________________
शतकं-८, वर्गः-, उद्देशकः-२
३६७ यथा राजप्रश्नकृते द्वितीयोपाङ्गे ज्ञानानां भेदो भनितस्तथैवेहापि भनितव्यः, सचैवम् ___ 'सेकिंतं उग्गहे?, उग्गहे दुविहे पन्नत्ते, तंजहा-अत्थोग्गहे यवंजणोग्गहे य'इत्यादिरिति, यच्च वाचनान्तरे श्रुतज्ञानाधिकारे यथा नन्द्यामङ्गप्ररूपणेत्यभिधाय 'जाव भवियअभविया तत्तो सिद्धा असिद्धा ये'त्युक्तं तस्यायमर्थः-श्रुतज्ञानसूत्रावसाने किल नन्द्यां श्रुतविषयं दर्शयतेदमभिहितम्-‘इच्चेयंमिदुवालसंगे गनिपिड अनंता भावा अनंता अभावा जाव अनंता भवसिद्धिया अनंता अभवसिद्धियाअनंता सिद्धाअनंताअसिद्धापन्नत्ते'ति, अस्यच सूत्रस्य या सङ्गहगाथा॥१॥ "भावमभावा हेऊमहेउ कारणमकारणा जीवा।
अज्जीव भवियाऽभविया तत्तो सिद्धा असिद्धा य ।।" इत्येवंरूपातस्याः खण्डमिदमेतदन्तं श्रुतज्ञानसूत्रमिहाध्येयमिति ॥ज्ञानविपर्ययस्त्वज्ञानमिति तत्सूत्रम्-तत्रच 'अन्नाणे'त्ति नञः कुत्सार्थःत्वात् कुत्सितं ज्ञानमज्ञानं, कुत्सितत्वं च मिथ्यात्वसंवलितत्वात्, उक्चञ्च- । ॥१॥ "अविसेसिया मइच्चिय सम्मद्दिहिस्स सा मइन्नाणं ।
मइअन्नाणं मिच्छद्दिहिस्स सुर्यपि एमेव ।।" 'विभंगनाणे'त्तिविरुद्धाभङ्गा-वस्तुविकल्पायस्मिंस्तद्विभङ्गतच्चतज्ज्ञानंचअथवा विरूपो भङ्गः-अवधिभेदो विभङ्गः सचासौ ज्ञानं चेति विभङ्गज्ञानम्, इहचकुत्सा विभङ्गशब्देनैव गमितेति न ज्ञानशब्दो नञा विशेषितः।
'अत्थोग्गहेय'त्तिअर्थ्यत इत्यर्थःस्तस्यावग्रहःअर्थावग्रहः-सकलविशेषनिरपेक्षानिर्देश्यार्थःग्रहणमेकसामयिकमितिभावार्थः, 'वंजणोग्गहे यत्तिव्यज्यतेऽनेनार्थः प्रदीपेनेवघटइतिव्यञ्जनं तच्चोपकरणेन्द्रियंशब्दादिपरणतद्रव्यसङ्घातोवा, ततश्च व्यअनेन-उपकरणेन्द्रियेण व्यअनानांवाशब्दादिपरिणतद्रव्याणाभवग्रहो व्यञ्जनावग्रहः, अत्रार्थावग्रहस्य सुलक्ष्यत्वात् सकलेन्द्रियारथव्यापकत्वाच्च प्रथममुपन्यासः, एवंजेहेव'त्यादि, यथैवाभिनिबोधिकज्ञानमधीतंतथैव मत्यज्ञानमप्यध्येयं, तच्चैवम्-।
___ 'से किं तंवंजणोग्गहे?,२ चउबिहे पन्नत्ते, तंजहा-सोइंदियवंजणोग्गहे धाणिंदियवंजगोग्गहे जिभिदियवंजणोग्गहे फासिंदियवंजणोग्गहे' इत्यादि, यश्चेह विशेषस्तमाह-'नवरं एगट्ठियवजं ति इहाभिनिबोधिकज्ञाने' “उग्गिण्हणया अवधारणया सवणया अवलंबणया मेहे' त्यादीनि पञ्च पञ्चैकार्थिःकान्यवग्रहादीनामधीतानि, मत्यज्ञानेतुन तान्यध्येयानीतिभावः, 'जाव नोइंदियधारण'त्ति इदमन्त्यपदं यावदित्यर्थः ।
'जंइमंअन्नानिएहितियदिदम् अज्ञानिकैः निर्ज्ञानः, तत्राल्पज्ञानभावादधनवदशीलवद्वा सम्यग्दृष्टयोऽप्यज्ञानिकाः प्रोच्यन्तेऽतएवाह-मिथ्याष्टिभिः, 'जहानंदीए'त्ति, तत्रैवमेतत्सूत्रम्'सच्छंदबुद्धिमइविगप्पियं तंजहा-भारहं रामायण मित्यादि, तत्रावग्रहेहे बुद्धिः अवायधारणेच मतिः, स्वच्छन्देन-स्वाभिप्रायेणतत्त्वतः सर्वज्ञप्रणीतार्थानुसारमन्तरेण बुद्धिमतिभ्यां विकल्पितं स्वच्छन्दबुद्धिमतिविकल्पितं-स्वबुद्धिकल्पनाशिल्पनिर्मितमित्यर्थः 'चत्तारिय वेय'त्तिनाम ऋक् यजुः अथर्वा चेति 'संगोवंग'त्ति इहाङ्गानि-शिक्षादीनि षट् उपाङ्गानि च-तद्वयाख्यानरूपानि 'गामसंठिए'त्तिग्रामालम्बनत्वाद्ग्रामाकारम्, एवमन्यान्यपि, नवरं वाससंठिए'त्ति भरतादिवर्षा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org