SearchBrowseAboutContactDonate
Page Preview
Page 401
Loading...
Download File
Download File
Page Text
________________ भगवती अङ्गसूत्रं ८/-/६/४०५ ३९८ कम्मे कजइ । समणोवासगस्स णं भंते! तहारूवं अस्संजयअविरयपडिहयपञ्चक्खायपावकम्मं फासुएण वा अफासुएण वा एसनिज्ज्रेण वा अनेसनिजेव वा असनपान जाव किं कज्जइ ?, गोयमा ! एगंतसो से पावे कम्मे कज्जइ नत्थि से काइ निजरा कज्जइ ॥ वृ. 'समणे' त्यादि, 'किं कज्जइ' त्ति किं फलं भवतीत्यर्थः, 'एगंतसो 'त्ति एकान्तेन तस्य श्रमणोपासकस्य, 'नत्थि य से त्ति नास्ति चैतद् यत् 'से' तस्य पापं कर्म 'क्रियते' भवति अप्रासुकदाने इवेति, 'बहुतरिय 'त्ति पापकर्म्मापेक्षया 'अप्पतराए' त्ति अल्पतरं निर्जरापेक्षया, अयमर्थः - गुणवते पात्रायाप्रासुकादिद्रव्यदाने चारित्रकायोपष्टम्भो जीवघातो व्यवहारतस्तच्चारित्रबाधा च भवति, ततश्च-चारित्रकायोपष्टम्भान्निर्जरा जीवघातादेश्च पापं कर्म्म, तत्र च स्वहेतुसामर्थ्यात्पापापेक्षया बहुतरा निर्जरा निर्जरापेक्षया चाल्पतरं पापं भवति, इह च विवेचका मन्यन्ते - असंस्तरणादिकारणत एवाप्रासुकादिदाने बहुतरा निर्जरा भवति नाकारणे, यत् उक्तम् 119 11 “संथरणंमि असुद्धं दोण्हवि गेण्हंतदिंतयाणऽहियं । आउरदिट्टंतेणं तं चैव हियं असंथरणे ॥” इति, अन्ये त्वाहुः-अकारणेऽपि गुणवत्पात्रायाप्रासुकादिदाने परिणामवशादबहुतरा निर्जरा भवत्यल्पतरं च पापं कर्मेति, निर्विशेषणत्वात् सूत्रस्य परिणामस्य च प्रमाणत्वात्, आह च119 11 “परमरहस्समिसीणं समत्तगनिपिडगझरियसाराणं । परिणामियं पमाणं निच्छयमवलंबमाणाणं ॥ यच्चोच्यते 'संथरणंमि असुद्ध 'मित्यादिनाऽशुद्धं द्वयोरपि दातृगृहीत्रोरहितायेति तद्ग्राहकस्य व्यवहारतः संयमविराघनात् दायकस्य च लुब्धकध्ष्टान्तभावितत्वेनाव्युत्पन्नत्वेन वा ददतः शुभाल्पायुष्कतानिमित्तत्वात्, शुभमपि चायुरल्पमहितं विवक्षया, शुभाल्पायुष्कतानिमित्तत्वं चाप्रासुकादिदानस्याल्पायुष्कताफलप्रतिपादकसूत्रे प्राक् चर्चितं, यत्पुनरिह तत्त्वं तत्केवलिगम्यमिति तृतीयसूत्रे 'अस्संजयअविरये' त्यादिनाऽगुणवान् पात्रविशेष उक्तः, 'फासुएण वा अफासुएण वा' इत्यादिना तु प्रासुकाप्रासुकादेर्दानस्य पापकर्मफलता निर्जराया अभावश्चोक्तः, असंयमोपष्टम्भस्योभयत्रापि तुल्यत्वात्, यश्च प्रासुकादौ जीवघाताभावेन अप्रासुकादौ च जीवघातसद्भावेन विशेषः सोऽत्र न विवक्षितः, पापकर्म्मणो निर्जराया अभावस्यैव च विवक्षितत्वादिति, सूत्रत्रयेणापि चानेन मोक्षार्थः मेव यद्दानं तच्चिन्तिनं, यत्पुनरनुकम्पादानमौचित्यदानं वा तन्न चिन्तितं, निर्जरायास्तत्रानपेक्षणीयत्वाद्, अनुकम्पौचित्ययोरेव चापेक्षणीयत्वादिति, उक्तञ्च“मोक्खत्थं जं दाणं तं पइ एसो विही समक्खाओ । अनुकंपादाणं पुण जिणेहिं न कयाइ पडिसिद्धं ।।" इति दानाधिकारादेवदमाह 119 11 मू. (४०६) निग्गंथं च णं गाहावइकुलं पिंडवायपडियाए अनुप्पविट्टं केई दोहिं पिंडेहिं उवनिमंतेज्जा- एगं आउसो ! अप्पणा भुंजाहि एगं घेराणं दलयाहि, से य तं पिण्डं पडिग्गहेज्जा, थेरा य से अनुगवेसियव्वा सिया जत्थेव अनुगेवसमाणे थेरे पासिज्जा तत्थेवाणुप्पदायव्वे सिया नो चेव णं अनुगवेसमाणे धेरे पासिज्जा तं नो अप्पणा भुंजेज्जा नो अन्नेसिं दावए एगंते अनावाए Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003309
Book TitleAgam Suttani Satikam Part 05 Bhagvati
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy