________________
शतकं - ८, वर्ग:-, उद्देशकः -२
नाणाइं पंडियवीरियलद्धियाणं पंच नाणाइं भयणाए, तस्स अलद्धियाणं मणपज्जवनाणवज्जाइं नाणाइं अन्नाणानि तिन्नि य भयणाए । बालपंडियवीरियलद्धियाणं भंते! जीवा० तिन्नि नाणाइं भयणाए, तस्स अलद्धियाणं पंच नाणाइं तिन्नि अन्नायाइं भयणाए ।
३७३
इंदियलद्धियाणं भंते! जीवा किं नाणी अन्नाणी ?, गोयमा ! चत्तारि नाणाइं तिन्नि य अन्नाणाइं भयणाए, तस्स अलद्धियाणं पुच्छा, गोयमा ! नाणी नो अन्नाणी नियमा एगनाणी केवलनाणी, सोइंदियलद्धियाणं जहा इंदियलद्धिया, तस्स अलद्धियाणं पुच्छा, गोयमा ! नाणीवि अन्नाणीवि, जे नाणी ते अत्थेगतिया दुन्नाणी अत्थेगतिया एगन्नाणी जे दुन्नाणी ते आभिनिबोहियनाणी सुयनाणी जे एगनाणी ते केवलनाणी, जे अन्नाणी ते नियमा दुअन्नाणी, तंजहा- मइअन्नाणी य सुयअन्नाणी य, चक्खिदियघाणिंदियाणं लद्धियाणं अलद्धियाण य जहेव सोइंदियस्स, जिब्भिदियलद्धियाणं चत्तारि नाणाइं तिन्नि य अन्नाणानि भयणाए ।
तस्स अलद्धियाणं पुच्छा, गोयमा ! नाणीवि अन्नाणीवि जे नाणी ते नियमा एगनाणी केवलनाणी, जे अन्नाणी ते नियमा दुअन्नाणी, तंजहा - मइअन्नाणी य सुयअन्नाणी य, फासिंदियलद्धियाणं अलद्धियाणं जहा इंदियलद्धिया य अलद्धिया य ॥
वृ. 'कतिविहाण' मित्यादि, तत्र लब्धिः - आत्मनो ज्ञानादिगुणानां तत्तत्कर्मक्षयादितो लाभः, साच दशविधा, तत्र ज्ञानस्य-विशेषबोधस्य पञ्चप्रकारस्य तथाविधज्ञानानावरणक्षयक्षयोपशमाभ्यां लब्धिर्ज्ञानलब्धि, एवमन्यत्रापि, नवरंच दर्शनं रुचिरूप आत्मनः परिणामः, चारित्रं चारित्रमोहनीयक्षयक्षयोपशमोपशमजो जीवपरिणामः, तथा चरित्रं च तदचरित्रं चेति चरित्राचरित्रंसंयमासंयमः, तच्चाप्रत्याख्यानकषायक्षयोपशमजो जीवपरिणामः ।
दानादिलब्धयस्तु पञ्चप्रकारान्तरायक्षयक्षयोपशमसम्भवाः, इह च सकृद्भोजनमशनादीनां भोगः, पौनःपुन्येन चोपभोजनमुपभोगः, स च वस्त्रभवनादेः, दानादीनि तु प्रसिद्धानीति ।
तथा इन्द्रियाणां - स्पर्शनादीनां मतिज्ञानावरणक्षयोपशमसम्भूतानामेकेन्द्रियादिजातिनामकर्मोदयनियमितक्रमाणां पर्याप्तकनामकर्मादिसामर्थ्यसिद्धानां द्रव्यभावरूपाणां लब्धिरात्मनीतीन्द्रियलब्धिः ॥ अथ ज्ञानलब्धेर्विपर्यभूताऽज्ञानलब्धिरित्यज्ञानलब्धिनिरूपणायाह'अन्नाणलद्धी' त्यादि ।
'सम्मद्दंसणे' त्यादि, इह सम्यग्दर्शनं मिथ्यात्वमोहनीयकर्माणुवेदनोपशम २ क्षय २ क्षयोपशम ३ समुत्थ आत्मपरिणामः, मिथ्यादर्शनमशुद्धमिथ्यात्वदलिकोदयसमुत्थो जीवपरिणामः, सम्यग्मिध्यादर्शनं त्वर्द्धविशुद्धमिथ्यात्वदलिकोदयसमुत्थ आत्मपरिणाम एव ॥
'सामाइयचरित्तलद्धि' त्ति सामायिकं- सावद्ययोगविरतिरूपं एतदेव चरित्रं सामायिकचरित्रं तस्य लब्धि सामायिकचरित्रलब्धि, सामायिकचरित्रं च द्विधा -इत्वरं यावत्कथिकं च, तत्राल्पकालमित्वरं, तच्च भरतैरावतेषु प्रथमपश्चिमतीर्थः करतीर्थेष्वनारोपितव्रतस्य शिक्षकस्य भवति, यावत्कथिकं तु यावज्जीविकं, तच्च मध्यमवैदेहिकतीर्थःङ्करतीर्थान्तर्गतसाधूनामवसेयं, तेषामुपस्थापनाया अभावात्, नन्वितरस्यापि यावज्जीवितया प्रतिज्ञानात् तस्यैव चोपस्थापनायां परित्यागात् कथं न प्रतिज्ञालोपः ?, अत्रोच्यते, अतिचाराभावात्, तस्यैव सामान्यतः सावद्ययोगनिवृत्तिरूपेणावस्थितस्य शुद्धयन्तरापादनेन सञ्ज्ञामात्रविशेषादिति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org