________________
शतकं ८, वर्ग:-, उद्देशकः-६
४०३
'मणुस्से जहा जीवे 'ति जीवपदे इव मनुष्यपदेऽक्रियत्वमपि वाच्यमित्यर्थः, जीवपदे मनुष्यसिद्धापेक्षयैवाक्रियत्वस्याधीतत्वादिति, 'ओरालियसरीरेहिंतो' त्ति औदारिकशरीरेभ्य इत्येवं बहुत्वापेक्षोऽयमपरो दण्डकः, एवमेतौ जीवस्यैकत्वेन द्वी दण्डकी, एवमेव च जीवस्य बहुत्वेनापरी द्वौ, एवमौदारिकशरीरापेक्षया चत्वारो दण्डका इति ।
'जीवेण’मित्यादि, जीवः परकीयं वैक्रियशरीरमाश्रित्य कतिक्रियः ?, उच्यते, स्यात्त्रिक्रिय इत्यादि, पञ्चक्रियश्चेह नोच्यते, प्राणातिपातस्य वैक्रियशरीरिणः कर्तुमशक्यत्वाद्, अविरतिमात्रस्य चेहाविवक्षितत्वाद्, अत एवोक्तं- 'पंचमकिरिया न भन्नइ'त्ति, 'एवं जहा वेउब्वियं तहा आहारयंपि तेयगंपि कम्मगंपि भानियव्वं'ति, अनेनाहारकादिशरीरत्रयमप्याश्रित्य दण्डकचतुष्टयेन नैरयिकादिजीवानां त्रिक्रियत्वं चतुष्क्रियत्वं चोक्तं पञ्चक्रियत्वं तु निवारितं, मारयितुमशक्यत्वात्तस्येति, अथ नारकस्याधोलोकवर्त्तित्वादाहारकशरीरस्य च मनुष्यलोकवर्त्तित्वेन तत्क्रियाणामविषयत्वात् कथमाहारकशरीरमाश्रित्य नारकः स्यात्त्रिक्रियः स्याच्चतुष्क्रिय इति ०
अत्रोच्यते, यावत्पूर्वशरीरमव्युत्सृष्टं जीवनिर्वर्त्तितपरिणामं न त्यजति तावत्पूर्वभावप्रज्ञापनानयमतेन निर्वर्त्तकजीवस्यैवेति व्यपदिश्यते घृतघटन्यायेनेत्यतो नारकपूर्वभवदेहो नारकस्यैव तद्देशेन च मनुष्यलोकवर्त्तिनाऽस्थ्यादिरूपेण यदाहारकशरीरं स्पृश्यते परिताप्यते वा तदाहारकदेहान्नारकस्त्रिक्रियश्चतुष्क्रियो वा भवति, कायिकीभावे इतरयोरवश्यंभावात्, पारितापनिकीभावे चाद्यत्रयस्यावश्यंभावादिति । एवमिहान्यदपि वि (तद्विषयमवगन्तव्यं, यच्च तैजसकार्म्मणशरीरापेक्षया जीवानां परितापकत्वं तदौदारिकाद्याश्रितत्वेन तयोरवसेयं, स्वरूपेण तयोः परितापयितुमशक्यत्वादिति ॥
शतकं-८ उद्देशकः-६ समाप्तः
-: शतकं-८ उद्देशकः-७:
वृ. षष्ठोद्देशके क्रियाव्यतिकर उक्त इति क्रियाप्रस्तावात् सप्तमोद्देशके प्रद्वेषक्रियानिमित्तकोऽन्ययधिकविवादव्यतिकर उच्यते, इत्येवं सम्बन्धस्यास्येदमादिसूत्रम्
मू. (४१०) तेणं कालेणं २ रायगिहे नगरे वन्नओ, गुणसिलए चेइए वनओ, जाव पुढविसिलावट्टओ, तस्स णं गुणसिलस्स चेइयस्स अदूरसामंते बहवे अन्नउत्थिया परिवसंति, तेणं कालेणं २ समणे भगवं महावीरे आदिगरे जाव समोसढे जाव परिसा पडिगया, तेणं कालेणं २ समणस्स भगवओ महावीरस्स बहवे अंतेवासी थेरा भगवंतो जातिसंपन्ना कुलसंपन्ना जहा बितियसए जाव जीवियासामरणभयविप्पमुक्का समणस्स भगवओ महावीरस्स अदूरसामंते उहुंजाणू अहोसिरा झाणकोट्ठोवगया संजमेणं तवसा अप्पाणं भावेमाणा जाव विहरति ।
तए णं ते अन्नउत्थिया जेणेव थेरा भगवंतो तेणेव उवागच्छंति २ त्ता ते थेरे भगवंते एवं वयासीतुब्भे णं अज्जो ! तिविहं तिविहेणं अस्संजयअविरयअप्पडिहय जहा सत्तमसए बितिए उद्देसए जाव एगंतबाले यावि भवह, तए णं ते थेरा भगवंतो ते अन्नउत्थिए एवं वयासी-केण कारणेणं अज्झो ! अम्हे तिविहं तिविहेणं अस्संजयअविरय जाव एगंतबाला यावि भवामो ।.. तणं ते अन्नउत्थिया ते धेरे भगवंते एवं वयासी-तुब्भे णं अज्जो ! अदिन्नं गेण्हह अदिन्नं भुंजह अदिन्नं सातिज्जह, तए णं ते तुब्भे अदिन्नं गेण्हमाणा अदिन्नं भुंजमाणा अदिन्नं सातिज्ञ्जमाणा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org