SearchBrowseAboutContactDonate
Page Preview
Page 380
Loading...
Download File
Download File
Page Text
________________ ३७७ शतकं-८, वर्गः-, उद्देशकः-२ यादिभावेन सिद्धभावेन वा, ये त्वज्ञानिनस्तेषां त्रीण्यज्ञानानि भजनया। ___ एवं छेदोपस्थापनीयादिष्वपि वाच्यम्, एतदेवाह-‘एव'मित्यादि, तत्र छेदोपस्थापनीयादिचरित्रत्रयलब्धयो ज्ञानिन एव, तेषां चाद्यानि चत्वारिज्ञानानि भजनया, तदलब्धयो यथाख्यातचारित्रलब्धयश्च ये ज्ञानिनस्तेषां पञ्च ज्ञानानि भजनया, ये त्वज्ञानिनस्तेषामज्ञानत्रयं भजनयैव, यथाख्यातचारित्रलब्धिकानां तु विशेषोऽस्ति अतस्तद्दर्शनायाह___'नवरं अहक्खाये' त्यादि, सामायिकादिचारित्रचतुष्टयलब्धिमतां छद्मस्थत्वेन चत्वार्येव ज्ञानानि भजनया, यथाख्यातचारित्रलब्धिमतां छद्मस्थेतरभावेन पञ्चापि भजनया भवन्तीति तेषां तथैव तान्युक्तानीति। _ 'चरित्ताचरित्ते'त्यादौ, 'तस्स अलद्धिय'त्ति चरित्राचरित्रस्यालब्धिकाः श्रावकादन्ये, ते च ये ज्ञानिनस्ते षां पञ्च ज्ञानानि भजनया, ये त्वज्ञानिनस्तेषां त्रीण्यज्ञानानि भजनयैव ॥ 'दानलद्धी'त्यादि, दानान्तरायक्षयक्षयोपशमाद्दाने दातव्ये लब्भिर्येषां ते दानलब्धयः, ते च ज्ञानिनोऽज्ञानिनश्च, तत्र येज्ञानिनस्तेषां पञ्च ज्ञानानि भजनया, केवलज्ञानिनामपि दानलब्धियुक्तत्वात्, येत्वज्ञानिनस्तेषांत्रीण्यज्ञानानि भजनयैव, दानस्यालब्धिकास्तु सिद्धास्ते चदानान्तरायक्षयेऽपि दातव्याभावात् सम्प्रदानासत्त्वादानप्रयोजनाभावाच्च दानालब्धय उक्तास्ते च नियमात्केवलज्ञानिन इति । लाभभोगोपभोगवीर्यलब्धीः सेतरा अतिदिशन्नाह-“एव'मित्यादि, इह चालब्धयः सिद्धानामेवोक्तन्यायादवसेयाः, ननु दानाद्यन्तरायक्षयात्केवलिनांदानादयः सर्वप्रकारेणकस्मान्न भवन्ति? इति, उच्यते, प्रयोजनाभावात्, कृतकृत्याहि ते भगवन्त इति॥ ___ 'बालवीरियलद्धियाण'मित्यादि, बालवीर्यलब्धयः-असंयताः तेषांचज्ञानिनांत्रीनिज्ञानानि अज्ञानिनां च त्रीण्यज्ञानानि भजनया भवन्ति, तदलब्धिकास्तु संयताः संयतासंयताश्च ते च ज्ञानिन एव, एतेषां च पञ्च ज्ञानानि भजनया । 'पंडियवीरिये'त्यादौ, 'तस्स अलद्धियाणं'ति असंयतानांसंयतासंयतानां सिद्धानांचेत्यर्थः, तत्रासंयतानामाद्यं ज्ञानत्रयमज्ञानत्रयंच भजनया, संयतासंयतानां तु ज्ञानत्रयं भजनयैव भवति, सिद्धानां तु केवलज्ञानमेव, मनःपर्यायज्ञानं तु पण्डितवीर्यलब्धिमतामेव भवति तान्येषामत उक्तं 'मणपज्जवे'त्यादि, सिद्धानां च पण्डितवीर्यालब्धिकत्वं पण्डितवीर्यवाच्ये प्रत्युपेक्षणाद्यनुष्ठाने प्रवृत्त्यभावात्, 'बालपंडिए'इत्यादौ, तस्स अलद्धियाणं'ति अश्रावकाणामित्यर्थः। ___ 'इंदियलद्धियाण'मित्यादि, इन्द्रियलब्धिका ये ज्ञानिनस्तेषां चत्वारि ज्ञानानि भजनया, केवलंतुनास्ति, तेषां केवलिन एवेत्येकमेव तेषांज्ञानमिति। 'सोइंदिय'इत्यादि, श्रोत्रेन्द्रियलब्धय इन्द्रियलब्धि पुनः केवलिन एवेत्येकमेव तेषां ज्ञानमिति । 'सोइंदिय'इत्यादि, श्रोत्रेन्द्रियलब्धय इन्द्रियलब्धिका इववाच्याः,तेच ये ज्ञानिनस्तेऽकेवलित्वादाद्यज्ञानचतुष्टयवन्तोभजनयाभवन्ति, अज्ञानिनस्तुभजनयात्र्यज्ञानाः, श्रोत्रेन्द्रियालब्धिकास्तु ये ज्ञानिनस्तेआद्यद्विज्ञानिनः, तेऽपर्याप्तकाःसासादन सम्यग्दर्शिनो विकलेन्द्रियाः एकज्ञानिनोवा केवल ज्ञानिनः, तेहिश्रोत्रेन्द्रियालब्धिका इन्द्रियोपयोगाभावात्, ये त्वज्ञानितस्ते पुनराद्याज्ञानद्वयवन्त इति। 'चकिखंदिए'इत्यादि, अयमर्थः-यथा श्रोत्रेन्द्रियलब्धिमतांचत्वारिज्ञानानिभजनयत्रीणि Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003309
Book TitleAgam Suttani Satikam Part 05 Bhagvati
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy