________________
शतकं-७, वर्गः-, उद्देशकः-९
३३९ सन्नद्धः-कृतसन्नाहोवार्मिकसंनद्धः बद्धा कवचिका-सन्नाहविशेषोयस्यस बद्धकवचिकः उत्पीडितागाढीकृता वक्षसि कक्षा-हृदयरज्जुर्यस्यसतथा ग्रैवेयकंबद्धंगलकेयस्यसतथा वरभूषणैर्विराजितो यः स तथा ततः कर्मधारयोऽतस्तम् 'अहियतेयजुत्तं विरइयवरकण्मपूरसललियपलंबावचूलचामरोयरकयंधयारं' विरचते वरकर्णपूरे-प्रधानकर्णाभरणविशेषौ यस्य स तथा सललितानि प्रलम्बानि अवचूलानि यस्यस तथा चामरोत्करेण कृतमन्धकारं यत्रस तथा ततःकर्मधारयोऽतस्तं _ 'चित्तपरिच्छोयपच्छयं' चित्तपरिच्छोको-लघुः प्रच्छदो-वस्त्रविशेषो यस्य स तथाऽतस्तं 'कणगघडियसुत्तगसुबद्धकच्छं' कनकघटितसूत्रकेण सुष्ठु बद्धा कक्षा-उरोबन्धनं यस्य स तथा तं 'बहुपहरणावरणाभरियजुज्झसझं' बहूनां प्रहरणाना(मस्यादीना)मावरणानांच-स्फुरकंकटकादीनां भृतो युद्धसज्जश्चयःसतथाऽतस्तं सछत्तंसज्झयं सघंटे' 'पंचामेलियपरिमंडि-याभिरामं' पञ्चभिरापीडिकाभः-चूडाभिः परिमण्डितोऽभिरामश्च-रम्योयःस तथाऽतस्तम् 'ओसारियजमलजुलयघंट' अवसारितं-अवलम्बितंयमलं-समंयुगलं-द्वयंघण्टयोर्यत्र स तथाऽतस्तं विज्जुपिणद्धं व कालमेहं' भास्वरप्रहरणाभरणादीनांविद्युत्कल्पता कालत्वाच्च गलस्य मेघसमतेति उप्पाइयपव्वयं व सक्खं' औत्पादिकपर्वतमिव साक्षादित्यर्थः ‘मत्तं मेहमिव गुलुगुलंतं मनपवणज- इणवेगं' मनःपवनजयीवेगोयस्यसतथाऽतस्तं, शेषंतुलिखितमेवास्ति, वाचनान्तरे त्विदंसाक्षाल्लिखितमेव दृश्यत इति।
'कयबलिकम्मे'त्तिदेवानांकृतबलिका कयकोउयमंगलापायच्छित्ते'त्तिकृतानि कौतुकमङ्गलान्येव प्रायश्चित्तानीव दुःस्वप्नादिव्यपोहायावश्यं कर्त्तव्यत्वात् प्रायश्चित्तानियेन स, तथा, तत्र कौतुकानि-मषीपुण्ड्रादीनि मङ्गलानि-सिद्धार्थःकादीनि ‘सन्नद्धबद्धवम्मियकवए'त्ति सन्नद्धः संहननिकया तथा बद्धः कशाबन्धनतो वर्मितोःवर्मतया कृतोऽङ्गे निवेशनात् कवचः-कङ्कटो येनसतथा, ततः कर्मधारयः, 'उप्पीलियसरासणपट्टिए'त्ति उत्पीडिता-गुणसारणेन कृतीवपीडा शरासनपट्टिका-धनुर्दण्डो येन स तथा, उत्पीडिता वा-बाही बद्धा शरासनपट्टिका-बाहुपट्टिका येन स तथा, 'पिणद्धगेवेञ्ज विमलवरबद्धचिंधपट्टे'त्ति पिनद्धं-परिहितं ग्रैवेयक-ग्रीवाभरणं येन स तथा विमलवरो बद्धश्चिह्नपट्टो-योधचिह्नपट्टो येन स तथा, ततः कर्मधारयः।
'गहियाउहपहरणे'त्तिगृहीतानिआयुधानि-शस्त्रानिप्रहरणाय-परेषांप्रहारकरणाय येन स तथा, अथवाऽऽयुधानि-अक्षेप्यशस्त्रानिखगादीनि प्रहरणानि तु-क्षेप्यशस्त्रानि नाराचादीनि ततोगृहीतान्यायुधप्रहरणानियेन स तथा, 'सकोरिंटमल्लदामेणं'तिसह कोरिण्टप्रधानैः-कोरिण्टकाभिधानकुसुमगुच्छैाल्यदामभि-पुष्पमालाभिर्यत्तत्तथा तेन, 'चउचामरवालवीइयंगे'त्ति चतुर्णां चामराणां वालैर्वीजितमङ्गं यस्य सतथा, मंगलजयसद्दकयालोए'त्ति मङ्गलो-माङ्गल्योजयशब्दः कृतो-जनैर्विहित आलोके-दर्शने यस्य स तथा
__ “एवं जहा उववाइए जाव' इत्यनेनेदं सूचितम्-'अनेगगणनायगदंडनायगराईसरतलवरमाइंबियकोडुंबियमंतिमहामंतिगणगदवारियअमच्चचेडपीढमद्दणगरनिगमसेतुसेनावइसत्थवाहदूयसंघिपाल सद्धिं संपरिबुडेधवलमहामेहनिग्गएविवगहगणदिप्पंतरिक्ख-तारागणाणमज्झे ससिव्व पियदंसणे नरवई मज्झणधराओ पडिनिक्खमइ मज्जणधराओ पडिनिक्खमित्ता जेणेव बाहिरिया उवट्ठाणसाला जेणामेव उदाई हत्थिराया तेणामेव उवागच्छइत्ति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org