________________
३७६
भगवतीअङ्गसूत्रं ८/-/२/३९३ णलद्धी'त्यादि अवधिज्ञानलब्धिकास्त्रिज्ञानाः केवलमनःपर्यायासद्भावे चतुर्माना वा केवलाभावात्, अवधिज्ञानस्यालब्धिकास्तुयेज्ञानिनस्तेद्विज्ञानामतिश्रुतभावात्, त्रिज्ञानावामतुश्रुतमनः पर्यायभावात्, एकज्ञाना वा केवलभावात्, येत्वज्ञानिनस्ते द्वयज्ञानामत्यज्ञानश्रुताज्ञानभावात्, त्र्यज्ञाना वाऽज्ञानत्रयस्यापि भावात्।
_ 'मनपज्जवे'त्यादि, मनःपर्यवज्ञानलब्धिकास्त्रिज्ञानाअवधिकेवलाभावात्, चतुर्ज्ञाना वा केवलस्यैवाभावात्, मनः-पर्यवज्ञानस्यालब्धिकास्तु ये ज्ञानिनस्ते द्वि ज्ञाना आद्यद्वयभावात्, त्रिज्ञाना वाऽऽधत्रयभावात्, एकज्ञाना वा केवलस्यैव भावात्, ये त्वज्ञानिनस्ते द्वयज्ञाना आद्याज्ञानद्वयभावात्, त्र्यज्ञाना वाऽज्ञानत्रयस्यापि भावात् ।
'केवलनाणे'त्यादि, केवलज्ञानलब्धिका एकज्ञानिनस्तेच केवलज्ञानिन एव, केवलज्ञानस्यालब्धिकास्तुये ज्ञानिनस्तेषामाद्यंज्ञानद्वयं तत्त्रयंमतिश्रुतावधिज्ञानानिमति श्रुतमनःपर्यायज्ञानानि वा केवलज्ञानवर्जानि चत्वारि वा ज्ञानानि भवन्ति, ये त्वज्ञानिनस्तेषामाद्यज्ञानद्वयं तत्त्रयं वा भवतीत्येवं भजनाऽवसेयेति। _ 'अन्नाणलद्धियाण'मित्यादि, अज्ञानलब्धिकाअज्ञानिनस्तेषांचत्रीण्यज्ञानानि भजनया, द्वे अज्ञाने त्रीनि वाऽज्ञानानीत्यर्थः, अज्ञानालब्धिकास्तु ज्ञानिनस्तेषां च पञ्च ज्ञानानि भजनया पूर्वोपदर्शितयावाच्यानि, 'जहाअन्नाणे'त्यादि, अज्ञानलब्धिकानांत्रीण्यज्ञानानि भजनयोक्तानि मत्यज्ञानश्रुताज्ञानलब्धिकानामपि तानि तथैव, तथाऽज्ञानालब्धिकानां पञ्च ज्ञानानि भजनयोक्तानि, मत्यज्ञानश्रुताज्ञानालब्धिकानामपि पञ्च ज्ञानानि भजनयैव वाच्यानीति।
__ "विभंगे'त्यादि, विभङ्गज्ञानलब्धिकानां तु त्रीण्यज्ञानानि नियमात्, तदलब्धिकानां तु ज्ञानिनां पञ्च ज्ञानानि भजनया, अज्ञानिनां च द्वे अज्ञाने नियमादिति ।। 'दंसणलद्धी'त्यादि, 'दर्शनलब्धिकः' श्रद्धानमात्रलब्धिकाःइत्यर्थःतेच सम्यकश्रद्धानवन्तोज्ञाननस्तदितरे त्वज्ञानिनः, तत्रज्ञानिनां पञ्चज्ञानानि भजनया, अज्ञानिनांतुत्रीण्यज्ञानानि भजनयैवेति । तस्सअलद्धिया नत्थि'त्ति तस्य दर्शनस्य येषामलब्धिस्ते न सन्त्येव, सर्वजीवानां रुचिमात्रस्यास्तित्वादिति।
___ 'सम्मइंसणलद्धियाणं तिसम्यग्दृष्टीनां, 'तस्सअलद्धियाण'मित्यादि, 'तस्यालब्धिकानां' सम्यग्दर्शनस्यालब्धिमतां मिथ्याष्टीनांच त्रीण्यज्ञानानिभजनया, यतोमिश्रष्टीनामप्यज्ञानमेव, तात्त्विकसद्बोधहेतुत्वाभावान्मिश्रस्येति।
"मिच्छादसणलद्धियाणं'तिमिथ्याष्टीनां, तस्सअलद्धियाण'मित्यादि, तस्यालब्धिकानां' मिथ्यादर्शनस्यालब्धिमतां सम्यग्दृष्टीनां चक्रमेण पञ्च ज्ञानानि त्रीण्यज्ञानानि च भजनयेति। ___'चरित्तलद्धी'त्यादि चरित्रलब्धिका ज्ञानिन एव, तेषां च पञ्च ज्ञानानि भजनया, यतः केवल्यपि चारित्री । चारित्रालब्धिकास्तु ये ज्ञानिनस्तेषां मनःपर्यववर्जानि चत्वारि ज्ञानानि भजनयाभवन्ति,कथम्?,असंयतत्वेआद्यं ज्ञानद्वयंतत्त्रयंवा, सिद्धत्वेचकेवलज्ञानं, सिद्धानामपि चरित्रलब्धिशून्यत्वाद्, यतस्ते नोचारित्रिणोनोअचारित्रिण इति, येत्वज्ञानिनस्तेषांत्रीण्यज्ञानानि भजनया।
‘सामाइए'त्यादि, सामायिकचरित्रलब्धिकाज्ञानिनएव,तेषांचकेवलज्ञानवर्जानिचत्वारि ज्ञानानिभजनया, सामायिकचरित्राब्धिकास्तुयेज्ञानिनस्तेषांपञ्चज्ञानानि भजना, छेदोपस्थापनी
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org