________________
शतकं-८, वर्गः-, उद्देशकः-२
119 11
३७५
“नवमस्स तइयवत्थउं जहन्न उक्कोस ऊणगा दस उ । सुत्तत्थभिग्गहा पुण दव्वाइ तवो रयणमाती ॥”
अयमर्थः यस्य जघन्यतो नवमपूर्वं तृतीयं वस्तु यावद्भति उत्कर्षतस्तु दश पूर्वानि न्यूनानि सूत्रतोऽर्थः तो भवन्ति, द्रव्यादयश्चाभिग्रहा रत्नावल्यादिना च तपस्तस्य परिहारतपो दीयते, तद्दाने न निरुपसर्गार्थं कायोत्सर्गो विधीयते, शुभे च नक्षत्रादौ तत्प्रतिपत्ति, तथा गुरुस्तं ब्रूतेयथाऽहं तव वाचनाचार्य अयं च गीतार्थः साधुः सहायस्ते, शेषसाधवोऽपि वाच्याः, यथा । “एस एवं पडिवज्जइ न किंचि आलवइ मा य आलवह । अत्तट्ठचिंतगस्स उ वाघाओ भे न कायव्वो ।”
119 11
तथा कथमहमालापादिरहितः संस्तपः करिष्यामीत्येवं बिभ्यतस्तस्य भयापहारः कार्यः, कल्पस्थितश्च तस्यैतत्करोति
119 11
“किइकम्मं च पडिच्छइ परिन्न पडिपुच्छयंपि से देइ । सोविय गुरुमुवचिट्ठइ उदंतमवि पुच्छओ कहइ ।।"
इह परिज्ञा-प्रत्याख्यानं प्रतिपृच्छा त्वालापकः, ततोऽसौ यदा ग्लानीभूतः सन्नुत्थानादि स्वयं कर्त्तुं न शक्नोति तदा भणति उत्थानादि कर्त्तुमिच्छामि, ततोऽनुपरिहारकस्तूष्णीक एव तदभिप्रेतं समस्तमपि करोति, आह च
11911
"उद्वेज निसीएज्जा भिक्खं हिंडेज भंडगं पेहे । कुवियपियबंधवस्स व करेइ इयरोवि तुसिणीओ ।"
तपश्च तस्य ग्रीष्मशिशिरवर्षासु जघन्यादिभेदेन चतुर्थादिद्वादशान्तं पूर्वोक्तमेवेति । 'सुहुमसंपरायचरित्तलद्धि'त्ति संपरैति पर्यटति संसारमेभिरिति सम्परायाः कषायाः सूक्ष्मालोभांशावशेषरूपाः सम्पराया यत्र तत् सूक्ष्मसम्परायं शेषं तथैव, एतदपि द्विधा-विशुद्धयामानकं सङ्क्लिश्यमानकंच, तत्र विशुद्धयमानकं क्षपकोपशमकश्रेनिद्वयमारोहतो भवति १ सङ्क्लिश्यमानकं तूपशमश्रेणीतः प्रच्यवमानस्येति २ ।
'अहक्खायचरित्तलद्धी'ति यथा येन प्रकारेण आख्यातं - अभिहितमकषायतयेत्यर्थः तथैव यत्तद्यथाख्यातं, तदपि द्विविधम्-उपशमकक्षपक श्रेनिभेदात, सेषं तथैवेति ।
एवं ‘चरित्ताचरित्ते’त्यादौ, ‘एगागार' त्ति मूलगुणोत्तरगुणादीनां तद्भेदानामविवक्षणात् द्वितीयकषायक्षयोपशमलभ्यपरिणाममात्रस्यैव च विवक्षणाच्चरित्राचरित्रलब्धेरेकाकारत्वमवसेयम् एवं दानलब्ध्यादीनामप्येकाकारत्वं, भेदानामविवक्षणात् ।
‘बालवीरियलद्धी’त्यादि, बालस्य असंयतस्य यद्वीर्यं असंयमयोगेषु प्रवृत्तिनिबन्धनभूतं तस्य या लब्भिश्चारित्रमोहोदयाद्वीर्यान्तरायक्षयोपशमाच्च सा तथा, एवमितरे अपि यथायोगं वाच्ये, नवरं पण्डितः संयतो, बालपण्डितस्तु संयतासंयत इति ।
'तस्स अलद्धिया णं' ति तस्य ज्ञानस्य अलब्धिकाः- अलब्धिमन्तः ज्ञानलब्धिरहिता इत्यर्थः ‘आभिनिबोहियनाणे’त्यादि, आभिनिबोधिकज्ञानलब्धिकानां चत्वारि ज्ञानानि भजनया, केवलिनो नास्त्याभिनिबोधिकज्ञानमिति, मतिज्ञानस्यालब्धिकास्तु ये ज्ञानिनस्ते केवलिनस्ते चैकज्ञानिन एव, ये त्वज्ञानिनस्तेऽज्ञानद्वयवन्तोऽज्ञानत्रयवन्तो वा, एवं श्रुतेऽपि । 'ओहिना
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org