________________
भगवती अङ्गसूत्रं ७/-/९/३७२
तत्रानेके ये गणनायकाः-प्रकृतिमहत्तराः दण्डनायकाः-तन्त्रपालाः राजानो - माण्डलिकाः ईश्वरा -युवराजाः तलवराः परितुष्टनरपतिप्रदत्तपट्टनबन्धविभूषिता राजस्थानीया माडम्बिका:छिन्नमडम्बाधिपाः कौटुम्बिकाः- कतिपयकुटुम्बप्रभवोऽवलगकाः मन्त्रिणः प्रतीताः महामन्त्रिणोमन्त्रिमण्डलप्रधानाः गणकाः- ज्योतिषिकाः भाण्डागारिका इत्यन्ये दौवारिकाः-प्रतीहाराः अमात्याराज्याधिष्ठायकाः चेटाः-पादमूलिकाः पीठमर्दाः- आस्थाने आसनासीनसेवकाः वयस्या इत्यर्थः नगरमिह सैन्यनिवासिप्रकृतयः निगमाः- कारनिका वनिजो वा श्रेष्ठिनः श्रीदेवताऽध्यासितसौवर्णपट्टविभूषितोत्तमाङ्गाः सेनापतयो नृपतिनिरूपितचतुरङ्गसैन्यनायकाः सार्थः वाहाः प्रतीताः दूता-अन्येषां राजादेशनिवेदकाः सन्धिपालाः-राज्यसन्धिरक्षकाः ।
एतेषां द्वन्द्वस्ततस्तैः, इह तृतीयाबहुवचनलोपो द्रष्टव्यः 'सद्धिं 'ति सार्द्धं सहेत्यर्थः, न केवलं तत्सहितत्वमेव अपि तु तैः समितिसमन्तात् परिवृतः परिकरित इति, 'हारोत्थयसुकयरइयवच्छे' हारावस्तृतेन- हारावच्छादनेन सुष्ठु कृतरतिकं वक्षः-उरो यस्य स तथा, 'जहा चेव उववाइए'त्ति तत्र चैवमिदं सूत्रम्- 'पालंबपलंबमाणपडसुयउत्तरिज्जे' इत्यादि तत्र प्रालम्बेनदीर्घेण प्रलम्बमानेन-झुम्बमानेन पटेन सुष्ठु कृतमुत्तरीयं- उत्तरासङ्गो येन स तथा, 'महया भडचडगरवंदपरिक्खित्ते'त्ति महाभटानां विस्तारवत्सङ्खेन परिकरित इत्यर्थः 'ओयाए 'त्ति 'उपयातः’ उपागतः ‘अभेज्जकवयं’ति परपरहरणाभेद्यावरणं 'वइरपडिरूवगं 'ति वज्रसदृशम् 'एगहत्थिणावित्ति एकेनापि गजेनेत्यर्थः 'पराजिनित्तए'त्ति परानभिभवितुमित्यर्थः । 'हयमहियपवरवीरधाइयविवडियचिंधद्धयपडागे'त्ति हताः - प्रहारदानतो मथिता - माननिर्मथनतः प्रवरवीराः - प्रधानभटा घातिताश्च येषां ते तथा, विपतिताश्चिह्नध्वजाः चक्रादिचिह्नप्रधानध्वजः पताकाश्चतदन्या येषां ते तथा ततः कर्म्मधारयोऽतस्तान्, 'किच्छपाणगए 'त्ति कृच्छ्रगतप्राणान्-कष्टपतिप्राणानित्यर्थः 'दिसो दिसिं’'ति दिशः सकाशादन्यस्या दिशि अभिमतदिकूत्यागाद्दिगन्तराभिमुखेनेत्यर्थः, अथवा दिगेवापदिग् नाशनाभिप्रायेण यत्र प्रतिषेधने तद्दिगपदिक् तद्यथा भवत्येवं, 'पडिसेहित्य'त्ति प्रतिषेधितवान् युद्धान्निवर्त्तितवानित्यर्थः ॥
३४०
मू. (३७३) नायमेयं अरहया सुयमेयं अरहया विन्नायमेयं अरहया रहमुसले संगामे, रहमुसले णं भंते! संगामे वट्टमाणे के जइत्था के पराजइत्था ?, गोयमा ! वज्जी विदेहपुत्ते चमरे असुरिंदे असुरकुमारराया जइत्था नव मल्लई नव लेच्छई पराजइत्था ।
तणं से कूनिए राया रहमुसलं संगां उवद्वियं सेसं जहा महासिलाकंटए नवरं भूयानंदे हत्थिराया जाव रहमुसलसंगामं ओयाए, पुरओ य से सक्के देविंदे देवराया, एवं तहेव जावचिट्ठति, मग्गओ य से चमरे असुरिदे असुरकुमारराया एवं महं आया सं किढिणपडिरूवगं चिउव्वित्ताणं चिट्ठइ, एवं खलु तओ इंदा संगामं संगामेति, तंजहा-देविंदे य मणुइंदे य असुर्रिदेय, एगहत्थिणावि णं पभू कूनिए राया जइत्तए तहेव जाव दिसो दिसिं पडिसेहित्था ।
से केणट्टेणं भंते ! रहमुसले संगामे २ ?, गोयमा ! रहमुसले णं संगामे वट्टमाणे एगे रहे अनासए असारहिए अमारोहए समुसले महया जणक्खयं जणवहं जणप्पमद्दं जणसंवट्टकप्पं रुहिरकद्दमं करेमाणे सव्वओ समंता परिधावित्था से तेणट्टेणं जाव रहमुसले संगामे । रहमुसले णं भंते ! संगामे वट्टमाणे कति जणसयसाहस्सीओ वहियाओ ?, गोयमा ! छन्नउतिं जणसय
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org