________________
३६
भगवतीअङ्गसूत्रं १/-/१/२१ 'इत्यादि, प्राग्वच्च व्याख्येयमिति ॥ एवं 'जाव वणस्सइकाइयाणं'ति, अनेन पृथिवीकायिकसूत्रामिवाप्कायिकादिसूत्राणि समानीत्युक्तं, स्थितौ पुनर्विशेषोऽत एवाह
- नवरं 'ठिईवण्णेयव्वा जा जस्स'त्ति, तत्र जघन्या सर्वेषामन्तर्मुहूर्तम्, उत्कृष्टा त्वपां सप्त वर्षसहस्राणि तेजसामहोरात्रत्रयं वायूनां त्रीणि वर्षसहस्राणि वनस्पतीनां दशेति, उक्ता चेयं पृथिव्यादिक्रमेण॥१॥ “बावीसाइंसहस्सा १ सत्त सहस्साइं २ तिन्निऽहोरत्ता ३ ।
वाए तिन्नि सहस्सा ४ दस वाससहस्सिया रुक्खे ५॥ 'बेइंदियाणं ठिइ भणिऊणऊसासोवेमायाए'त्तिवक्तव्य इति शेषः, स्थितिश्च द्वीन्द्रियाणां द्वादशवर्षाणि, द्वीन्द्रियाणामाहारसूत्रे यदुक्तम्-'तत्थणंजे से आभोगनिव्वत्तिए सेणंअसंखेज्जसमइए अंतोमुहुत्तिए वेमायाए आहारट्टे समुप्पज्जइत्ति, तस्यायमर्थः-असङ्ख्यातसामयिक आहारकालोभवति, सचावसर्पिण्यादिरूपोऽप्यस्तीत्यत उच्यते-आन्तमॊहूर्तिकः, तत्रापिविमात्रया अन्तर्मुहूर्ते समयासङ्ख्यातत्वस्यासङ्ख्येयभेदत्वादिति ।
'बेइंदियाणं, दुविहे आहारे पन्नत्ते, लोमाहारे पक्खेवाहारे य'त्ति, तत्र लोमाहारः खल्वोदातो वर्षादिषु यः पुद्गलप्रवेशः समूत्राद्गम्यतइति, प्रक्षेपाहारस्तु कावलिकः, तत्र प्रक्षेपाहारे बहवोऽस्पृष्टा एव शरीरादन्तर्बहिश्चविध्वंसन्ते स्थौल्यसौक्ष्याभ्याम्, अतएवाह-'जेपोग्गले पक्खेवाहारत्तए गिण्हंती' त्यादि अनेगाइंचणंभागसहस्साइंति असङ्ख्येया भागाइत्यर्थः, 'अनासाइजमाणाई'ति रसनेन्द्रियतः ‘अफासाइजमाणाईतिस्पर्शनेन्द्रियतः ‘कयरे' इत्यादि यत्पदं तदेवं दृश्यम्-‘कयरे कयरेहिंतोअप्पावा बहुया वातुल्ला वा विसेसाहियाव' त्ति व्यक्तंच 'सव्वत्थोवा पोग्गला अनासाइजमाणे'त्यादि, येऽनास्वाद्यमानाः केवलं रसनेन्द्रियविषयास्ते स्तोकाः, अस्पृश्यमाणानामनन्तभागवर्त्तिन इत्यर्थः, येत्वस्पृश्यमाणाः केवलं स्पर्शनविषयास्तेऽनन्तगुणा रसनेन्द्रियविषयेभ्यः सकाशादिति।
'तेइंदियचउरिंदियाणं नाणत्तंठिईए'त्ति, तच्चेदम्-'जहन्नेणंअंतोमुहुततं उक्कोसेणंतेइंदियाणं एगूणपन्नासं राइंदियाइं चउरिंदियाणं छम्मासा' तथाऽऽहारेऽपि नानात्वं, तत्र च 'तेइंदियाणं भंते! जे पोग्गले आहारत्ता गेण्हंति' इत्यत आरभ्य तावत्सूत्रं वाच्यं यावत् 'अणेगाइंचणंभागसहस्साइंअणाधाइज्जमाणाई' इत्यादि, इहच द्वीन्द्रियसूत्रापेक्षयाऽनाद्रायमाणानीत्यतिरिक्तमतो नानात्वम्, एवमल्पबहुत्वसूत्रे परिणामसूत्रे च।
चतुरिन्द्रियसूत्रेषुतुपरिणामसूत्रे चक्खिदियत्ताघाणिंदियत्ताए' इत्यधिकमिति नानात्वमिति
पञ्चेन्द्रियतिर्यक्सूत्रे 'ठिइंभणिऊणं तिजहन्नेणंअंतोमुहत्तं उक्कोसेणंतिन्निपलिओवमाईति, इत्येतद्रूपास्थितिं भणित्वा उस्सासोति उच्छ्वासोविमात्रयावाच्यइति, तथा तिर्यपञ्चेन्द्रियाणामाहारार्थ प्रति यदुक्तम्-‘उक्कोसेणं छट्ठभत्तस्स'त्ति तद्देवकुरूत्तरकुरुतिर्यक्षु लभ्यते ।
मनुष्यसूत्रे यदुक्तम् ‘अष्टमभक्तस्ये ति तद्देवकुर्वादिमुथुनकनरानाश्रित्य समवसेयमिति
'वाणमंतराणमित्यादि, वानमन्तराणां स्थितौ नानात्वम्, ‘अवसेसं'ति स्थितेरवशेषमायुष्कवर्जमित्यर्थः,प्रागुक्तमाहारादि वस्तु यथा नागकुमाराणांतथा ६श्य, व्यन्तराणां नागकुमाराणां चप्रायः समानधर्मत्वात्, तत्रव्यन्तराणां स्थितिर्जघन्येन दश वर्षसहामणि, उत्कर्षेणतुपल्योपमिति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org