रुतत्वेऽप्यतीन्द्रियार्थेषु विशिष्टज्ञानहेतुत्वेन सातिशयत्वादागमव्यपदेशः केवलवदिति, तथाऽऽज्ञा-यदगीतार्थःस्यपुरतो गूढार्थःपदैर्देशान्तरस्थगीतार्थःनिवेदनायातीचारालोचनंइतरस्यापि तथैव शुद्धिदानं, तथा धारणा-गीतार्थःसंविग्नेन द्रव्याद्यपेक्षया यत्रापराघे यथा या विशुद्धि कृता तामवधारय यदगुप्तमेवालोचनदानतस्तत्रैव तथैवतामेव प्रयुङ्क्ते इति वैयावृत्यकरादेर्वा गच्छोपग्रहकारिणोऽशेषानुचितस्य प्रायश्चित्तपदानां प्रदर्शितानांधरणमिति, तथाजीतंद्रव्यक्षेत्रकालभावपुरुषप्रतिसेवानुवृत्या संहननधृत्यादिपरिहानिमवेक्ष्य यत् प्रायश्चित्तदानं यो वा यत्र गच्छे सूत्रातिरिक्तः कारणतः प्रायश्चित्तव्यवहारः प्रवर्तितो बहुभिरन्यैश्चानुवर्तित इति ।
आगमादीनां व्यापारणे उत्सर्गापवादावाह-“जहे'त्यादि, यथेति यथाप्रकारः केवलादीनामन्यतमः ‘से' तस्य व्यवहर्तुं स चोक्तलक्षणो व्यवहारः 'तत्र' तेषु पञ्चसु व्यवहारेषु मध्ये तस्मिन् वा प्रयाश्चित्तदानादिव्यवहारकाले व्यवहर्तव्ये वा वस्तुनि विषये 'आगमः'केवलादि 'स्यात्' भवेत् ताद्दशेनेति शेषः आगमेन 'व्यवहार' प्रायश्तित्तदानादिकं 'प्रस्थापयेत्' प्रवर्तयेत् नशेषैः आगमेऽपिषड्विधे केवलेनावन्ध्यबोधतिवात्तस्य, तदभावेमनःपर्यायेण, एवं प्रधानतराभावे इतरेणेति।
अथ 'नो' नैव चशब्दो यदिशब्दार्थः 'से' तस्य स वा तत्र व्यवहर्त्तव्यादावागमः स्यात्, 'यथा' यत्प्रकार से' तस्य तत्रव्यवहर्त्तव्यादौ श्रुतंस्यात् ताद्दशेन श्रुतेन व्यवहारप्रस्थापयेदिति, 'इच्चेएहिं'इत्यादि निगमनं सामान्येन, 'जहा जहा से' इत्यादि तु विशेषनिगमनमिति।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org