SearchBrowseAboutContactDonate
Page Preview
Page 377
Loading...
Download File
Download File
Page Text
________________ ३७४ भगवतीअङ्गसूत्रं ८/-/२/३९३ 'छेओवट्ठावनियचरित्तलद्धि'त्ति छेदे-प्राक्तनसंयमस्य व्यवच्छेदे सति यदुपस्थापनीयंसाधावारोपणीयं तच्छेदोपस्थापनीयं, पूर्वपर्यायच्छेदेन महाव्रतानामारोपणमित्यर्थः, तच्च सातिचारमनतिचारंच, तत्रानतिचारमित्वरसामायिकस्य शिक्षकस्यारोप्यते, तीर्थान्तरसान्ती वा, यथा पार्श्वनाथतीर्थावर्द्धमानस्वामित्यर्थं सङ्क्रामतः पञ्चयामधर्मप्राप्ती, सातिचारंतुमूलगुणघातिनो यद्वतारोपणं, तच्च तच्चरित्रं च छेदोपस्थापनीयचरित्रं तस्य लब्धिश्छेदोपस्थापनीयचरित्रलब्धिः _ 'परिहारविसुद्धियचरित्तलद्धि'त्ति परिहारः-तपोविशेषस्तेन विशुद्धिर्यस्मिंस्तत्परिहारविशुद्धिकं, शेषं तथैव, एतच्च द्विविधं-निर्विशमानकं निर्विष्टकायिकंच, तत्रनिर्विशमानकास्तदासेवकास्तदव्यतिरेकात्तदपिनिर्विशमानकम्, आसेवितविवक्षितचारित्रकायास्तुनिर्विष्टकायास्तएव निर्विष्टकायिकास्तदव्यतिरेकात्तदपि निर्विष्टकायिकमिति, इहच नवको गणो भवति, तत्र चत्वारः परिहारिका भवन्ति, अपरे तु तद्वैयावृत्त्यकराश्चत्वार एवानुपरिहारिकाः, एकस्तु कल्पस्थितो वाचनाचार्यो गुरुभूत इत्यर्थः, एतेषां च निर्विशमानकानामयं परिहारः॥१॥ “परिहारियाण उ तवोजहन्न मज्झो तहेव उक्कोसो। सीउण्हवासकाले भनिओ धीरेहिं पत्तेयं ॥ ॥२॥ तत्थ जहन्नो गिम्हे चउत्थ छटुंतु होइ मज्झिमओ। अठ्ठममिह उक्कोसो एत्तो सिसिरे पवक्खामि । ॥३॥ सिसिरे उ जहन्नाईछट्ठाई दसमचरिमगा होति । वासासु अट्ठमाइंबारसपज्जन्तओ नेइ॥ ॥४॥ पारणगे आयामपंचसु गह दोसऽभिग्गहो भिक्खे। कप्पट्ठिया य पइदिण करेंति एमेव आयाम। इह सप्तस्वेषणासुमध्ये आधयोरग्रह एव, पञ्चसुपुनर्ग्रहः, तत्राप्येकतरया भक्तमेकतरया च पानकमित्येवं द्वयोरभिग्रहोऽवगन्तव्य इति। ‘एवं छम्मासतवं चरिउं परिहारिगाअनुचरंत । अनुचरगे परिहारियपयट्ठिए जाव छम्मासा ।। ॥६॥ कप्पट्ठिओवि एवं छम्मासतवं करेइ सेसा उ। अनुपरिहारिगभावं वयंति कप्पठियत्तं च ।। ॥७॥ एवेसो अट्ठारसमासपमाणो उ वन्निओ कप्पो। संखेवओ विसेसो सुत्ता एयस्स नायव्वो॥ ॥८॥ कप्पसमत्तीइ तयं जिणकप्पं वा उति गच्छं वा। पडिवज्जमाणगा पुण जिणस्सगासे पवजंति॥ ॥९॥ तित्थयरसमीवासेवगस्स पासे व नो य अन्नस्स। एएसिंचरणं परिहारविसुद्धियं तंतु॥ अन्यैस्तु व्याख्यातं-परिहारतो मासिकं चतुर्लघ्वादि तपश्चरति यस्तस्य परिहारिकचरित्रलब्धिर्भवतीति, इदं च परिहारतपो यथा स्यात्तथोच्यतेJain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003309
Book TitleAgam Suttani Satikam Part 05 Bhagvati
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy