________________
शतकं-८, वर्गः-, उद्देशकः-२
३८७ पदार्थानन्तपर्यायास्ते तस्य परपर्यायास्ते च स्वपर्यायेभ्योऽनन्तगुणाः, परेषामनन्तगुणत्वादिति, ननु यदि ते परपर्यायास्तदा तस्येति न व्यपदेष्टुं युक्तं, परसम्बन्धित्वात्, अथ तस्य ते तदा न परपर्यायास्ते व्यपदेष्टव्याः, स्वसम्बन्धित्वादिति, अत्रोच्यते, यस्मात्तत्रासम्बद्धास्ते तस्मात्तेषां परपर्यायव्यपदेशः, यस्माच्चतेपरित्यज्यमानत्वेन तथा स्वपर्यायाणांस्वपर्याया एते इत्येवं विशेषणहेतुत्वेन च तस्मिन्नुपयुज्यन्ते तस्मात्तस्य पर्यवा इतिव्यपदिश्यन्ते, यथाऽसम्बद्धमपि धनं स्वधनं उपयुज्यमानत्वादिति, आह च॥१॥ “जइ ते परपज्जाया न तस्स अह तस्स न परपज्जाया।
जंतंमि असंबद्धा तो परपज्जायववएसो।। ॥२॥ चायसपज्जायविसेसणाइणा तस्स जमुवजुजंति ।
सधणमिवासंबद्धं हवंति तो पञ्जवा तस्स ॥त्ति । 'केवइयाणंभंते! सुयनाणे' त्यादौ, एवं चेव'त्तिअनन्ताः श्रुतज्ञानपर्यायाः प्रज्ञप्ता इत्यर्थः, तेच स्वपर्यायाः परपर्यायाश्च, तत्र स्वपर्यायाये श्रुतज्ञानस्य स्वतोऽक्षर श्रुतादयो भेदास्तेचानन्ताः क्षयोपशमवैचित्र्यविषयानन्त्याभ्यां श्रुतनुसारिणांबोधानामनन्तत्वात् अविभाग-पलिच्छेदानन्त्याच्च, परपर्यायास्त्वनन्ताः सर्वभावानांप्रतीता एव, अथवा श्रुतं-ग्रन्थनुसारिज्ञानं श्रुतज्ञानं, श्रुतग्रन्थश्चाक्षरात्मकः,अक्षराणि चाकारादीनि, तेषांचैकैकमक्षरं यथायोगमुदात्तानुदात्तस्वरितभेदात्सानुनासिकनिरनुनासिकभेदात् अल्पप्रयलमहाप्रयत्लभेदादिमिश्च संयुक्तसंयोगा-संयुक्तसंयोगभेदात् द्वयादिसंयोगभेदादभिधेयानन्त्याच भिद्यमानमनन्तभेदं भवति, तेच तस्य स्वपर्यायाः, परपर्यायाश्चान्येऽनन्ता एव, एवं चानन्तपर्यायं तत्, आह च- । . ॥१॥ “एक्केक्कमक्खरं पुण सपरपज्जायभेयओ भिन्नं ।
तं सव्वदव्वपज्जायरासिमाणं मुणेयव्वं ।। ॥२॥ जेलब्भइ केवलो से सवन्नसहिओ य पज्जवेऽगारो।
. ते तस्स सपज्जाया सेसा परपज्जवा तस्स" त्ति ___ एवं चाक्षरात्मकत्वेनाक्षरपर्यायोपेतत्वादनन्ताः श्रुतज्ञानस्य पर्याया इति, “एवं जाव'त्तिकरणादिदंश्य-'केवइयाणंभंते ! ओहिनाणपज्जवा पन्नत्ता?, गोयमा! अनंताओहिनाणपज्जवा पन्नत्ता। केवइया णं भंते! मणपज्जवनाणपज्जवा पन्नत्ता?, गोयमा! अनता मणज्जवनाणपज्जवा पन्नत्ता। केवइयाणंभंते! केवलनाणपज्जवापन्नत्ता?,गोयमा ! अनंता केवलनाणपज्जवा पन्नत्ता' इति, तत्रावधिज्ञानस्य स्वपर्याया येऽवधिज्ञानभेदाः सभवप्रत्ययक्षायोपशमिकभेदात् नारकतिर्यगमनुष्यदेवरूपतत्स्वामिभेदाद् असङ्ख्यात्मेदतद्विषयभूतक्षेत्रकालभेदाद् अनन्तभेदतद्विषयद्रव्यपर्यायभेदादविभागपलिच्छेदाच्च तेचैवमनन्ता इति, मनःपर्यायज्ञानस्य केवलज्ञानस्य च स्वपर्याया ये स्वाम्यादिभेदेन स्वगता विशेष्यास्ते चानन्ता अनन्तद्रव्यपर्यायपरिच्छेदापेक्षयाऽविभागपलिच्छेदापेक्षया वेति, एवं मत्यज्ञानादित्रयेऽप्यनन्तपर्यायत्वमूह्यमिति । अथ पर्यवाणामेवाल्पबहुत्वनिरूपणायाह___ 'एएसिण'मित्यादि, इह च स्वपर्यायापेक्षयैवैषामल्पबहुत्वमवसेयं, स्वपर्यायापेक्षया तु सर्वेषां तुल्यपर्यायत्वादिति, तत्र सर्वस्तोका मनःपर्यायज्ञानपर्यायास्तस्य मनोमात्रविषयत्वात्,
तंस
Jain Education International
For
For Private & Personal Use Only
www.jainelibrary.org