________________
३८८
भगवतीअङ्गसूत्रं ८/-/२/३९६ तेभ्योऽवधिज्ञानपर्याय अनन्तगुणाः, मनःपयायज्ञानापेक्षयाऽवधिज्ञानस्य द्रव्यपर्यायतोऽनन्तगुणविषयत्वात्, तेभ्यः श्रुतज्ञानपर्यायाअनन्तगुणाः, ततस्तस्य रूप्यरूपिद्रव्यविषयत्वेनान्तगुणविषयत्वात्, ततोऽप्याभिनिबोधिकज्ञानपर्याया अनन्तगुणाः, ततस्तस्याभिलाप्यानभिलाप्यद्रव्यादिविषयत्वेनानन्तगुणविषयत्वात्, ततःकेवलज्ञानपर्याया अनन्तगुणाः, सर्वद्रव्यपर्यायाविषयत्वात्तस्येति ।
एवमज्ञाननसूत्रेऽप्यल्पबहुत्वकारणं सूत्रानुसारेणोहनीयं, मिश्रसूत्रे तु स्तोका मनपर्यायज्ञानपर्यवाः, इहोपपत्तिप्राग्वत्, तेभ्योविभङ्गज्ञानपर्यवाअनन्तगुणाः,मनःपर्यायज्ञानापेक्षया विभङ्गस्यबहुतमविषयत्वात्, तथाहि-विभङ्गज्ञानमूवधि उपरिमग्रैवेयकादारभ्य सप्तमपृथिव्यन्ते क्षेत्रे तिर्यक्चासङ्ख्यातद्वीपसमुद्ररूपे क्षेत्रे यानिरूपिद्रव्यानि तानि कानिचिज्जानातिकांश्चित्तत्पर्यायांश्च, तानिचमनः-पर्यायज्ञानविषयापेक्षयाऽनन्तगुणानीति, तेभ्योऽवधिज्ञानपर्यवा अनन्तगुणाः, अवधेः सकलरूपिद्रव्यप्रतिद्रव्यासङ्ख्यातपर्यायविषयत्वेन विभङ्गापेक्षया अनन्तगुणविषयत्वात्, तेभ्योऽपि श्रुताज्ञानपर्यवाअनन्तगुणाः, श्रुताज्ञानस्य श्रुतज्ञानवदोघादेशेन समस्तमूर्तामूर्तद्रव्यसर्वपर्यायविषयत्वेनावधिज्ञानापेक्षयाऽनन्तगुणविषयत्वात्, तेभ्यः तेभ्योऽपि मत्यज्ञानपर्यवाअनन्तगुणाः, यतः श्रुतज्ञानमभिलाप्यवस्तुविषयमेव, मत्यज्ञानंतुतदनन्तगुणानभिलाप्यवस्तुविषयमपीति, ततोऽपि मतिज्ञानपर्यवा विशेषधिकाः, केषाञ्चिदपि मत्यज्ञानाविषयीकृतभावानां विषयीकरणात्, तद्धिमत्यज्ञानापेक्षया स्फुटतरमिति, ततोऽपि केवलज्ञानपर्यवा अनन्तगुणाः, सर्वाद्धाभाविनां समस्तद्रव्यपर्यायाणामनन्यसाधारणावभासनादिति ॥
शतकं-८ उद्देशकः-२ समाप्तः
-शतकं-८ उद्देशकः-३:वृ. अनन्तरमाभिनिबोधिकादिकं ज्ञानं पर्यवतः प्ररूपितं, तेन च वृक्षादयोऽ ज्ञायन्तेऽतस्तृतीयोद्देशके वृक्षविशेषानाह
मू. (३९७) कइविहा णं भंते ! रुक्खा पन्नत्ता ?, गोयमा ! तिविहा रुक्खा पन्नत्ता, तंजहा-संखेजजीविया असंखेज्जजीविया अनंतजीविया।
से किंतंसंखेज्जजीविया?, संखे० अनेगविहा पन्नत्ता, तंजहा-ताले तमाले तक्कलितेतलि जहा पन्नवणाए जाव नालिएरी, जे यावन्ने तहप्पगारा, सेत्तं संखेजजीविया।
से किं तं असंखेजजीविया ?, असंखेज्जजीविया दुविहा पन्नत्ता, तंजहा-एगडिया य बहुबीयगाय।
से किंतं एगट्टिया?,२ अनेगविहा पन्नत्ता, तंजहा-निंबंधजंबू० एवं जहा पन्नवणापए जाव फला बहुबीयगा, सेत्तं बहुबीयगा, सेत्तं असंखेज्जजीविया।
से किंतंअनंतजीविया?, अंतजीविया अनेगविहा पन्नत्ता, तंजहा-आलुए मूलए सिंगबेरे, एवं जहा सत्तमसए जाव सीउण्हे सिउंढी, जे यावन्ने त० सेत्तं अनंतजीविया ॥
वृ. 'कई'त्यादि, 'संखेज्जजीविय'त्ति सङ्ख्याता जीवा येषु सन्ति ते सङ्ख्यातजीविकाः, एवमन्यदपिपदद्वयं, 'जहा पन्नवणाए'त्ति यथाप्रज्ञापनायांतथाऽत्रेदं सूत्रमध्येयं, तत्र चैवमेतत्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org