________________
शतकं-८, वर्ग:-, उद्देशकः-२
___३८१
३८१
पेक्षयाऽवबुध्यते, अवग्रहेहयोर्दर्शनत्वात्, आह च भाष्यकारः-. ॥१॥ “नाणमवायधिईओ दंसणमिटुंजहो ग्गहेहाओ।
तह तत्तरुई सम्मं रोइज्जइजेण तं नाणं ।।"
तथा-"जंसामन्नग्गहणं दंसणमेयं विसेसियं नाणं" अवग्रहेहे च सामान्यार्थःग्रहणरूपेअवायधारणेच विशेषग्रहणस्वभावे इति, नन्वष्टाविंश तिभेदमानमाभिनिबोधिकज्ञानमुच्यते ।।
यदाह-"आभिनिबोहियनाणे अठ्ठावीसं हवंति पयडीओ"त्ति ।
इह च व्याख्याने श्रोत्रादिभेदेन षडभेदतयाऽवायधारणयोदशविदं मतिज्ञानं प्राप्तं, तथा श्रोत्रादिभेदेनैव षड्भेदतयाऽर्थावग्रहईहयो य॑जनावग्रहस्य च चतुर्विधतया षोड्शविधं चक्षुरादिदर्शनमितिप्रप्तमिति कथं न विरोधः?, सत्यमेतत्, किन्त्वविक्षयित्वा मतिज्ञानचक्षुरादिदर्शनयोर्भेद मतिज्ञानमष्टाविंशतिधोच्यते इति पूज्या व्याचक्षत इति, “खेत्तओ'त्ति क्षेत्रमाश्रिरत्याभिनिबोधिकज्ञानविषयक्षेत्रवाऽऽश्रित्य यदाभिनिबोधिकज्ञानंतत्र ‘आदेसेणं तिओघतः श्रुतपरिकर्मिततया वा सव्वंखेत्तं तिलोकालोकरूपम्, एवंकालतो भावतश्चेति,आहचभाष्यकार:॥१॥ “आएसोत्ति पगारो ओघादेसेण सव्वदव्वाइं।
धम्मत्थिकाइयाईजाणइ न उ सव्वभावेणं॥ ॥२॥ खेत्तं लोगालोगं कालं सव्वद्धमहव तिविहंपि।
__पंचोदइयाईए भावे जन्नेयमेवइयं । आएसोत्ति व सुत्तं सुओवलद्धेसु तस्स मइनाणं ।
पसरइ तब्भावणया विणावि सुत्ताणुसारेणं ।। इति इदंचसूत्रनन्द्यामिहैववाचनान्तरे नपासइत्तिपाठान्तरेणाधीतम्, एवंचनन्दिटीकाकृता व्याख्यातम्-“आदेश:-प्रकारः, सच सामान्यतो विशेषतच, तत्रद्रव्यजातिसामान्यादेशेन सर्वद्रव्यानि धर्मास्तिकायादीनि जानाति, विशेषतोऽपि यथा धर्मास्तिकायो धर्मास्तिकायस्य देश इत्यादि, न पश्यति सर्वान् धर्मास्तिकायादीन्, शब्दादींस्तुयोग्यदेशावस्थितान् पश्यत्यपीति," 'उवउत्ते'त्ति" भावश्रुतोपयुक्तो नानुपयुक्तः, सहि नाभिधानादभिधेयप्रतिपत्तिसमर्थोभवतीति विशेषणमुपात्तं, ‘सर्वद्रव्यानि' धर्मास्तिकायादीनि 'जानाति' विशेषतोऽवगच्छति, श्रुतज्ञानस्य तत्स्वरूपत्वात्, पश्यतिच श्रुतानुवर्त्तिना मानसेन अचक्षुर्दर्शनेन, सर्वद्रव्याणि चाभिलाप्यान्येव जानाति।
पश्यति चाभिन्नदशपूर्वधरादिः श्रुतकेवली, तदारतस्तु भजना, सा पुनर्मतिविशेषतो ज्ञातव्येति, वृद्धैः पुनः पश्यतीत्यत्रेदमुक्तंननुपश्यतीति कथं?, कथंचन, सकलोगचरदर्शनायोगात् अत्रोच्यते, प्रज्ञापनायां श्रुतज्ञानश्यत्तायाः प्रतिपादितत्वादनुत्तरविमानादीनां चालेख्यकरणात् सर्वथा चादृष्टस्यालेख्यकरणानुपपत्तेः, एवं क्षेत्रादिष्वपि भावनीयमिति, अन्ये तु 'न पासइत्ति पठन्तीति, ननु 'वओणं सुयनाणी उवउत्ते सव्वभावे जाणइ' इति यदुक्तमिह तत् “सुए चरित्ते न पज्जवा सव्वे"त्ति । अनेन च सह कथं न विरुध्यते
उच्यते, इह सूत्रे सर्वग्रहणेन पञ्चौदयिकादयोभावा गृह्यन्ते, तांश्च सर्वान्जातितोजानाति,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org