________________
३७९
शतकं-८, वर्गः-, उद्देशकः-२ किं नाणी अन्नाणी?, मणपजवनाणवजाइनामाइं अन्नाणापि य तिनि भयणाए।
वृ. 'सागारोवउत्ते'त्यादि, आकारो-विशेषस्तेन सहयो बोधः स साकारः, विशेषग्राहको बोध इत्यर्थः, तस्मिन्नुपयुक्ताः-तत्संवेदका ये ते साकारोपयुक्ताः, ते च ज्ञानिनोऽज्ञानिनश्च, तत्र ज्ञानिनां पञ्च ज्ञानानि भजनया-स्याद् द्वे स्यात्रीनि स्याच्चत्वारि स्यादेकं, यच्च स्यादेकं यच्च स्यावे इत्याधुच्यते तल्लब्धिमात्रङ्गीकृत्य, उपयोगापेक्षया त्वेकदा एकमेव ज्ञानमज्ञानं वेति, अज्ञानिनांतु त्रीण्यज्ञानानि भजनयैवेति ।
अथ साकारोपयोगभेदापेक्षमाह-'आभिणी'त्यादि, ‘ओहिनाणसागारे'त्यादि, अवधिज्ञानसाकारोपयुक्ता यथाऽवधिज्ञानलब्धिकाः प्रागुक्ताः स्यात् त्रिज्ञानिनोमतिश्रुतावधियोगात् स्याच्चतुानिनो मति श्रुतावधिमनःपर्यवयोगात्तथा वाच्याः।
'मनपज्जवे'त्यादि, मनःपर्यवज्ञानसाकारोपयुक्तायथा मनःपर्यवज्ञानलब्धिकाःप्रागुक्ताः स्यात्रिज्ञानिनो मतिश्रुतमनःपर्यवयोगात्स्याच्चतुर्जानिनः केवलवर्जज्ञानयोगात्तथा वाच्या इति
'अनगारोवउत्ताण'मित्यादि, अविद्यमान आकारो यत्र तदनाकारं-दर्शनं तत्रपयुक्ताःतत्संवेदनका येते तथा, तेच ज्ञानिनोऽज्ञानिनश्च, तत्र ज्ञानिनांलब्ध्यपेक्षया पञ्च ज्ञानानि भजनया, अज्ञानिनां तु त्रीण्यज्ञानानि भजनयैव । “एव मित्यादि, यथाऽनाकारोपयुक्ता ज्ञानिनोऽज्ञानिनश्चोक्ताः एवंचक्षुर्दर्शनाद्यपयुक्ताअपि, 'नवरं'तिविशेषः पुनरयं-चक्षुर्दर्शनेतरोपयुक्ताः केवलिनो न भवन्तीति तेषां चत्वारि ज्ञानानि भजनयेति।
योगद्वारे-‘सजोगी ण'मित्यादि, 'जहा सकाइय'त्ति प्रागुक्ते कायद्वारे यथा सकायिका भजनया पञ्चज्ञानास्त्यज्ञानाश्चोक्तास्तथासयोगाअपिवाच्याः एवं मनोयोग्यादयोऽपि, केवलिनोऽपि मनोयोगादीनां भावात्, तथा मिथ्याध्शां मनोयोगादिमतामज्ञानत्रयभावाच्च, 'अजोगी जहा सिद्ध'त्ति अयोगिनः केवललक्षणैकज्ञानिन इत्यर्थः।
लेश्याद्वारे-'जहा सकाइय'त्ति सलेश्याः सकायिकवद्भजनया पञ्चज्ञानास्त्रयज्ञानाश्च वाच्याः, केवलिनोऽपि शुक्ललेश्यासम्भवेन सलेश्यत्वात्, 'कण्हलेसे'त्यादि, 'जहासइंदिय'त्ति कृष्णलेश्याश्चतुर्ज्ञानिनस्त्रयज्ञानिनश्च भजनयेत्यर्थः, 'सुक्कलेसा जहा सलेस'त्ति पञ्चज्ञानिनो भजनया त्र्यज्ञानिनश्चेत्यर्थः । अलेस्सा जहा सिद्धत्ति एकज्ञानिन इत्यर्थः।।
कषायद्वारे-'सकसाईजहा सइंदिय'त्तिभजनया केवलवर्जचतुर्जानिनस्त्रयज्ञानिनश्चेत्यर्थः, 'अकसाईणमित्यादि, अकषायिणांपञ्च ज्ञानानि भजनया, कथम्?, उच्यते, छद्मस्थो वीतरागः केवली चाकषायः, तत्र च छद्मस्थवीतरागस्याचं ज्ञानचतुष्कं भजनया भवति, केवलिनस्तु पञ्चममिति वेदद्वारे-'जहा सइंदिय'त्ति सवेदकाः सेन्द्रियवद्भजनया केवलवर्जचतुानिनस्त्रयज्ञानिनश्च वाच्याः, अवेदगा जहा अकसाइ'त्तिअवेदकाअकषायिवद्भजनयापञ्चज्ञानावाच्याः, यतोऽनिवृत्तिबादरादयोऽवेदका भवन्ति, तेषुच छद्मस्थानांचत्वारिज्ञानानि भजनया केवलिनां तु पञ्चममिति।
आहारकद्वारे-‘आहारगे'त्यादि, सकषाया भजनयाचतुर्ज्ञानास्त्रयज्ञानाश्चोक्ताःआहारका अप्येवमेव, नवरमाहारकाणां केवलमप्यस्ति, केवलिन आहारकत्वादपीति, 'अनाहारगा णमित्यादि, मनःपर्यवज्ञानमाहारकाणामेव, आद्यं पुननित्रयमज्ञानत्रयंच विग्रहेभवति, केवलं
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org