SearchBrowseAboutContactDonate
Page Preview
Page 386
Loading...
Download File
Download File
Page Text
________________ शतकं-८, वर्गः-, उद्देशकः-२ ३८३ स्कन्धान् विपुलाविशेषग्राहिणी मति र्विपुलमति-घटोऽनेन चिन्तितः सच सौवर्ण पाटलिपुत्रकोऽद्यतनो महानित्याद्यध्यवसायहेतुभूता मनोद्रव्यविज्ञप्तिः, अथवा विपुला मतिर्यस्यासौ विपुलमतिस्तद्वानेव, ‘अभ्यधिकतरकान्' ऋजुमतिदृष्टस्कन्धापेक्षया बहुतरान् द्रव्यार्थः तया वर्णादिभिश्च वितिमिरतरा इव-अतिशयेन विगतान्धकारा इव ये ते वितिमिरतरास्त एव वितिमिरतरका अतस्तानू, अत एव 'विशुद्धतरकान्' विस्पष्टतरकान् जानाति पश्यति च । तथा 'खेत्तओ णं उज्जुमई अहे जाव इमीसे रयणप्पभाए पुढवीए उवरिमहेट्ठिल्लै खुड्डागपयरे उडूं जाव जोइसस्स उवरिमतले तिरियं जाव अंतोमणुस्सखेत्ते अड्डाइज्जेसु दीवसमुद्देसु पन्त्ररससु कम्मभूमीसु छप्पन्नाए अंतरदीवगेसु सन्नीणं पंचिंदियाणं पज्जत्तगाणं मनोगए भावे जाणइ पासइ' तत्र क्षेत्रत ऋजुमतिरघः-अधस्ताद् यावदमुष्या रत्नप्रभायाः पृथिव्या उपरिमाधस्त्यान् क्षुल्लकप्रतरान् तावत् किं ? - मनोगतान् भावान् जानाति पश्यतीति योगः, तत्र रुचकाभिधानात्तिर्यगूलोकमध्यादघो यावन्नव योजनशतानि तावदमुष्या रत्नप्रभाया उपरिमाः क्षुल्लकप्रतराः, क्षुल्लकत्वं च तेषामघोलोकप्रतरापेक्षया, तेभ्योऽपि येऽघस्तादघोलोकग्रामान् यावत्तेऽधस्तनाः क्षुल्लकप्रतरा ऊर्द्ध यावज्ज्योतिषश्च ज्योतिश्चकस्योपरितलं । -‘तिरियं जाव अंतोमणुस्सखेत्ते ' त्ति तिर्यङ् यावदन्दर्मनुष्यक्षेत्रं मनुष्यक्षेत्रस्यान्तं यावदित्यर्थः, तदेव विभागत आह- ' अड्डाइज्जेसु' इत्यादि, तथा 'तं चेव विउलमई अड्डाइज्जेहिं अंगुलेहिं अमहियतरागं विउलतरागं विसुद्धतरागं वितिमिरतरागं जाणइ पासइ 'त्ति तत्र 'तं चेव'त्ति इह क्षेत्राधिकारस्य प्रधान्यात्तदेव मनोलब्धिसमन्वितजीवाधारं क्षेत्रभिगृह्यते, तत्राभ्यधिकतरकमायाम- विष्कम्भावाश्रित्य विपुलतरकं बाहल्यमाश्रित्य 'विशुद्धतरकं' निर्मलतरकं वितिमिरतरकंतु तिमिरकल्पतदावरणस्य विशिष्टतरक्षयोपशमसद्भावादिति, तथा'कालओ णं उज्जुमई जहन्नेणं पलिओवमस्स असंखेज्जइभागं उक्कोसेणवि पलिओवमस्स असंखेज्जइभागं जाणइ पासइ अईयं अनागयं च तं चैव विपुलमई विसुद्धतरागं वितिमिरतरागं जाणइ पासइ' । कियन्नन्दी सूत्रमिहाध्येयम् ? इत्याह- 'जाव भावओ'त्ति भावसूत्रं यावदित्यर्थः तचैवं'भावओ णं उज्जुमई अनंते भावे जाणइ पासइ सव्वभावाणं अनंतभागं जाणइ पासई, तं चेव विपुलमई विसुद्धरागं वितिमिरतरागं जाणइ पासइ' त्ति । 'केवलनाणस्से' त्यादि, 'एवं जाव भावओ'त्ति 'एवम्' उक्तन्यायेन यावद्भावत् इत्यादि तावत्केवलविषयाभिदायिनन्दीसूत्रमिहाध्येयमित्यर्थः, तच्चैवं 'खेत्तओणं केवलनाणी सव्वखेत्तं जाणइ पासइ' इह च धर्मास्तिकायादिसर्वद्रव्यग्रहणेनाकाशद्रव्यस्य ग्रहणेऽपि यत्पुनरुपादानं तत्तस्य क्षेत्रत्वेन रूढत्वादिति, 'कालओ णं केवलनाणी सव्वं कालं जाणइ पासइ, भावओ णं केवली सव्वभावे जाणइ पासइ' ॥ 'मइअन्नाणस्से' त्यादि, 'मइअन्नाणपरिगयाई' ति मत्यज्ञानेनमिथ्यादर्शनसंवलितेनावग्रहादिनौत्पत्तिक्यादिना च परिगतानि - विषयीकृतानि यानि तानि तथा, जानात्यपायादिना पश्यत्यवग्रहादिना, यवात्करणादिदं दृश्यं - 'खेत्तओणं मइअन्नाणी मइअन्नाणपरिगयं खेत्तं जाणइ पासइ, कालओ णं मइअन्नानि मइअन्नाणपरिगयं कालं जाणइ पासइति । 'सुयअन्नाणे’त्यादि, ‘सुयअन्नाणपरिगयाई 'ति श्रुताज्ञानेन - मिथ्याष्टिपरिगृहीतेन For Private & Personal Use Only www.jainelibrary.org Jain Education International
SR No.003309
Book TitleAgam Suttani Satikam Part 05 Bhagvati
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy