SearchBrowseAboutContactDonate
Page Preview
Page 393
Loading...
Download File
Download File
Page Text
________________ ३९० भगवती अङ्गसूत्रं ८/-/३/३९९ चरिमा अचरिमा ?, चरिमपदं निरवसेसं भानियव्वं जाव वेमानिया णं भंते! फासचरिमेणं किं चरिमा अचरिमा ?, गोयमा ! चरिभावि अचरिमावि । सेवं भंते ! २ ॥ वृ. ‘कइ ण’मित्यादि, तत्र 'इमा णं भंते! रयणप्पभापुढवी किं चरिमा अचरिमा ? ' इति, अथ केयं चमाचरमपरिभाषा ? इति, अत्रोच्यते, चरमं नाम प्रान्तं पर्यन्तवर्ति, आपेक्षिकं च चरमत्वं, यदुक्तम्- “अन्यद्रव्यापेक्षयेदं चरमं द्रव्यमिति, यथा पूर्वशरीरापेक्षया चरमं शरीर " मिति, तथा अचरमं ना अप्रान्तं मध्यवर्त्ति, आपेक्षिकं चचरमत्वं, यदुक्तम्- " -"अन्यद्रव्यापेक्षयेदंचरमं द्रव्यं, यथाऽन्त्यशरीरापेक्षया मध्यशरीरमिति, इह स्थाने प्रज्ञापनादशमं पदं वाच्यं, एतदेवाह'चरिमे' त्यादि, तत्र पदद्वयं दर्शितमेव, शेषु तु दर्श्यते- 'चरिमाई अचरिमाई चरिमंतपएसा अचरिमंतपएसा ?, गोयमा ! इमा णं रयणप्पभापुढवी नो चरिमा नो अचरिमा नो चरिमाई नो अचरिमाइं नोच रिमंतपएसा नो अचरिमंतपएसा नियमा अचरिमं चरमानि न य चरिमंतपएसा य अचरिमंतपएसा य' इत्यादि, तत्र किं चरिमा अचरिमा ? इत्येकवचनान्तः प्रश्नः 'चरिमाइं अचरिमाई' इति बहुवचनान्तः प्रश्नः, 'चरिमंतपएसा अचरिमंतपएस' त्ति चरिमाण्ये - वान्तवर्तित्वादन्ताश्चरिमान्तास्तेषां प्रदेशा इति समासः, तथाऽचरममेवान्तो- विभागोऽचरमान्तस्तस्य प्रदेशा अचरमान्तप्रदेशाः, गोयमा ! नो चरिमा नो अचरिमा चरमत्वं ह्येतदापेक्षिकम्, अपेक्षणीयस्याभावाच्च कथं चरिमा भविष्यति ?, अचरमत्वमप्यपेक्षयैव भवति ततः कथमन्यस्यापेक्षणीयस्याभावेऽचरमत्वं भवति ?, यदि हि रत्नप्रभाया मध्येऽन्या पृथिवी स्यात्तदा तस्याश्चरमत्वं युज्यते, न चास्ति सा, तस्मान्न चरमासौ, तथा यदि तस्या बाह्यतोऽन्या पृथिवी स्यात्तदा तस्या अचरमत्वं युज्यते न चास्ति सा तस्मान्नाचरमाऽसाविति, अयं च वाक्यार्थोऽत्र-किमियं रत्नप्रभा पश्चिमा उत मध्यमा ? इति तदेतद्वितयमपि यथा न संभवति तथोक्तम् । अथ 'नो चरिमाइं नो अचरिमाइं' ति कथं ?, यदा तस्याश्चरमव्यपदेशोऽपि नास्ति तदा चरमाणीति कथं भविष्यति ?, एवमचरमाण्यपि, तथा 'नो चरिमंतपएसा नो अचरिमंतपएस' त्ति, अत्रापि चरमत्वस्याचरमत्वस्य चाभावात्तत्प्रदेशकल्पनाया अप्यभाव एवेत्यत उक्तं-नो चरिमान्तप्रदेशा नोअचरिमान्तप्रदेशा रत्नप्रभा इति, किं तर्हि 'नियमात्' नियमेनाचरमंच चरमानि च, एतदुक्तं भवति- अवश्यंतयेयं केवलभङ्गवाच्या न भवति, अवयवावयविरूपत्वादसङ्घयेयप्रदेशावगाढत्वाद्यथोक्तनिर्वचनविषयैवेति । तथाहि रत्नप्रभा तावदनेन प्रकारेण व्यवस्थितेति विनयेजनानुग्रहाय लिख्यते, एवमनवस्थितायां यानि प्रान्तेषु व्यवस्थितानि तदध्यासितक्षेत्रखण्डानि तानि तथाविधविशिष्टैकपरिणामयुक्तत्वाच्चरमानि, यत्पुनर्मध्ये महद् रत्नप्रभाक्रान्तं क्षेत्रखण्डं तदपि तथा विधपरिणामयुक्तत्वाचरमं तदुभयसमुदायरूपा चेयमन्यथा तदभावप्रसङ्गात्, पदेशपरिकल्पनायां तु चरमान्तप्रदेशाश्चाचरमान्तप्रदेशाश्च, कथं ?, ये बाह्यखण्डप्रदेशास्ते चरमान्तप्रदेशाः ये च मद्यखण्डप्रदेशास्तेऽचरमान्तप्रदेशा इति, अनेन चैकान्तदुर्णयनिरासप्रधानेन निर्वचनसूत्रेणावयवावयविरूपं वस्त्वित्याह, तयोश्च भेदाभेद इति । एवं शर्करादिष्वपि, अथ कियद्दूरं तद्वाच्यम् ? इत्याह‘जावे’त्यादि, ये वैमानिकभवसम्भवं स्पर्शं लप्स्यन्ते पुनस्तत्रानुत्पादेन मुक्तिगमनात्ते वैमानिकाः स्पर्शचरमेण चरमाः, ये तु तं पुनर्लप्स्यन्ते ते त्वचरमा इति ॥ शतकं - ८ उद्देशकः-३ समाप्तः For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003309
Book TitleAgam Suttani Satikam Part 05 Bhagvati
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size12 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy