________________
शतकं-१, वर्गः-, उद्देशकः - १
दिने भुक्त्वाऽहोरात्रं चातिक्रम्य तृतीये भुञ्जत इति भावः ।
नागकुमारवक्तव्यतायाम् ‘उक्कोसेणं देसूणाई दो पलिओवमाइं' ति यदुक्तं तदुत्तरश्रेणिमाश्रित्यावसेयं, यदाह-‘“दाहिण दिवडपलियं दो देसूणुत्तरिल्लाणं" इति । 'मुहुत्तपहुत्तस्स' त्ति, मुहूर्त्त उक्तलक्षण एव, पृथक्त्वं तु द्विप्रभृतिरानवभ्यः सङ्ख्याविशेषः समये प्रसिद्धः ।
एवं 'सुवन्नकुमाराणवि' त्ति नागकुमाराणामिव सुपर्णकुमाराणामपि स्थित्यादि वाच्यम्, इदं च कियद्दूरं यावद्वाच्यम् ? इत्याह- 'जाव थणियकुमाराणं'ति यावत्करणाद् विद्युत्कुमारादिपरिग्रहः, एषां चेहायं क्रमोऽवसेयः ।
३५
॥ १ ॥ “असुर १ नाग २ सुवन्ना ३ विजू ४ अग्गी य ५ दीव ६ उदही य ७ । दिसि ८ वाऊ ९ थणियाविय १० दस भेया भवणवासीणं ॥
अथ भवनपतिवक्तव्यताऽनन्तरं दण्डकक्रमादेव पृथिव्यादीनां स्थित्यादि निरूपयन्नाह‘पुढवी’त्यादि व्यक्तमावनस्पतिसूत्रात्, नवरम्-'अंतोमुहुत्त 'न्ति मुहूर्त्तस्यान्तरन्तर्मुहूर्त, भिन्नमुहूर्त्तमित्यर्थः, 'उक्कोसेणं बावीसं वाससहस्साइं ' ति यदुक्तं तत् खरपृथिवीमाश्रित्यावगन्तव्यं,
यदाह
॥ १ ॥“सण्हा य १ सुद्ध १२ वालुय १४ मणोसिला १६ सक्करा य १८ खरपुढवी २२ । एगं बारस चोद्दस सोलस अठ्ठार बावीसा ॥ इति
-
'वेमायाए’त्ति विषमा विविधा वा मात्रा - कालविभागो विमात्रा तया, इदमुक्तं भवतिविषमकाला पृथिवीकायिकानामुच्छसादिक्रिया-इयत्कालादिति न निरूपयितुं शक्यते, 'जहा नेरइयाण' मित्यतिदेशात्, 'खेत्तओ असंखेज्जपएसोगाढाई कालओ अन्नयरठिझ्याई' इत्यादि दृश्यं, ‘निव्वाघाएणं छद्दिसिं' ति व्याघात आहारस्य लोकान्तनिष्कुटेषु संभवति नान्यत्, ततो निष्कुटेभ्योऽ न्यत्र षट्सु दिक्षु, कथं ? - चतसृषु पूर्वादिदिक्षु ऊर्ध्वमधश्च पुद्गलग्रहणं करोति, 'वाघायं पडुच्च’त्ति व्याघातं प्रतीत्य, व्याघातश्च निष्कुटेषु तत्र च 'सिय तिदिसिं' ति स्यात् - कदाचित्तिसृषु दिक्षु आहारग्रहणं भवति, कथं ?, यदा पृथिवीकायिकोऽघस्तने उपरितने वा कोणेऽवस्थितः स्यात्तदाऽ- धस्तादलोकः पूर्वदक्षिणयोश्चालोक इत्येवं तिसृणामलोकेनाऽऽवृतत्वात्तदन्यासु तिसृषु पुद्गलग्रहणम्, एवमुपरितनकोणेऽपि वाच्यं, यदा पुनरध उपरि चालोको भवति तदा चतसृषु (दिक्षु), यदा तु पूर्वादीनां षण्णां दिशामन्यतरस्यामलोको भवति तदा पञ्चस्विति, 'फासओ कक्खडाइँ' ति इह कर्कशादयो रूक्षान्ताः स्पर्शा दृश्याः ।
‘सेसं तहेव’त्ति शेषं-भणितावशेषं तथैव यथा नारकाणां तथा पृथिवीकायिकानामपि, तच्चेदम्-"जाई भंते ! लुक्खाई आहारेति ताइं किं पुट्ठाई अपुट्ठाई ?, जइ पुट्ठाई किं ओगाढाई अनोगाठाई ? " इत्यादि । 'नाणत्तं' ति नानात्वं भेदः पुनः पृथिवीकायिकानां नारकापेक्षयाऽऽहारं प्रतीदं यथा 'कइभाग'मित्यादि तत्र 'फासाइंति' त्ति स्पर्शं कुर्वन्ति स्पर्शयन्ति-स्पर्शनेन्द्रियेणाहारपुद्गलानां कतिभागं स्पृशन्तीत्यर्थः, अथवा स्पर्शेनास्वादयन्ति प्राकृत शैल्या फासायंति, स्पर्शेन वाऽऽददति-गृह्णन्ति उपलभन्दइति 'फासाइंति', इदमुक्तं भवति यथा रसनेन्द्रियपर्याप्तिपर्याप्तका रसनेन्द्रियद्वारेणाहारमुपभुञ्जाना आस्वादयन्तीति व्यपदिश्यन्ते एवमेते स्पर्शनेन्द्रियद्वारेणेति ।
'सेसं जहा नेरइयाणं' ति, तच्चैवम्- 'पुढविकाइयाणं भंते! पुव्वाहारिया पोग्गला परिणया
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International