________________
३८२
भगवतीअगसूत्रं ८/-/२/३९५ अथवा यद्यप्यभिलाप्यानां भावानामनन्तभागएवश्रुतनिबद्धस्तथापि प्रसङ्गानुप्रसङ्गतः सर्वेऽप्यभिलाप्याः श्रुतविषया उच्यन्तेअतस्तदपेक्षया सर्वभावानजानातीत्युक्तम्, अनभिलाप्यभावापेक्षया तु “सुए चरित्तेन पज्जवा सव्वे" इत्युक्तमिति न विरोधः । 'दव्वओ णमित्यादि, अवधिज्ञानी रूपिद्रव्यानि पुद्गलद्रव्याणीत्यर्थः,तानिचजघन्येनानन्तानि तैजसभाषाद्रव्याणामपान्तरालवर्तीनि, यत उक्तं-“तेयाभासादव्वणअंतराएत्थलभतिपट्ठवओ"त्ति, उत्कृष्टतस्तु सर्वबादरसूक्ष्मभेदभिनानि जानाति विशेषाकारेण, ज्ञानत्वात्तस्य।
पश्यति सामान्याकारेणावधिज्ञानिनोऽवधिदर्शनस्यावश्यम्भावात्, नन्वादौ दर्शनं ततो ज्ञानमिति क्रमस्तत्किमर्थःमेनं परित्यज्य प्रथमं जानातीत्युक्तम् ?, अत्रोच्यते, इहावधिज्ञानाधिकारात्,प्रधान्यख्यापनार्थःमादौजानातीत्युक्तम्, अवधिदर्शनस्यत्ववधिविभङ्गसाधारणत्वेनाप्रधानत्वात्पश्चात्पश्यतीति, अथवा सर्वाएवलब्धयः साकारोपयोगोपयुक्तस्योत्पद्यन्तेलब्धिश्चावधिज्ञानमिति साकारोपयोगोपयुक्तस्यावधिज्ञानलब्धिर्जायते इत्येतस्यार्थःस्य ज्ञापनार्थं साकारोपयोगाभिधायकं जानातीति प्रथममुक्तं ततः क्रमेणोपयोगप्रवृत्तेः पश्यतीति। ___'जहानंदीए'त्ति, एवंचतत्रेदंसूत्र-खेत्तओणंओहिनाणीजहन्नेणंअंगलस्सअसंखेज्जइभागं जाणइ पासइ' इत्यादि, व्याख्या पुनरेवं-क्षेत्रतोऽवधिज्ञानी जघन्येनाङ्गुलस्यासङ्खयेयभागमुत्कृष्टतोऽसङ्ग्येयान्यलोके शक्तिमपेक्ष्य लोकप्रमाणानि खण्डानि जानाति पश्यति, कालतोऽवधिज्ञानीजघन्येनावलिकायाअसङ्खयेयं भागमुत्कृष्टतोऽसङ्खयेया उत्सर्पिण्यवसर्पिणीरतीता अनागताश्चजानाति पश्यति, तद्गतरूपिद्रव्यावगमात्, अथ किय(रंयावदिह नन्दीसूत्रं वाच्यम् इत्याह -
'जावभावओ'त्तिभावाधिकारं यावदित्यर्थः, सचैवं-भावतोऽवधिज्ञानीजघन्येनान्तान् भावानाधारद्रव्यानन्तत्वाजानाति पश्यति, न तु प्रतिद्रव्यमिति, उत्कृष्टतोऽप्यनन्तान् भावान् जानाति पश्यति च, तेऽपि चोत्कृष्टपदिनः सर्वपर्यायाणामनन्तभाग इति, ‘उज्जुमइत्ति मननं मतिः संवेदनमित्यर्थः ऋज्ची-सामान्यग्राहिणी मति ऋजुमति-घटोऽनेन चिन्तित इत्यध्यवसायनिबन्धना मनोद्रव्यपरिच्छित्तिरित्यर्थः, अथवा ऋज्वी मतिर्यस्यासावृजुमतिस्तद्वानेव गृह्यते, 'अनंते'त्ति 'अनन्तान्' अपरिमितान् ‘अनंतपएसिए'त्तिअनन्तपरमाण्वात्मकान् ।
___ 'जहानंदीए'त्ति, तत्रचेदंसूत्रमेवं-'खंदे जाणइपासइत्तितत्र स्कन्धान्' विशिष्टैकपरिणामपरिणतान् सञ्जिभिः पर्याप्तकैः प्रानिभिरर्द्धतृतीयद्वीपसमुद्रान्तर्वतिभिर्मनस्त्वेन परिणामितानित्यर्थः, जाणइ तिमनःपर्यायज्ञानावरणक्षयोपशमस्य पटुत्वात्साक्षात्कारेण विशेषभूयिष्ठपरिच्छेदात्जानातीत्युच्यते, तदालोचितंपुनरर्थं घटादिलक्षणंमनःपर्यायज्ञानं स्वरूपाध्यक्षतोनजानाति किन्तु तत्परिणामान्यथाऽनुपपत्याऽतः पश्यतीत्युच्यते, उक्च भाष्यकारेण-"जाणइ बज्झेऽनुमाणाओ"त्ति, इत्थं चैतदङ्गीकर्तव्यं, यतो मूर्तद्रव्यालम्बनमेवेदं, मन्तारश्चामूर्त्तमपि धर्मास्तिकायादिकं मन्येरन्, नचतदनेन साक्षात्कर्तुशक्यते, तथा चतुर्विधंचचक्षुर्दर्शनादिदर्शनमुक्तमतो भिन्नालम्बनमेवेदमवसेयं, तत्रच दर्शनसम्भवात्पश्यतीत्यपिन दुष्टम्, एकप्रमात्रपेक्षया तदनन्तरभावित्वाच्चोपन्यस्तमित्यलमतिविस्तरेण ।
'तेचेवउ विउलमई अब्भहियतराए वितिमिरतराए विसुद्धतराए जाणइ पासई तानेव
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org