SearchBrowseAboutContactDonate
Page Preview
Page 398
Loading...
Download File
Download File
Page Text
________________ ३९५ शतकं-८, वर्गः-, उद्देशकः-५ कारकरणादिति, न चेह यथासङ्ख्यन्नायो न करोति मनसा न कारयति वचसा नानुजानाति कायेनेत्येवंलक्षणोऽनुसरणीयो, वक्तृविवक्षाऽधीनत्वात्सर्वन्यायानांवक्ष्यमाणविकल्पायोगाच्चेति, एवं त्रिविधं त्रिविधेनेत्यत्र विकल्पे एक एव विकल्पः तदन्येषु पुनर्द्वितीयतृतीयचतुर्थेषु त्रयः २ पञ्चमषष्ठ्योर्नव नवसप्तमे त्रयः अष्टमनवयमयोर्नव नवेति। ___ एवं सर्वेऽप्येकोनपञ्चाशत्, एवमियमतीतकालमाश्रित्य कृता करणकारणादियोजना, अथवैवमेषाऽतीतकाले मनःप्रभृतीनां कृतं कारितमनुज्ञातं वा वधं क्रमेण न करोति न कारयति नचानुजानाति तन्निन्देन तदनुमोदननिषेधतस्ततो निवर्तत इत्यर्थः, तन्निन्दनस्याभावे हि तदनुमोदनानिवृत्तेः कृतादिरसौ क्रियमाणादिरिवस्यादिति, वर्तमानकालं त्वाश्रित्य सुगमैव, भविष्यकालापेक्षया त्वेवमसौ-न करोतिमनसांतंहनिष्यामीत्यस्यचिन्तनात्, न कारयतिमनसैवतमहं घातयिष्यामीत्यस्यचिन्तनात्, नानुजानातिमनसाभाविनंमनसा भाविनंवधमनुश्रुत्य हर्षकरणात्, एवं वाचा कायेन च तयोस्तथाविधयोः करणादिति, अथचैवमेव भविष्यत्काले मनःप्रभृतिना करिष्यमाणं कारिष्यमाणमनुमंस्यमानं वा वघं क्रमेण न करोतिन कारयति न चानुजानाति ततो निवृत्तिमभ्युपगच्छतीत्यर्थः, सर्वेषांचैषां मीलने सप्तचत्वारिंशदधिकं भङ्गकशतं भवति । इह च त्रिविधं त्रिविधेनेति विकल्पमाश्रित्याक्षेपपरिहारौ वृद्धाक्तावेवम्॥१॥ “न करेइच्चाइतियं गिहिणो कह होइ देसविरयस्स? । भन्नइ विसयस्स बहिं पडिसेहो अनुमईएवि॥ ॥२॥ केई भणंति गिहिणो तिविहं तिविहेण नत्थि संवरणं । तंन जओ निद्दिह इहेव सुत्ते विसेसेउं ।। ॥३॥ तो कह निज्जुत्तीए ऽनुमइनिसेहोत्ति? सो सविसयंमि। . सामनन्ने वऽन्नत्थ उ तिविहं तिविहेण को दोसो॥ इह च ‘सविसयंमि'त्ति स्वविषये यथानुमतिरस्ति ‘सामन्ने वत्ति सामान्ये वाऽविशेषे प्रत्याख्याने सति 'अन्नत्थ उत्ति विशेषे स्वयंभूरमणजलधिमत्स्यादौ । ॥१॥ "पुत्ताइसंतइनिमित्तमेत्तमेगारसिं पवन्नस्स। जपंति केइ गिहिणो दिक्खाभिमुहस्स तिविहंपि ।।" यथा च त्रिविधं त्रिविधेनेत्यत्राक्षेपपरिहारौ कृतौ तथाऽन्यत्रापि कार्यौ यत्रानुमतेरनुप्रवेशोऽस्तीति । अथ कथं मनसा करणादि ?, उच्यते, यथा वाक्काययोरिति, आह च॥१॥ “आह कहं पुण मणसा करणं कारावणं अनुमई य । जइ वइतणुजोगेहिं करणाई तह भवेमणसा ।। ॥२॥ तयहीणत्ता वइतणुकरणाईणं च अहव मणकरणं । सावज्जजोगमणणं पन्नत्तं वीयरागेहिं॥ ॥३॥ कारावण पुण मणसा चिंतेइ करेउ एस सावजं । चिंतेई य कए उण सुटु कयं अनुमई होइ ॥ इति इह च पञ्चस्वणुव्रतेषु प्रत्येकं सप्तचत्वारिंशदधिकस्य भङ्गशतस्य भावाद् भङ्गकानां सप्त शतानि पञ्चत्रिंशदधिकानि भवन्तीति । यत् स्थविराआजीविकैः श्रमणोपासकगतं वस्तु पृष्टाः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003309
Book TitleAgam Suttani Satikam Part 05 Bhagvati
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy